BharatKosha
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

by महर्षि याज्ञवल्क्य

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished782 pages

Page 387 of 782

Read in context
Page 387

तत्फलप्रदः, एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शितः—'स्वशिल्पमि- च्छन्नाहर्तुं बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाच- रेत् ॥ शिष्यन्तमसन्दुष्टं य आचार्यं परित्यजेत् । बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् । शक्ति्तश्चानुमान्यैनमन्तेवासी निवर्तते ॥' (ना० ५।१६-२०) इति ! 'वध'श- ब्दोऽत्र ताडनार्थः; दोषस्याल्पत्वात् ॥ १८४ ॥ भाषा--पहले निवास की अवधि निश्चित करके गुरु के घर रहने वाला ब्रह्मचारी उसके पूर्व विद्या समाप्त कर लेने पर भी अपनी जीविका का शिल्प सीखकर उसका फल गुरु को देते हुए और गुरु द्वारा दिया गया भोजन ग्रहण करता हुआ उन्हीं के निकट निवास करे ॥ १८४ ॥

इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् ।

अथ संविद्व्यतिक्रमप्रकरणम् १५

संप्रति संविद्व्यतिक्रमः कथ्यते; तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्—'पाखण्डिनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्वि- वादपदं स्मृतम् ॥' इति पारिभाषिकधर्मेण व्यवस्थानं समयः, तस्यानपाकर्माव्य- तिक्रमः परिपालनं तद्व्यतिक्रम्यमाणं विवादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थं किंचिदाह— राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥ १८५ ॥ राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान्न्यस्य स्थापयित्वा ^३तद्ब्राह्मणव्रातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद्भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान्ब्राह्मणान्ब्रूयात् ॥ १८५ ॥ भाषा—राजा अपने दुर्ग में स्थान बनाकर उसमें तीनों वेदों के अध्ययन से सम्पन्न, ब्राह्मणों को बुलाकर उन्हें कुछ वृत्ति देकर उनसे कहे कि आप लोग अपने धर्म का पालन करें ॥ १८५ ॥


१. व्यवहारपदं । २. त्रैविद्यान् । ३. तद्ब्राह्मणजातं ।