वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 411, कुल 490 में से
संदर्भ में पढ़ेंमासतिथिविशेषविहितं देवताविशेषपूजनम् । ४१५ शुक्लपक्षत्रिभागेऽन्त्ये कार्त्तिकस्य ततो नृपः । उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा ॥ वैकुण्ठं पूजयेद्देवमर्चायामथ वा पटे । महादानं ततो दद्यात्प्रेङ्खां दद्यात्तथैव च ॥ प्रेङ्खा दोला । “दोला प्रेङ्खादिका स्त्रियाम्” इत्यमरः । दोलायात्रां कुर्यादित्यर्थः । मल्लानामथ वेश्यानां वन्दिनां नर्त्तकैः सह । दद्यादितिशेषः । यात्राविधानं सकलं तदा कुर्यान्महीपतिः । एतत् कृत्वा ततो यात्रा कार्या भवति पार्थिवैः ॥ शरत्काले गतातङ्कैः पुष्टाश्वरथकुञ्जरैः । एवं हि राज्ञा चतुरोऽपि मासान् पूज्यो भवेद्देववरोऽरिहन्ता । सन्त्यक्तनिद्रं मधुसूदनं च सम्पूज्य यात्राभिमतप्रदा स्यात् ॥ इति विष्णुधर्मोत्तरे चातुर्मास्ये कृतयात्रस्य राज्ञो ऽवस्थानविष्णुपूजनविधिः । अथ सामान्यतस्तिथिविशेषमासविशेषविहितो देवताविशेषपूजनविधिः । ' पूजयेच्चतुरो मासान् सुप्तं मधुनिषूदनम् । प्रौष्ठपादामले पक्षे पूजयेच्च शतक्रतुम् ॥ प्रौष्ठपादो भाद्रपदः । नवम्यामाश्वयुक्छुक्ले भद्रकालीं तु पूजयेत् । रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा ॥ सम्वत्सरात्कोटिहोमं कुर्याच्च घृतकम्बलम् । राज्यसंवत्सरग्रन्थोः कुर्यात्तुण्डुडुपूजनम् ॥