BharatKosha
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)

DevanagariHindipublished278 pages

Page 169 of 278

Read in context
Page 169

मरकतयुक्तिः । १२९ सर्वमन्त्रौषधिगणैर्यन्नशक्यं चिकित्षितुम् । महाहि-दंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥ ४१ ॥ अन्यमप्याकरे यच्च यद्दोषैरपवर्ज्जितम् । जायते तत्पवित्राणामुत्तमं परिकीर्त्तितम् ॥ ४२ ॥ अत्यन्तहरिद्वर्णं कोमलमर्चिर्विभेद जटिलञ्च । काञ्चनचूर्णैर्नान्तःपूर्णमिव लक्ष्यते यच्च ॥ ४३ ॥ युक्तं संस्थानगुणैः समरागं गौरवेण विहीनम् । सवितुः करसंस्पर्शात् क्रूरयति सर्वाश्रयं दीप्त्या ॥ ४४ ॥ हित्वा च हरितभावं यस्यान्र्तविनिहिता भवेद्दीप्तिः । अचिरप्रभा प्रभाहत नवशाद्वल-सन्निभा भाति ॥ ४५ ॥ यच्च मनसः प्रसादं विदधाति विरोचितमतिमात्रम् । तन्मरकतं महागुणमिति रत्न-विदां मनोवृत्तिः ॥ ४६ ॥ यस्तु भास्करसंस्पर्शाद्धस्त-न्यस्तो महामणिः । रञ्जयेदात्म-पादैस्तु महामरकतं हि तत् ॥ ४७ ॥ चतुर्द्धा जातिभेदस्तु महामरकते मणौ । छायाभेदेन विज्ञेयो चतुर्व्वर्ण(र्गं)स्य लक्षणैः ॥ ४८ । अथ मरकतमणेश्छाया । भवेदष्टविधा छाया मणेर्मरकतस्य च । बर्हि-पुच्छसमाभासा चाष-पक्ष-समापरा ॥ ४९ ॥ हरित्-काच-निभा चान्या तथा शैवाल-सन्निभा । खद्योत-पृष्ठ-संकाशा वालकौरसमा तथा ॥ ५० ॥ नवशाद्वलसच्छाया शिरीष-कुसुमोपमा । एवमष्टौ समाख्याताश्छाया मरकताश्रयाः ॥ ५१ ॥ छायाभिर्युक्तामेताभिः श्रेष्ठं मरकतम्भवेत् । १७