युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)
Page 239 of 278
Read in contextअश्वयुक्तिः । १८९ तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः । नाल्पेन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ ६५ ॥ दन्ता विभग्ना अपि युद्धरङ्गे पुनः प्ररोहन्ति पुरैव तेषाम् । ये कुञ्जराः कोमलसर्व्वदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशाः ॥ ६६॥ स्रवन्मदाः सन्ततरोषभाजोऽमर प्रियाः सर्व्वभुजो वलाढ्याः । सुतीक्ष्णदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः । ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ ६७ ॥ नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते वलमुत्सृजन्ति । अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ ६८ ॥ ये कुञ्जराः कर्कशखर्व्वदेहाः कदापि माद्यन्ति गलन्मदास्र । आहार योगाद्दलवीर्य्यभाजो नात्यम्बुकामा बहुलोमगण्डाः । विरूपदन्तास्तनुपुच्छकर्णा ज्ञेया बुधैर्वामनवंशजाताः ॥ ६९ ॥ ये दीर्घदेहास्तनुदीर्घशुण्डाः कुदन्तभाजो मलपूर्ण देहाः । स्थविष्ठगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः । अन्यद्विपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ७० ॥ ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः । स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कुञ्जराश्चाञ्जनवंशजाताः ॥ ७१ ॥ रेतश्च दानञ्च सृजन्ति शश्वदानूपदेशे प्रभवन्ति ये तु । ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ ७२ ॥ सुदीर्घदन्ता बहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः । भ्राम्यन्तिनाध्वभ्रमणाभियोगान्नाहारपानादिषु चातिशक्तिः ॥७३॥ मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये । महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशुक्लदन्ताः ॥ ७४ ॥ महाशनाः क्षीणपुरीष मूत्र- विस्तीर्ण कर्णास्तनुरोमगण्डाः ।