युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 170, कुल 278 में से
संदर्भ में पढ़ें१३• युक्तिकल्पतरौ— पद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् । तथा मरकतच्छाया श्यामला हरितामला ॥ ५२ ॥ अथ दोष-गुणाः । दोषाः सप्त भवन्त्यस्य गुणाः पञ्चविधा स्मृताः । अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्य धृते भवेत् ॥ ५३ ॥ विस्फोटः स्यात् सपिड़के तत्र शस्त्रहतिर्भवेत् । स पाषाणे भवेदिष्टनाशो मरकते धृते ॥ ५४ ॥ विच्छायं मलिनं प्राहुर्वार्य्यते नतु धार्य्यते । शर्करं कर्करायुक्तं पुत्रशोक-प्रदं धृतम् ॥ ५५ ॥ जरठं (१) कान्तिहीनन्तु दंष्ट्रिवाङ्गिभयावहम् । कल्माषवर्णं धवलं ततो मृत्यु-भयम्भवेत् । इति दोषाः समाख्याता वर्ण्यन्तेऽथ महागुणाः ॥ ५६ ॥ अथ गुणाः । निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुतायुतम् । स्निग्धं रूक्षविनिर्मुक्त मरजस्कमरेणुकम् ॥ ५७ ॥ सुरागं रागबहुलं मणेः पञ्चगुणा मताः । एतैर्युक्तं मरकतं सर्व्वपाप भयापहम् ॥ ५८ ॥ गजवाजि-रथान्दत्त्वा विप्रेभ्यो विस्तराब्धि मे । तत्फलं समवाप्नोति शुद्धे मरकते धृते ॥ ५९ ॥ धनधान्यादि-करणे तथा सैन्य-क्रियाविधौ ॥ ६० ॥ विषरोगोपशमने कर्म्मस्थैर्य्यर्णशेषु च । शस्यते मुनिभिर्यस्मादयं मरकतो मणिः ॥ ६१ ॥ (१) जठरं इति (ख) पुस्तक पाठः ।