वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 48 of 490
Read in context४६ वीरमित्रोदयस्य राजनीतिप्रकाशे छत्रायुधानि सम्पूज्य गणमुख्यांस्तुरङ्गमान् ॥ आरुह्यालङ्कृतं नागं विसृजन् धनसञ्चयम् । प्रदक्षिणीकृत्य पुरं प्रविश्य च पुरं गृहम् ॥ समस्तान् पौरमुख्यांश्च कृत्वा पूजां विसर्जयेत् । गतेषु तेषु च धनैस्तर्पयेद्भटनर्त्तकान् ॥ ब्राह्मणान् भोजयेत्सर्वान् दीनानाथांश्च बान्धवान् । ततो महाजनैः सार्द्धं पूर्वराजक्रमादिभिः ॥ आहारं कुरुते राजा राजभृत्यान् विसृज्य च । आचम्य ताम्बूलमुखो विहरेत ततः क्षणम् ॥ ततः कतिपयैः सार्द्धमन्तःपुरनिवासिभिः । रक्षेत्सपवादात्मानं भूयो भुङ्क्ते यथासुखम् ॥ इति । श्रीरामायणेऽपि सम्भारसम्पादनपूर्वकमभिषेक उक्तः— शनैस्तस्मिन् प्रशान्ते तु जनघोषे नराधिपः । प्रणम्य गुरुमासीनमित्युवाच पुरोहितम् ॥ अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् । तदस्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥ तच्छ्रुत्वा भूमिपालस्य वासिष्ठो द्विजसत्तमः । आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ युक्तान् नियोगिपुरुषान् । सुवर्णादीनि रत्नानि मणीन् सर्वौषधीरपि । शुक्लं च माल्यं लाजांश्च पृथक्च मधुसर्पिषी ॥ अहतानि च वासांसि रथं सर्वायुधानि च । सितवर्णं च तुरगं गजं च शुभलक्षणम् ॥ चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् । शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥