वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 394 of 490
Read in context३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्कर उवाच । द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा । गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥ गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि । नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥ छत्रं ध्वजं पताकां च वर्म चैव महाभुज । आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥ तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् । कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥ प्रमथांश्च सहायार्थे धरणीं च महीभुजम् । भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥ संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् । रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥ रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः । पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥ पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् । पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥ दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः । ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥ चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः । मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥ आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् । अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥ या ओषधय इत्येवं धारयेदोषधीः शुभाः । नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥