भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 410, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 410

४१४ वीरमित्रोदयस्य राजनीतिप्रकाशे एव तस्य स्थानस्याग्रे योग्यताकथनम् “अधृष्यम्” इत्यादिना कृतम् । अधृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम् । तमोऽपेतं विपङ्कं च प्रावृट्कालाऽहतं तथा ॥ तमोऽपेतमित्यनेन सतमसां दर्यादीनां निषेधः । प्रावृट्का- लाहतमित्यनेन निम्नप्रदेशनिषेधः । तत्र प्रावृट्काले जलागमने दृष्यादीनामनवस्थाने ऽवस्थातुमशक्यत्वात् । यत्रोष्य च स्वं विषयं सर्व शक्नोति रक्षितुम् । तत्रस्थश्चतुरो मासान् गजाश्वान् पोषयेन्नृपः ॥ स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव । प्रतिपानैः, स्नेहातिपानकृतरोगादिनिवृत्त्यर्थं कृतै रूक्षीकर- णकषायपानैः । अथ वा । स्नेहपानप्रतिपानशब्दाभ्यां पूर्वो- त्तरबस्ती गृह्येते, ते च वैद्यकशास्त्रे प्रसिद्धे । आषाढशुक्लपक्षान्ते दशम्यूर्ध्वं नराधिपः । उत्सवं सुमहत्कुर्याद्देवानामर्र्चने रतः ॥ अर्चायां वा पटे वापि कृतं देवमथार्चयेत् । अर्चायां प्रतिमायाम् । देवभोगमयं विष्णुं श्रीसहायमरिन्दमम् । बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः ॥ उत्सवं सुमहत्कुर्यात्ततः पञ्चदिनं नृपः । ततः प्रभृति नित्यं स्याद्वासुदेवस्य चार्चनम् ॥ सात्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः । गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत् ॥ अस्मिन्नेव तथा काले कोटिहोमं समाचरेत् । कार्त्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव ॥