भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 101, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 101

प्रथमोऽङ्कः १९

राजा—( ससंभ्रमम् । ) तेन हि प्रगृह्यन्तां वाजिनः¹ ।
सूतः—²तथा ( इति रथं स्थापयति ) ।
( ततः सशिष्यः प्रविशत्यात्मना तृतीयो वैखानसः )
वैखानसः—( हस्तमुद्यम्य ) राजन् ! आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।


महाराज ! अस्य = एतस्य मृगस्य खलु = निश्चयेन ते = तव बाणपातवर्तिनः—पतन्त्यस्मिन्निति पातः = पतनोचितो देशः बाणस्य यः पातः तत्र वर्तते तच्छीलो बाणपातवर्ती तस्य बाणपातवर्तिनः। यद्वा बाणपातपथवर्तिन इति पाठे तु बाणस्य यः पातः तस्य यः पन्थाः तस्मिन् वर्तते तच्छीलः बाणपातपथवर्ती तस्य बाणपातपथवर्तिनः = अतिनिकटवर्तिनः कृष्णसारस्य = कृष्णमृगस्यास्य अन्तरे = मृगस्य रथस्य च मध्ये तपस्विनः=तापसा उपस्थिताः = प्राप्ताः ।

विप्राग्न्योर्विप्रयोरन्योर्दम्पत्योरिषुलक्षयोः ।
नान्तराशमनं कुर्यान्न देवबलिपीठयोः ॥

इति निषेधे विद्यमानेऽपि यत्तपस्विनामिषुलक्षयोर्मध्ये समागमनं तन्मृगरक्षार्थमेव प्रतिभातीति ब्रह्महत्याभयात् सहसा शरमोक्षणं माकार्षीरिति भावः ।

राजा—राजा = दुष्यन्तः ( ससंभ्रमं = संभ्रमेण सहितं यथा स्यात्तथा = सत्वरम् ) सूतम् आदिशति यत् तेन = तस्मात् = कारणात् वाजिनः=अश्वाः प्रगृह्यन्तां = नियम्यन्तां, स्थिरीक्रियन्तां त्वया रथः स्थापनीय इत्यर्थः ।

सूतः—यथा आयुष्मान् भवान् आज्ञापयति = आदिशति तथैव स्यात् इति उक्त्वा = कथयित्वा तथा करोति = रथमवस्थापयति ।

( ततः = तदनन्तरं सशिष्यः-शिष्याभ्यां सहितः सशिष्यः आत्मना तृतीयः प्रविशति = रङ्गमञ्चे आविर्भवति वैखानसः=तापसविशेषः । ) तथाहि वैजयन्ती—'वैखानसो वनेवासी वानप्रस्थश्च तापसः ।' वैखानसस्यापि संस्कृतमेव पाठ्यम् । तदुक्तम्—

परिव्राण् मुनिशाक्येषु तापसश्रोत्रियेषु च ।
द्विजा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥

समिदाहरणाय प्रस्थितो वैखानसो मध्यमार्गं जिघांसया मृगमनुसरन्तं राजानमवलोक्य निषिद्धाचरणात्निवारयितुं हस्तं = करम् उद्यम्य = उत्थाप्य, ऊर्ध्वबाहुः सन् तमुवाच—


विघ्नरूप में तपस्वी आकर खड़े हो गये हैं। ( इन पर प्रहार करने से ब्रह्महत्या का दोष लगेगा अतः बाण न छोड़िए ) ।

राजा—( घबराहट के साथ ) घोड़ों की लगाम कड़ी करो और रथ को रोक लो ।
सारथी—महाराज की जैसी आज्ञा ( घोड़ों की लगाम खींचकर रथ को रोकता है ) ।
( उसके बाद शिष्यों के सहित वैखानस=तपस्वी का प्रवेश )
तपस्वी—( हाथ उठाकर ) अरे राजन् ! यह आश्रम का मृग है, वन का नहीं । अतः यह अवध्य है, इसे आप मत मारिये ।


पाठा०—१. इषवः ।
२. यथा शरणमत्यायुष्मान् ( इति तथा करोति ), इति रथं स्थापयति ।