वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 398 of 490
Read in context४०२ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना । नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः । भग्नसन्धारणं तत्र योधानां परिकीर्त्तितम् ॥ प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते । तत्र, क्रोशमात्रावस्थिते राज्ञि । युद्धादिना परराष्ट्रग्रहणं राज्ञोऽवश्यकर्त्तव्यमित्याह— याज्ञवल्क्यः, य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति । शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्र- तिपादयितुमर्हति । अश्वमेधेन यक्ष्य इति परविषयमभियाया- द्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परा- यिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डा- क्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हित- मनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोज- नोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवहितः शत्रु- णा सह युद्ध्येत् । इति । युद्ध्यता राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते । मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥ शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान् । तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥ न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत् ।