याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
by महर्षि याज्ञवल्क्य
Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)
Page 388 of 782
Read in context३३२ याज्ञवल्क्यस्मृतिः एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह— निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ १८६ ॥ श्रौतस्मार्तधर्मानुपमर्देन समयान्निष्पन्नो यो धर्मो गोप्रचारोदकरक्षण- देवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्मा- विरोधेनैव यः सामयिको धर्मो 'यावत्पथिकं भोजनं देयमस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया' इत्येवंरूपः कृतः सोऽपि रक्षणीयः ॥ १८६ ॥ भाषा—अपने धर्म के अनुकूल जो धर्म सामयिक हो तथा राजा द्वारा निर्दिष्ट धर्म की यत्नपूर्वक रक्षा करें ॥ १८६ ॥ एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह— गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १८७ ॥ यः पुनर्गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति, संवित् समयस्तां समूहकृतां राजकृतां वा यो लङ्घयेदतिक्रामेत्, तदीयं सर्वं धनमपहृत्य, स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्य- तिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु ( मनुः ८।२१९-२२० )—'यो ग्रामदेश- संघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णं षण्णिष्काञ्छतमानं च राज- तम् ॥' इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषण्णिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ १८७ ॥ भाषा—जो गण के अर्थात् सबके सामूहिक धन का अधर्मपूर्वक अपहरण करे अथवा राजा द्वारा या समूह द्वारा दी गई व्यवस्था का उल्लंघन करे उसका सम्पूर्ण धन छीनकर उसे राज्य से निर्वासित कर देना चाहिए ॥ १८७ ॥ इदं च तैः कर्तव्यमित्याह— कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैर- नुसरणीयम् ॥— अन्यथा दण्ड इत्याह— यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ १८८ ॥ १. मण्डले । २. राजा विप्रवासयेत् । ३. राज्ञा कृतां । ४. हितवदन ।