वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 47 of 490
Read in contextब्रह्मपुराणोक्तराजाभिषेकः । ४५ सर्वौषधैः सर्वबीजैर्गन्धैरन्नैश्च सर्वदा । सर्वपुष्पैः सर्वफलैः स्नाप्यो रोचनया तथा ॥ अथ भद्रासनगतः सर्वतोयैः शुभाम्बरैः । यथाशक्त्या समानीतैः पुरस्कृत्य पुरोहितैः । नृपतिस्त्वभिषेक्तव्यो दैवज्ञवचनान्नरैः ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रमुख्यैस्तथैव च । पतिव्रताभिर्नारीभिः पुत्रिणीभिश्च पुत्रवत् ॥ ततः स्नातो विलिप्ताङ्गः कृतदेवाग्नितर्पणः । आबद्धमुकुटः स्रग्वी बद्धपट्टो विभूषितः ॥ मङ्गलानां शतं पश्येत्पुण्यमष्टोत्तरं शतम् । शान्त्यै प्राधानिके स्थाने सर्वमेतद्यथाक्रमम् ॥ कृत्वा शेषं ततो हुत्वा दद्यात्पूर्णाहुतिं ततः । अभिषिक्तस्ततो राजा साम्राज्यादौ विनायकम् ॥ ततः क्रमेण देवांश्च ब्रह्मविष्णुमहेश्वरान् । ग्रहान्नीलं च नागेन्द्रमग्निं विप्रान् पुरोहितम् ॥ देवान् पितॄन् समुद्दिश्य दद्याद्विप्रेषु दक्षिणाम् । अभयं सर्वभूतेषु सम्यक्तत्र ददाति च ॥ आघातस्थानगान् सर्वान् पशूनपि विमोचयन् । आघातस्थानं हननस्थानम् । बन्धनस्थानसंस्थांश्च प्रमोचयति शास्त्रवत् । गोब्राह्मणादिहन्तॄंश्च पापिष्ठान् दारुणानपि ॥ जहाति हस्तिहन्तॄंश्च क्रूरांश्चापि सुशिक्षितान् । व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे ॥ उपवेश्यो भवेद्राजा स्वयमेव पुरोधसा । सिंहासनस्थः सम्पश्येत्प्रकृतीश्च समासतः ।