वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 399 of 490
Read in contextयात्राप्रकरणे सैन्यकल्पना । ४०३ आयुधानां तु सम्मर्दो यथा न स्यात्परस्परम् ॥ तथा तु कल्पना कार्या योधानां भृगुनन्दन । भेत्तुकामः परानीकं संहतैरेव भेदयेत् ॥ भेदरक्षापरेणापि कर्त्तव्या संहता तथा ॥ स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वाऽरिप्रकल्पितम् । व्यूहं भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ॥ गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज । रथस्य चाश्वाश्चत्वारश्चत्वारस्तस्य चर्मिणः ॥ चर्मिभिश्च समास्तत्र धन्विनः परिकीर्त्तिताः । पुरतश्चर्मिणो देया देयास्तदनु धन्विनः ॥ धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् । रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ॥ पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः । अवर्मयित्वा यो वाहमात्मानं वर्मयेन्नरः ॥ स राम नरकं याति सुकृतेनापि कर्मणा । शूराः प्राङ्मुखतो देया न देया भीरवः क्वचित् ॥ शूरान् वा मुखतो दत्त्वा स्कन्धमात्रप्रदर्शनम् । कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रवकारकम् ॥ दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः । इति । यदि च परबलं दृष्ट्वा शत्रुर्युद्धोपक्रमं न करोति आसनमेव करोति तदा किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।