वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 408, कुल 490 में से
संदर्भ में पढ़ें४१२ वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । इति महाभारतोक्तेरवश्यं सन्धिरेव कार्यो न पुनर्विग्रहः । तदुक्तम्— मनुना, सह वापि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥ पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाऽऽक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ इति । वाशब्दः पूर्वोक्तयुद्धविकल्पार्थः । प्रयत्नतो युक्तः, यातव्ये- न प्रयत्नेन दूतप्रेषणादिना युक्तो योगं प्राप्तः सन् । सह, तेन शत्रुणा सह । मित्रं हिरण्यं भूमिं वा त्रिविधं यत्फलं, तत् सम्पश्य- न्,समीचीनमिति जानानः। तदन्यतरलाभे सन्धिं कृत्वा,व्रजेत्, स्वपुरं यायात् । मण्डले द्वादशारिमण्डले । पार्ष्णिग्राहं, विजिगी- षोः पुरतः स्थितो यातव्यः, पश्चात्स्थितः स्वशत्रुः, स्वभूम्यन- न्तरः पार्ष्णिग्राह इत्युच्यते तम् । तथा तत्पश्चादवस्थितं त- द्भूम्यनन्तरं स्वमित्रमाक्रन्दसंज्ञकं च । सम्प्रेक्ष्य, तद्बलाबलं ज्ञात्वेत्यर्थः । मित्रात्, मित्रत्वं प्राप्तात् यातव्यात्, अथ वा अमित्रात्, मैत्रीमकुर्वतो यातव्यात्, अर्थाद्विजिगीषुः यात्रायाः फलं, शत्रुजयं, सन्धौ वा मित्रादित्रितयलाभान्यतरत्, अवाप्नु- यात् प्राप्नुयात् । विष्णुः, परेणाभियुक्तश्च सर्वात्मना राष्ट्रं गोपायेत्सर्वतश्चात्मानं गोपायेत् । इति । मनुः, क्षेमां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।