वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 412, कुल 490 में से
संदर्भ में पढ़ें४१६ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रौष्ठपादामले पक्षे शतक्रतुपूजाभिहिता सा च तत्पक्षीयाया- मष्टम्यामिन्द्रध्वजोच्छ्रायदिने कर्तव्येत्यभिधास्यते । एवं भद्रका- लीपूजानीराजनघृतकम्बला अग्रेऽभिधास्यन्ते । राज्येति । रा- ज्याभिषेकनक्षत्रपूजनं राज्ञो जन्मदिनविहितसंवत्सरग्रन्थिन- क्षत्रपूजनं च प्रतिसंवत्सरं कुर्यादित्यर्थः । कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि । एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समग्रं वसुधां प्रशास्ति ॥ इति विष्णुधर्मोत्तरोक्तस्तिथिविशेषमासविशेष- विहितो देवताविशेषपूजादिविधिः । अथ तिथिविशेषे मासविशेषे च विहिता ब्रह्म- पुराणोक्ता देवयात्रा । वैशाखादिषु मासेषु षट्सु देवगृहेषु च । यात्रोत्सवः सदा कार्यः प्रतिसंवत्सरेष्वपि ॥ कार्या च ब्रह्मणे यात्रा प्रतिपद्यपि सर्वदा । द्वितीयायां च देवेभ्यो विद्यारम्भे महोत्सवे ॥ भागीरथ्यै तृतीयायां कर्त्तव्या च सुशोभना । विनायकाय नागेभ्यश्चतुर्थ्यामथ कारयेत् ॥ स्कन्दाय षष्ठ्यां सप्तम्यां सूर्येभ्यश्च यथाक्रमम् । पुरन्दराय चाष्टम्यां रुद्राय सगणाय च ॥ दुर्गाभ्यश्चैव मातृभ्यो नवम्यामथ सर्वदा । भूम्यै दशम्यां कर्त्तव्या सर्वोपकरणान्विता ॥ एकादश्यां समासेन विधात्रे विश्वकर्मणे । द्वादश्यां विष्णवे कार्या सायुधाय महात्मने ॥ त्रयोदश्यां तु कामाय चतुर्दश्यां कपर्दिने । पौर्णमास्यां तु देवेभ्यस्तथा चन्द्रमसे तथा ॥