अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 100, कुल 540 में से
संदर्भ में पढ़ें१८ | अभिज्ञानशाकुन्तलम्
सूत ! पश्यैनं व्यापाद्यमानम्¹ ( ²शरसन्धानं नाटयति ) ।
( नेपथ्ये ) भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः।
सूतः—( आकर्ण्यविलोक्य च ) आयुष्मन् ! अस्य खलु ते ³बाणपथवर्त्तिनः कृष्णसारस्यान्तरे ⁴तपस्विन उपस्थिताः ।
स्थूलं लक्ष्यते इति भावः । यद् वस्तु नदीस्रोतःप्रभृति अर्द्धै = अर्द्धभागे विच्छिन्नं = त्रुटितं तत् सहसा कृतसन्धानमिव — कृतं सन्धानं = योजना यस्य तदिव भवति । यत् पूर्वं छिन्नं तत्तस्मिन्नेव क्षणे इति एकमिव दृश्यते इत्यर्थः । यत् वस्तु गिरितट-नदीकूलादि प्रकृत्या = स्वभावतः वक्रं = कुटिलं तदपि नयनयोः = नेत्रयोः सम्बन्धे समरेखं-समा = ऋज्वी रेखा यस्य तत् समरेखं = सरलं भवति क्षणमपि किञ्चिद्वस्तु न दूरे तिष्ठति नापि पार्श्वे = समीपे, तिष्ठति । अर्थात् रथवेगातिशयवशात् यद् वस्तु दूरतः सूक्ष्मं दृष्टं तदेव समीपमागतं स्थूलं दृश्यते । यत् मध्ये व्यवहितं तदेव कृतसन्धानं दृश्यते । एवं स्वभावतो वक्रं तदपि दूरतः समरेखं दृश्यते । तस्मात् किमपि वस्तु मम न दूरे, नापि समीपे क्षणमप्यवतिष्ठते, यदिदानीं दूरे तदेव क्षणान्तरेण समीपे, यच्चेदानीं समीपे तदेव निमेषमात्रेण दूरे भवतीत्यर्थः । अत्र काव्यलिङ्गपर्यायोक्त-विरोधाभासोत्प्रेक्षास्वभावोक्तयोऽलङ्काराः, शिखरिणी नाम वृत्तं च ॥ ९ ॥
सूत इति । सूत !=सारथे ! एवं पलायमानं मृगं व्यापाद्यमानं = मया हन्यमानं, पश्य = वीक्षस्व, इत्युक्त्वा ( शरसन्धानं = बाणसन्धानं निरूपयति = नाटयति नृपः ) । नेपथ्ये = जवनिकान्तरे भो भो राजन् ! = हे हे नृप ! अयम् = एषः आश्रममृगः = कण्वर्षिणा पालितः तपोवनहरिणः अतस्त्वया न हन्तव्यः, न हन्तव्यः = न मारणयोग्यः, न मारण-योग्यः । अत्र द्विरुक्तिरावेगेन । अन्तरायसन्धिश्च, प्रकृतार्थसूचनात् । तदुक्तं मातृगुप्ताचार्यैः—
स्वप्नो दूतश्च लेखश्च नेपथ्योक्तिस्तथैव च ।
आकाशवचनं चेति ज्ञेया ह्यन्तरसन्धयः ॥
सूतः—( आकर्ण्य अवलोक्य च = श्रुत्वा दृष्ट्वा च ) कथयति यद् आयुष्मन् !
जो वस्तु दूर से सूक्ष्म दिखाई देती है, वही पास से स्थूल के रूप में दीखती है तथा जो वस्तु वस्तुतः स्थूल है वही रथ के दूर चले जाने पर सूक्ष्म दीखती है। जो पास में पृथक्-पृथक् हैं, वही दूर से सटी दीखती है। जो वास्तविक टेढ़ी है वह दूर से सीधी दीखती है । इसी प्रकार जो वस्तु दूर है वह क्षण भर में समीप आ जाती हैं तथा जो पास है वह दूर चली जाती है ।
सूत ! इस मृग को मेरे द्वारा मारा जाता हुआ देखो, ( धनुष पर बाण चढ़ाकर निशाना साधने का अभिनय करते हैं ) ।
( नेपथ्य में ) अरे राजन् ! यह आश्रम का मृग हैं । अतः यह अवध्य है। आपके मारने योग्य नहीं है। आप इसे न मारें, न मारें।
विशेष— राजा दुष्यन्त के शरसन्धानकर ज्योंही मृग को मारना चाहा कि नेपथ्य से आवाज आई कि राजन् ! आश्रम के मृग अवध्य होते हैं, अतः इसे न मारें। ऋषियों के द्वारा दुष्यन्त के लिए राजन ! यह सम्बोधन भरत के नाट्यशास्त्र के अनुसार है, क्योंकि वहाँ निर्देश है— 'राजनित्यृषिभिर्वाच्यः'।
सारथि—( सुनकर और सामने देखकर ) महाराज ! आपके बाण मारने के मध्य में
पाठा०--१. व्यापाद्यम् । २. राजा शरसन्धानं नाटयति, इति शरसन्धानं नाटयति । ३. बाणपातपथवर्तिनः । ४. अन्तरायौ द्वौ तपस्विनौ संवृत्तौ ।