भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 88, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 88

अभिज्ञानशाकुन्तलम्

( प्रविश्य )

नटी—अज्जउत्त, इयं ह्नि । आणवे दु अज्जो को णिओओ अणुचिट्ठीअदुत्ति ।
[ आर्यपुत्र इयमस्मि । १आज्ञापयतु आर्यः को नियोगोऽनुष्ठीयतामिति । ]

सूत्रधारः—२आर्ये ! इयं हि रस-भाव-विशेषदीक्षागुरोर्विक्रमादित्यस्य अभिरूप-भूयिष्ठा परिषद् । ३अद्य खलु कालिदासग्रथितवस्तुनाभिज्ञानशँकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिस्तत् प्रतिपात्रमाधीयतां यत्नः ।


प्रविश्य—रङ्गभूमौ आविर्भूय नटी=सूत्रधारपत्नी कथयति—हे आर्य ! हे स्वामिन् ! इयमस्मि = इयमहं भवन्नियोगादुपस्थिताऽस्मि । आज्ञापयतु = निर्दिशतु, आर्यः = श्रीमान् को नियोगः = कः खल्वादेशो भवतः अनुष्ठीयताम् = सम्प्रति मया अनुष्ठेयः, कर्तव्यः ।

सूत्रधारःसूत्रधारः = प्रधाननटः कथयति यत्—

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ॥
ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रितः ।
इति धनिकोक्तौ नाटकस्य कवेः नाम कर्म च निर्दिष्टम् ।
भारती संस्कृतप्रायो वाग्व्यापारे नटाश्रयः ।
अङ्गान्येतोन्मुखीकारः प्रशंसातः प्ररोचना ॥

इत्युक्तस्वरूपां भारतीवृत्त्यङ्गभूतां प्ररोचनात्मकमङ्गमुपन्यस्यति सूत्रधारमुखेन—
आर्ये इतिआर्ये = प्रिये ! इयं = एषा, हि परिषद् = सभा, रसभावविशेषदीक्षा-


नटी—( रंगमंच पर आकर ) आर्यपुत्र ! मैं आ गयी । श्रीमान् आज्ञा दें कि मैं क्या करूँ ?

विशेष—संस्कृत के नाटकों में सूत्रधार राजा आदि श्रेष्ठपात्र, सन्यासिनो, और कभी-कभी राजकुमारी, तथा वेश्या स्त्रियाँ संस्कृत में बोलती है और शेष स्त्रियाँ प्रायः प्राकृत में बोलती हैं—

पठ्यं तु संस्कृतं नृणामनीचानां कृतात्मनाम् ।
लिङ्गिनीनां महादेव्या मन्त्रिजवेश्ययोः क्वचित् ॥
स्त्रीणां तु प्राकृतं प्रायः..................। = दशरूपक २।४४, ६५

१यद्यपि साधारणतः प्रवेश का अर्थ होता है 'चलकर अन्दर आना', किन्तु नाटक में प्रवेश करने का अर्थ है—रंगमंच पर प्रकट हो जाना, क्योंकि कभी-कभी किसी पात्र का लेटे हुए या बैठे हुए भी प्रवेश करना दिखाया जाता है । यहाँ नटी सूत्रधार की पत्नी हैं जिसे उसने पहले बुलाया था । संस्कृत साहित्य से पति के लिए आर्य सम्बोधन अत्यन्त प्रचलित है । यहाँ आर्य का अर्थ सज्जन है न कि कोई जाति । संस्कृत में आर्य की परिभाषा है । सभी स्त्रियाँ अपने पति को आर्यपुत्र कहकर पुकारती है—

कर्तव्यमाचरन् कार्यमकर्तव्यमना चरन् ।
तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥
सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने । = रत्नकोश

सूत्रधार—आर्ये ! यह शृङ्गारादि रस, भाव आदि के विशेष मर्मज्ञ महाराज विक्रमादित्य की


पाठ० १. क्वचित् पाठो नास्ति ।
२. आर्ये ! अभिरूप भूयिष्ठा परिषदीयम् ।
३. अस्यां च ।
४. शकुन्तल ।

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 88, कुल 540 में से · BharatKosha