वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 400 of 490
Read in context४०४ वीरमित्रोदयस्य राजनीतिप्रकाशे समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युद्ध्येत जयप्रेप्सुरपेतभीः ॥ उपजपेत्, भेदं कुर्यात् । एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनाभिप्रसह्यैतांश्छनकैर्वशमानयेत् ॥ इति । सामादीनुपायानभिधाय युद्धं गत्यन्तराभाव एव कर्त्तव्य- मित्यभिप्रायेणोक्तम्— श्रीरामायणे, तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च । दानं लुब्धेषु भेदश्च शङ्कितेष्विति निश्चयः ॥ दण्डस्तथैव पात्यश्च नित्यकालं दुरात्मसु । इति । मनौ, साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥ इति । तथा, त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये । तथा युद्ध्येत सम्पन्नो विजयेत रिपून् यथा ॥ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥