युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)
Page 237 of 278
Read in contextते तैजसाः पुण्यवतां प्रदेशे ; भवन्ति पुण्यैरपि ते मिलन्ति ॥ ५० ॥ एको यदा तैजससंज्ञकोऽश्वः, किं कार्य्यमन्यैस्तुरगाधमैस्तु । शुद्धं यदा हौरखखण्डमेकं ; किं कार्य्यमन्यैर्मणिभिर्विचित्रैः ॥ ५१ ॥ उत्प्लुत्य ये वाजिवरा व्रजन्ति क्रुद्धा भृशं वेगसमन्विताश्च । ये लङ्घयन्तः परिखामपारां ते गागनाः पुण्यतमाः प्रदिष्टाः ॥ ५२ ॥ द्वयोर्लक्षणसम्बन्धात् तुरगः स्याद् द्विभौतिकः । स्वजातिगुणभूतानां हयानां वाहनं शुभम् ॥ ५२ ॥ असञ्जातिगुणादीनां वाहनं क्लेशकारिणम् । एषां चिकित्सा न प्रोक्ता ग्रन्थविस्तार-सम्भवात् ॥ ५४ ॥ शालिहोत्रादिविज्ञानात् तद्विज्ञेयं यथोत्तरम् । असम्भवे (१) हि दुष्टाश्वं वाहयेदिति चेत् तदा ॥ ५५ ॥ तिलं सकाञ्चनं दद्याल्लवणं वा गुडान्वितम् । रेवन्तं (२) पूजयेद्वापि निजं निर्मन्थयेत् तदा । दद्यात् ताम्रपलं वापि अभावे सर्व्वकर्मणः ॥ ५६ ॥ एवमन्यत्रापि । काञ्चनं रजतं ताम्रं लौहमेतद् यथाक्रमम् । ब्रह्मादि-जातिदोषाणां देयमेतत्प्रशान्तये ॥ ५७ ॥ अभावेऽपि च सर्व्वेषां ताम्रेण स्यात् प्रतिक्रिया ॥ ५८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ हय-परीक्षा (क) ॥ ० ॥ ( १ ) असम्भवेति इति (क) पुस्तक पाठः । ( २ ) वेमत्थं इति (ख) पुस्तक पाठः ।
- तुरगतत्त्वं सर्व्वं शालिहोत्रीये, श्रीमज्जयन्त-नकुल-रचिताश्ववैद्यकेऽनुसन्धेयम् ।