वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 407, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे परराष्ट्रं जित्वातदेशाचाराद्यलङ्घनम् ४११ यथाकृतान्, धर्मान् प्रजारक्षणप्रकारान् ब्राह्मणामात्यप्रभृतिभ्यो वृत्तिदानानि च, प्रमाणानि अविप्लाव्यानि, कुर्वीत कारयेत् । अभीप्सितानाम्, रणहतराजवंशस्य राज्ञस्तदमात्यानां चापे- क्षितानाम् । अर्थानां द्रव्याणाम् । आदानं ग्रहणम् । अप्रियकरम् अनिष्टकरम् । दानं च प्रियकारकं, तेषामिष्टकारकम् । यतोऽव- श्यापेक्षितगजाश्वादिधनलाभे राजान्तरैरनाक्रमणीयत्वं सम्भव- ति, अत एव तत् कालयुक्तं नवीनराज्यलाभकाले युक्तम- तः प्रशस्यते । विष्णुः, राजा परपुरप्राप्तौ तत्कुलीनमभिषेचयेत् न राजकुल- मुच्छिन्द्यात् अन्यत्राकुलीनराजकुलात् । इति । कात्यायनः, दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् । न प्रजानुमतो यस्मादन्यायेषु प्रवर्त्तते ॥ इति । राज्ञोऽन्यायप्रवृत्तौ यतः प्रजानामनुमतिर्नेत्यतो राष्ट्रं न पीडयेदितिसिद्धे येषाममात्यादीनामनुमत्याऽन्याये प्रवृत्तिस्तान् पीडयेदेवेति ध्येयम् । यदा च परराष्ट्रं वशे कृतं तदा तद्देशा- चारादीन् न लङ्घयेदित्याह— याज्ञवल्क्यः, यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति यातव्यः शत्रुर्यदि युद्धं करोति तदा तं हत्वा जित्वा वा तत्पदे तद्वंश्यमभिषिञ्चेदित्युक्तम् । यदि च स विजिगीषुं प्रबलं निर्णीय युद्धोपस्थितावपि सन्धि करोति तदा—