भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 89, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 89

प्रथमोऽङ्कः ७

नटी—सुविहिदप्पओअदाए अज्जस्स ण किं वि परिहाइस्यदि [ सुविहित-प्रयोगतयार्यस्य न किमपि परिहास्यते ] ।

सूत्रधारः—( सस्मितम् ) आर्ये कथयामि ते भूतार्थम्—


गुरोः = रसाः = शृङ्गारादयः भावाः = विभावातुभावसंचारिभावाः तेषां विशेषा रसभावविशेषाः तेषां दीक्षागुरुः = दीक्षादायको गुरुः तस्यै = रसभावविशेषदीक्षागुरोः = शृङ्गारादिरसदेवादिविषयकरत्यादिभावप्रवर्तकस्य, विक्रमादित्यस्य = आदित्यपदलाञ्छनस्य राज्ञो विक्रमस्य । अभिरूपभूयिष्ठा = अभिलक्ष्यं रूपं येषां ते अभिरूपाः = अभिरूपाः = विद्वांसः भूयिष्ठाः = बहुला यस्यां सा अभिरूपभूयिष्ठा यद्वा अभिरूपैः भूयिष्ठा, अभिरूपभूयिष्ठा अथवा अभिरूपः भूयिष्ठः = भूयिष्ठभागो यस्यां सा अभिरूपभूयिष्ठा = विद्वद्गणबहुला । अद्य = अस्मिन् दिवसे, खलु = निश्चयेन, कालिदासग्रथितवस्तुना — कालिदासेन ग्रथितं वस्तु यस्मिन् तत् तेन कालिदासग्रथितवस्तुना अभिज्ञानशाकुन्तलेन—अभिज्ञायतेऽनेन यत्तद् अभिज्ञानं, शकुन्तलामधिकृत्य कृतं शाकुन्तलं अभिज्ञानं च तत् शाकुन्तलम् अभिज्ञानशाकुन्तलं तेन अभिज्ञानशाकुन्तलेन, अभिज्ञानशाकुन्तलनाम्ना नवेन = प्रत्यग्ररचितेन नाटकेन रूपकावन्तर्भेदेन उपस्थातव्यं = अभिनेतव्यम्, तत् = तस्मात् कारणात् = पात्रं पात्रं प्रतीति प्रतिपात्रम् = प्रतिनटम्, यत्नः = अध्यवसायः, आधीयताम् = क्रियताम् । एवंविधायाः विद्वद्विशिष्टायाः परिषद्को रञ्जने प्रवृत्तैरस्माभिः सर्वथाऽवहितैर्भाव्यमिति भावः ।

नटीसुविहितः = कृतः प्रयोगो येन स सुविहितप्रयोगः तस्य भावः तत्ता सुविहितप्रयोगता तया सुविहितप्रयोगतया = बहुशः कृतनाटकाभिनयतया आर्यस्य = भवतः न किमपि परिहास्यते = नहि किमपि त्रुटितं भविष्यति । समेषां नटानां भवतश्च नाट्याद्यभ्यासनैपुण्येन सर्वं शोभनमेवेदं भवेदिति नट्याः अभिप्रायः ।

सूत्रधारःस्मितं = मन्दहास्यम्, तेन सह सस्मितं सूत्रधारो नटी ब्रूते । आर्ये = प्रिये !


परिषद् हैं, इससे विद्वान् अधिक है। इस विद्वत्सभा के सामने आज हमें एक नये नाटक को प्रस्तुत करने के लिए उपस्थित होना है, जिसका विषयवस्तु प्रसिद्ध कविवर कालिदास द्वारा गुम्फित किया गया है और जिसका नाम अभिज्ञानशाकुन्तल है। अतः नाटक के खेलने वाले प्रत्येक पात्र को बड़ी सावधानी से कार्य करना होगा, कोई त्रुटि न होने पाये ।

विशेष—विशेष रूप से प्रयत्न करने का कारण विद्वानों की सभा बतायी गयी। दूसरा कारण कालिदास जैसे प्रसिद्ध महाकवि की रचना है जिसके प्रति विशेष सम्मान होने के कारण अभिनय अच्छा होना चाहिए। तीसरा कारण है—नाटक नया है, नयी चीज को जमाना कठिन होता है। अतः सावधानी के साथ प्रत्येक पात्र को तैयार रहना चाहिए।

नटी—आपकी मण्डली नाटक के खेलने में अत्यन्त निपुण है। अतः पात्रों से किसी प्रकार त्रुटि होने का भय नहीं ।

विशेष—नटी के कहने का तात्पर्य यह है कि आपकी अभिनय कुशलता एवं बारंबार अभ्यास के कारण ऐसी कोई भी कमी नहीं रहेगी, जो विद्वानों को खले। अतः आप निर्भीक होकर इस नाटक के अभिनय की व्यवस्था करें।

सूत्रधार—( मुसकरा कर ) आर्ये मैं तुमसे सत्य कह रहा हूँ—