BharatKosha
Back to the archive

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

DevanagariHindipublished304 pages

प्रारंभिक पृष्ठ व विषय-सूची

Page 1Permalink

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है, यह एक रिक्त (blank) पृष्ठ है।

Page 2Permalink

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।

ग्रन्थाङ्कः ३८

ऐतरेयारण्यकम् ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।

एतत्पुस्तकं
वे० शा० रा० रा० 'बाबाशास्त्री फडके' इत्येतैः
संशोधितम् ।

तच्च
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।

शालिवाहनशकाब्दाः १८२०
ख्रिस्ताब्दाः १८९८


( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )
अस्य मूल्यं रूपकत्रितयम् ( ३ )

Page 3Permalink
EMIC LIBRARY
Acc. No. 82633
Class No.
Date: 10.4.74
St. Card: Ch
✓
✓
s.sg
Checked:
Page 4Permalink

ग्रन्थस्यास्याऽऽदर्शपुस्तकोल्लेखपत्रिका ।

ऐतरेयारण्यकस्यास्य पुस्तकानि यैः परहितैकपरायणमनीषया संस्करणार्थं दत्तानि तेषां कृतज्ञतया नामग्रामादिकं पुस्तकानां संज्ञाश्च प्रकाश्यन्ते ।

( क. ) इति संज्ञितम्—मूलं सभाष्यं पूर्णम्, करवीरपुरनिवासिनां वे० शा० रा० श्रीमन्तां गुरुमहाराजानाम् ।
( ख. ) इति संज्ञितम्—मूलं सभाष्यं पूर्णम्, पुण्यपत्तननिवासिनां वे० शा० रा० ' गङ्गाधर शास्त्री दातार ' इत्येतेषाम् ।
( ग. ) इति संज्ञितम्—मूलं सभाष्यं पूर्णम्, आनन्दाश्रमसंग्रहालयस्थम् ।
( घ. ) इति संज्ञितम्—मूलं सभाष्यं पूर्णम्, आनन्दाश्रमस्थपुस्तकसंग्रहालयस्थितम् ।
( ङ. ) इति संज्ञितम्—मूलं सभाष्यमपूर्णं प्रथमारण्यकरहितम्, इन्दूरपुरनिवासिनां ' किवे ' इत्युपाह्वानां श्री० रा० रा० ' भाऊसाहेब बाळासाहेब ' इत्येतेषाम् ।
( च. ) इति संज्ञितम्—केवलं मूलम्, आनन्दाश्रमस्थपुस्तकसंग्रहालयस्थितम् ।
( छ. ) इति संज्ञितम्—केवलं मूलम्, आनन्दाश्रमस्थपुस्तकसंग्रहालयस्थितम् ।
( ज. ) इति संज्ञितम्—केवलं मूलम्, इन्दूरपुरनिवासिनां ' किवे ' इत्युपाह्वानां श्रीयुतानां रा. रा. ' भाऊसाहेब बाळासाहेब ' इत्येतेषाम् ।
( झ. ) इति संज्ञितम्—केवलं मूलम्, ' ठाणे ' ग्रामनिवासिनां रा० रा० ' शंकरराव भागवत ' इत्येतेषाम् ।

समाप्तेयं संज्ञासूची ।

Page 5Permalink

The provided image is blank/empty (no text appears on the page).

Page 6Permalink

ॐ तत्सद्ब्रह्मणे नमः ।

बह्वृचब्राह्मणान्तर्गतं

ऐतरेयारण्यकम् ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।

[ प्रथमारण्यके प्रथमोऽध्यायः ] ( तत्र प्रथमः खण्डः )

अथ शान्तिः ।
हरिः ॐ ।

भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि ॥
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमाक्षभिर्यजत्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्यशे॑म दे॒वहि॑तं॒ यदायूंः ॥ शं नं॑ इन्द्रा॑ग्नी भ॑वतामवो॑भिः शं न॒ इन्द्रा॒वरु॑णा रातह॑व्या । शमि॑न्द्रा॒सोमा॑ सु॒विताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥
स्तु॒षे जनं॑ सु॒व्रतं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सु॒म्नयन्ता॑ ।
त आर्ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सु॒क्षत्रा॑सो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया॑ वृ॒ता ॥ कस्त्वो॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्सदन्ध॑सः ।
दृ॒ळ्हाचि॑दा॒रुजे॒ वसु॑ ॥ अभी षु णः॒ सखी॑नामवि॒ता ज॑रि॒तृ-

Page 7Permalink

२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके—

णाम् । श॒तं भ॑वा॒स्यूति॑भिः ॥ स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒ः शर्म॑ स॒प्रथ॑:* ॥ ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारुमामिह वादयेदिति वाग्रसः ॥

ॐ शान्तिः शान्तिः शान्तिः ।

इति शान्तिः ।

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्यै निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः ।
आदिशत्सायणाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायाऽऽत्मसंग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
ऐतरेयब्राह्मणेऽस्ति काण्डमारण्यकाभिधम् ।
अरण्य एव +पठ्यं स्यादा॑रण्यकमितीर्यताम् ॥ ५ ॥
आरण्यकानि पञ्चेति प्रोक्तान्यर्थविभेदतः ।
महाव्रतमहः प्रोक्तं प्रथमारण्यके स्फुटम् ॥ ६ ॥
गवामयनमित्युक्ते सत्रे संवत्सरात्मके ।
उपान्त्यमस्ति यदहस्तन्महाव्रतनामकम् ॥ ७ ॥


* एतदग्रे ज. पुस्तकेऽधिकः कियांश्चिद्ग्रन्थः, स यथा—"उदितः शुक्रियं दधे। तमहमात्मनि दधे। अनु मामैत्विन्द्रियम्। मयि श्रीम॑यि यशः। सर्वः सप्राणः सबलः। उत्तिष्ठाम्यनु मा श्रीः। उत्तिष्ठत्वनु माऽऽयन्तु देवताः। अदब्धं चक्षुरिषितं मनः। सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः। तच्चक्षुर्देव हितं शुक्रमुच्चरत्। पश्येम शरदः शतं जीवेम शरदः शतम्। त्वमग्ने व्रतपा असि देव आ मर्त्येष्वाऽऽ। त्वं यज्ञेष्वीड्यः। शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः। वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाऽऽधीतेन। अहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्" इति ।
+ घञर्थकप्रत्ययान्तात्तदर्हतीति यत् । पाठ्यमिति तु समीचीनतरम् ।

१ क. ॰स्य निःश्व॰ ।

Page 8Permalink

अध्या० १।ख० १] ऐतरेयारण्यकम्। ३

सत्रप्रकरणेऽनुक्तिररण्याध्ययनादिति ।
महाव्रतस्य तस्यात्र हौत्रं कर्म विविच्यते ॥ ८ ॥

तत्राऽऽदौ विवक्षितमर्थं प्रतिजानीते—
ॐ अथ महाव्रतम्, इति ।

अथशब्द आरम्भवाची । महाव्रताख्यं कर्म प्रारब्धमित्यर्थः । अथवाऽयमानन्तर्यार्थोऽथशब्दः । प्रकृतिज्ञानानन्तरं विकृतिरूपं महाव्रताख्यं कर्माभिधीयत इति शेषः । प्रकृतिज्ञाने हि सति तत्सकौशाद्विकृतावतिदिष्टा धर्माः साकल्येनावबोद्धुं शक्यन्ते । विश्वजिच्चतुर्विंशादीनि कर्माणि महाव्रतस्य प्रकृतयः । आज्यप्रउगनामके द्वे शस्त्रे विश्वजिदाख्यात्कर्मणो महाव्रतेऽतिदिश्येते । होत्रकाणां शस्त्राणि तु चतुर्विंशाख्यात्कर्मणोऽतिदिश्यन्ते । तथा च पञ्चमारण्यके पठिष्यते—"आज्यप्रउगे विश्वजितो होत्राश्चतुर्विंशात्" इति ।

महाव्रतं प्रशंसितुमाख्यायिकामुखेन तच्छब्दनिर्वचनं दर्शयति—
इन्द्रो वै वृत्रं हत्वा महानभवद्यन्महानभवत्तन्महाव्रतमभवत्तन्महाव्रतस्य महाव्रतत्वम् , इति ।

वृत्रवधस्य श्रुत्यन्तरप्रसिद्धियोतनार्थो वैशब्दः। तैत्तिरीयके दर्शपूर्णमासब्राह्मणशेषे "त्वष्टा हतपुत्रः " इत्यास्मिन्ननुवाके वृत्रनाम्नोऽसुरस्योत्पत्तिवृद्ध्यादिकं बहुना प्रपञ्चेनाभिधायान्ते द्यावापृथिवीभ्यामनुज्ञातेनेन्द्रेण कृतो वृत्रवध एवमाम्नायते—"स आभ्यामेव प्रसूत इन्द्रो वृत्रमहन्" इति । एवमन्यत्रापि—" इन्द्रो वृत्राय वज्रं प्राहरत् " " इन्द्रो वृत्राय वज्रमुदयच्छत् " " इन्द्रो वृत्रं हत्वा " इत्यादिषु प्रसिद्धिर्द्रष्टव्या । ईदृशात्प्रसिद्धाद्वृत्रवधादूर्ध्वमिन्द्रो महानभवत् । भीतिराहित्यमस्य महत्त्वम् । वृत्रवधात्पुरा तु स्वकीयां भीतिं स्वयमेव प्रजापतेरग्रे प्रोवाच । तथा च तैत्तिरीया आमनन्ति—" तस्मादिन्द्रोऽबिभेत्स प्रजापतिमुपाधावच्छत्रुर्मेऽजनि " इति । इत्थं भीतस्य त्विच्छया बहुषु देशेषु संचारासंभवात्स्वगृहे च निद्राभोजनादौ बिभ्यतः स्वास्थ्याभावादल्पत्वम् । अतो निर्भयत्वमेव महत्त्वम् । यद्यदाऽसाविन्द्रो महानभवत्तत्तदानीमिन्द्रार्थं क्रियमाणं सोमपानविशेषात्मकं कर्म महाव्रतमभवत्, त[त्त]स्मात्कारणाद्याज्ञिकैर्महाव्रतमिति व्यवह्रियमाणस्य कर्मणो महाव्रतनामकत्वं संपन्नम् । तस्य च नाम्नेत्थं निर्वचनं द्रष्टव्यम्—महान्भवत्यनेन व्रतेनेति महाव्रतं, महतो देवस्य व्रतमिति महाव्रतं महच्च तद्व्रतमिति महाव्रतमिति । एतानि त्रीणि निर्वचनानि तैत्तिरीया


१ घ. ॰नुक्तकरणाध्य॰ । २ ख. ग. घ. ॰नाय हि । म॰ । ३ ख. ग.घ. अथाय॰ । ४ ख. ग. घ. ॰काशे विकृ॰ । ५ ख. ग. घ. ॰ल्याच्च कर्म॰ । ६ ग. घ. ॰दिश्यन्ते । हो॰ । ७ ख. ग. घ. ॰मस्तुज्ञा॰ । ८ क. ॰त्तदिदा॰ ।

Page 9Permalink

४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

आमनन्ति—"प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयत्। तं देवा भूतानां रसं तेजः संभृत्य। तेनैनमभिषज्यन् । महानववर्त्तीति । तन्महाव्रतस्य महाव्रतत्वम् । महतो व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् ” इति । वृत्तोऽशयत् । श्रान्तो भूमावपतत् । तदानीं ते देवास्तेजोहेतुं तं द्युलोकाद्गायत्र्या समानीतं रसायनरूपं सोमं महाव्रताङ्गभूतैर्मन्त्रैः संपाद्याथ प्रजापतिं तेन सोमेन चिकित्सित्वा महानववर्त्तीति श्रमरहितो वृत्तोऽनेन कर्मणेत्युक्तवन्तः। छन्दोगैरपि महद्व्रतं महतो व्रतमिति निरुक्तिद्वयमाम्नातम्,—"प्रजापतिः प्रजा असृजत । सोऽरिच्यत । सोऽपद्यत । तं देवा अभिसंगच्छन्त । तेऽब्रुवन् । महदस्मै व्रतं संभराम । यदिमं धिनवदिति । तस्मै तत्संवत्सरमन्नं पे^१च्यते । तत्समभरन्दस्मै प्रायच्छंस्तदव्रजयन्त तदेनमधिनोन्महन्मर्या व्रतं यदिममधिन्वीदिति । तन्महाव्रतस्य महाव्रतत्वम् । प्रजापतिर्वाव महांस्तस्यैतद्व्रतम् ” इति । अरिच्यत शक्त्या रिक्तोऽभूत् । अपद्यत भूमौ पतितः । धिनवत्प्रीणयति । अव्रजयत्प्राप्नोत् । अधिनोदप्रीणयत् । हे मर्या मरणयोग्या मनुष्या यद्व्रतमिमं प्रजापतिमधिन्वीदप्रीणयत्तद्व्रतं महदिति दवो उक्तवन्त इत्यर्थः ।

इत्थं महाव्रतं प्रशस्य तत्र प्रातःसवने होत्रा शंसनीय आज्यनामके शस्त्रे पूर्वपक्षसिद्धान्तौ दर्शयति—

द्वे एतस्याह्न आज्ये कुर्यादिति हैक
आहुरेकमिति त्वेव स्थितम् , इति ।

एतस्य महाव्रतरूपस्याह्नः प्राकृतं वैकृतं चेत्येव द्वे आज्यशस्त्रे कुर्यात् । “प्र वो देवायानये” [ ऋ० सं० म० ३ सू० १३ ऋ० १ ] इति सप्तर्चं सूक्तमाज्यशस्त्रत्वेनाग्निष्टोमेऽभिहितत्वात्प्राकृतम् । “अग्निं नरो दीधितिभिः” [ ऋ० सं० म० ७ सू० १ ऋ० १ ] इति पञ्चविंशत्यूचं सूक्तमाज्यशस्त्रत्वेन विश्वजिति विधानाद्वैकृतम् । ते द्वे अपि प्राकृतवैकृते आज्ये अस्मिन्महाव्रते कुर्यादित्येवमेके शाखान्तरीया आहुः । सोऽयं पूर्वः पक्षः । तस्य पूर्वपक्षस्य व्यावृत्त्यर्थस्तुशब्दः । द्वे आज्ये न कुर्यात्किंतु विशेषविधानाद्वैकृतमेकमाज्यं कुर्यादित्येव सिद्धान्तरहस्यं स्थितम् । यद्याऽऽज्ये शस्त्र^२द्वयमङ्गी क्रियेत तदानीमग्निष्टोमसंस्थेऽस्मिन्महाव्रते प्रकृतितः प्राप्तेभ्यो द्वादशभ्यः शस्त्रेभ्योऽधिकं शस्त्रं प्राप्नुयात्, तच्चायुक्तम्, “द्वादशाग्निष्टोमस्य स्तोत्राणि द्वादश शस्त्राणि” इति श्रुत्यन्तरविरोधात् । तदेवमत्र नित्यमाज्यशस्त्रं व्यवस्थापितम् ।

अथ काम्यान्याज्यशस्त्राण्युच्यन्ते । तत्र समृद्धि फलाय शस्त्रविशेषं विधत्ते—

प्र वो देवायानय इति राद्धिकामः, इति ।

प्र वो देवाय०—ऋ० सं० म० ३ सू० १३ ऋ० १ ।


१ ख. ग. घ. पच्यते । २ क. शस्त्रे द्वे ।

Page 10Permalink

अध्या० १।ख० १] ऐतरेयारण्यकम् । ५

तच्च सप्तर्चं सूक्तमिति पूर्वमेवाभिहितम् ।
पुष्टिफलाय सूक्तान्तरं विधत्ते—
विशो विशो वो अतिथिामति पुष्टिकामः, इति ।
एतच्च सूक्तं पञ्चदशर्चम् ।
तस्य पुष्टिहेतुत्वमुपपादयति—
पुष्टिर्वै विशः पुष्टिमान्भवतीति, इति ।
विशो वैश्यास्ते हि वाणिज्येन बहुधनमर्जयन्तः करमपि बहुलं प्रयच्छन्ति । अतो विशां पुष्टित्वम् । अस्मिन्नर्थे लोकप्रसिद्धिवैशब्देनोच्यते । सूक्ते तु विशो विश इति वीप्सया बहुविधानां वैश्यानामभिहितत्वात्तेन सूक्तेनायं यजमानः पुष्टिमान्भवतीत्येतदुपपन्नम् । इतिशब्दो हेत्वर्थः । यस्मात्पुष्टिमान्भवति तस्मात्पुष्टिकामस्तत्सूक्तं कुर्यात् ।
अत्र पूर्वपक्षत्वेन तत्सूक्तं दूषयति—
अतिथिमिति पदं भवति नैतत्कुर्यादित्या-
हुरीश्वरोऽतिथिरेव चरितोः, इति ।
अस्मिन्सूक्ते दारिद्र्यस्य वाचकमतिथिमिति पदं वर्तते । तस्मान्नैतत्सूक्तं कुर्यादित्येवं केचित्पण्डितंमन्या आहुः । तत्रोपपत्तिं च वर्णयन्ति—य एतदाज्यं कुर्यात्सोऽयमतिथिरेव दरिद्र एव भूत्वा याच्ञार्थं परगृहेषु सर्वदा चरितुं प्रभुर्भवतीति ।
अत्र सिद्धान्तत्वेन तस्य सूक्तस्य प्रसङ्गं च विधत्ते—
तदु ह स्माऽऽह कुर्यादेव, इति ।
अतिथिपदतात्पर्याभिज्ञः सिद्धान्ती तदु ह सूक्तमवश्यं कुर्यादित्याह स्म ।
पूर्वपक्षोक्तदूषणशमनार्थमतिथिशब्दतात्पर्यं दर्शयति—
यो वै भवति यः श्रेष्ठतामश्नुते
स वा अतिथिर्भवति, इति ।
अत्रास्तिवाची भूधातुः सन्मार्गवार्तिनं ब्रूते । यस्तु पुमाँन्सन्मार्गवर्ती भवति तस्मिन्नपि सन्मार्गवर्तिसंघे यः पुमानतिशयेन प्राशस्त्यं प्राप्नोति स एवातिथिर्भवति । अतः प्राशस्त्यमत्र शब्दप्रवृत्तिनिमित्तं न तु दारिद्र्यम् ।
एतदेव व्यतिरेकमुखेन(ण) स्पष्टयति—
न वा असन्तमातिथ्यायाऽऽद्रियन्ते, इति ।


विशो विशो०—ऋ० सं० म० ८ सू० ७४ ऋ० १ ।


१ ख. ग. घ. ˚स्तु स पुं˚ । २ ख. ग. घ. ˚मान्मा˚ ।

Page 11Permalink

६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

सन्मार्गरहितं व्रात्याभिशस्तादिकं पुरुषमत्यन्तदारिद्रमप्यातिथ्यसत्काराय नाऽऽद्रियन्ते । [ सिद्धमर्थं कथयति— ] तस्मादु काममेवैतत्कुर्यात्, इति । यस्मादतिथिशब्दो न दुष्टः किंतु प्रशस्तस्तस्मादेव कारणाद्विस्रम्भेणैवैतत्सूक्तं कुर्यात् । तत्सूक्तप्रयोगे कंचिद्विशेषं विधत्ते— स यद्येतत्कुर्यादागन्म वृत्रहन्तममित्येतं तृचं प्रथमं कुर्यात्, इति । तस्मिन्सूक्ते—" विशो विशः " [ऋ० सं० म० ८ सू० ७४ ऋ० १] इत्यादिकः प्रथमस्तृचः । " आगन्म " इत्यादिको द्वितीयस्तृचः । प्रयोगकाले त्वागन्मेत्यादिकं प्रथमत्वेन पठेत् । तत्रोपपत्तिमह— एतद्वा अहरीप्सन्तः संवत्सरमासते त आगच्छन्ति, इति । ये गवामयननामकं संवत्सरसत्रमनुतिष्ठन्ति ते महाव्रताख्यमेतदेवोपान्त्यमहः प्राप्तुमिच्छन्तोऽनुतिष्ठन्ति । तथा सत्यागन्मेति प्राप्तिवाचकं शब्दं प्रयुञ्जानास्ते पुरुषा एतदहरागच्छन्ति तस्मादेतस्य प्राथम्यं युक्तम् । अतिथिमगन्मेति पदद्वयतात्पर्यदर्शनेन तृचद्वयं व्याख्यातम् । अथावशिष्टानां तृचानां तात्पर्यं दर्शयति— त एतेऽनुष्टुपशीर्षाणस्त्रयस्तृचा भवन्ति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति । पञ्चदशर्चे "विशो विशः” [ ऋ० सं० म० ८ सू० ७४ ऋ० १ ] इत्यादिके सूक्ते प्रथमस्तृचद्वये गते सति तत ऊर्ध्वं त्रयस्तृचाः शिष्यन्ते । तेष्वन्तिमस्तृचः " अहं हुवानः " इत्यादिकोऽनुष्टुप्छन्दस्कः । तत्रानुष्टुप्छन्दसि तदुत्तमाङ्गस्थानं येषां तृचानां तेऽनुष्टुपशीर्षाणः । एते तृचास्त्रिसंख्याकाः । तत्रोपान्त्यतृचे ततः पूर्वतने तृचे च गायत्री छन्दो विद्यते । सा च गायत्री ब्रह्मैव, " तत्सवितुर्वरेण्यम् " [ ऋ० सं० म० ३ सू० ६२ ऋ० १० ] इत्यनया गायत्र्या परब्रह्मणः प्रतिपाद्य-


आगन्म०—ऋ० सं० म० ८ सू० ७४ ऋ० ४। १ ख. ग. ॰स्तृचं द्वं । २ ख. स्थानं ।

Page 12Permalink

अध्या० १ ख० १] ऐतरेयारण्यकम् ।

त्वात् । येयं तृचगताऽनुष्टुप्सा वाग्रूपा चतुष्पात्त्वसामान्यात् । “ चत्वारि वाक्परि-
मिता पदानि ” ( ऋ० सं० मं० १ सू० १६४ ऋ० ४५ ) इति वाचः पादचतु-
ष्टयमाम्नातम् । परा पश्यन्ती मध्यमा वैखरीत्युक्तं तत्पादचतुष्टयमन्यैर्व्याख्यातम् ।
अनुष्टुभस्तु चतुष्पात्त्वं प्रसिद्धम् । एवं सत्यस्मिन्सूक्ते गायत्र्यनुष्टुभोर्मेलने सति तन्त्रेण
सूक्तपाठेन ब्रह्मणैव वाचं संयोजयति ।
अथ कीर्तिफलार्थं सूक्तान्तरं विधत्ते—
अबोध्यग्निः समिधा जनानामिति कीर्तिकामः, इति ।
अबोधीत्यादिकं द्वादशर्चं सूक्तम् ।
[प्रजापशु]फलार्थमन्यत्सूक्तं विधत्ते—
होताऽजनिष्ट चेतन इति प्रजापशुकामः, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमेऽध्याये
प्रथमः खण्डः ॥ १ ॥
होतेत्यादिकमष्टर्चं सूक्तम् । यथोक्तानां काम्यसूक्तानां गोदोहनन्यायेन फलार्थ-
त्वमेव न तु क्रत्वर्थत्वम् ।
स च न्यायश्चतुर्थाध्यायस्य प्रथमपादे चिन्तितः—
गोदोहनं द्वयार्थं स्यान्ने वा भागद्वयार्थता ।
अन्यथाऽपि क्रतोः सिद्धेः केवलं पुरुषाय तत् ॥
दर्शपूर्णमासयोः श्रूयते—“चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य” इति । तत्र
गोदोहनस्य क्रत्वर्थ(र्थत्वं) पुरुषार्थत्वं चेत्याकारद्वयमस्ति । पशुफलजननेन पुरुषप्रीति-
र्भाति, अपां प्रणयनेन क्रतूपौष्कल्यमपि भातीति चेन्मैवम् । गोदोहनमन्तरेण फला-
सिद्धेर्भवतु पुरुषार्थत्वं क्रतुस्तु तदभावेऽपि चमसेन सिध्यतीति न क्रत्वर्थता । एवम-
त्रापि यथोक्तानि काम्यसूक्तानि फलार्थान्येव न तु क्रत्वर्थानि । एवं तर्हि क्रतोरङ्ग-
वैकल्यं प्रसज्येतेति चेत् । मैवम् । काम्यानामेतेषां क्रत्वङ्गभूतं शंसनमाश्रित्य विधा-
नमिति काम्यैरपि सूक्तैः क्रत्वङ्गस्य शंसनस्य निष्पत्तेः, काम्येन नित्यसिद्धिरिति
तान्त्रिकाणां डिण्डिमैः । तस्मात्फलसाधनत्वेन विधानादेतैः फलं साक्षात्सिध्यत्यर्था-
त्क्रतोः साङ्गत्वमित्युपपन्नम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
काण्डभाष्ये प्रथमारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥


अबोध्य०—ऋ० सं० मं० ५ सू १ ऋ० १ ] । होता जनि०—ऋ० सं०
म० २ सू० ९ ऋ० १ ।


१ क. न ऋ° । २ क. ॰श्च च भा॰ । ३ क. ॰भावे च॰ । ४ ख. ग. घ. ॰मः । इन्द्रियं त॰ ।

Page 13Permalink

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

अथ द्वितीयः खण्डः ।


अन्नाद्यफलाय सूक्तान्तरं विधत्ते—
अग्निं नरो दीधितिभिररण्योरित्यन्नाद्यकामः, इति ।
अत्तुं योग्यं[आद्यं] शाल्यादिनिष्पन्नम[न्नम]त्रं च तदाद्यं चेत्यन्नाद्यकामत्वमस्य( द्यं तस्मिन्कामोऽस्य ) । अग्निं नर इत्यादिकं पञ्चविंशत्यूचमाज्यशस्त्रमवगन्तव्यम् ।
अस्य सूक्तस्यान्नहेतुत्वं संभावयति—
अग्निर्वै अन्नादः, इति ।
अग्नेरन्नभोजकत्वे लोकप्रसिद्धिद्योतनार्थो वैशब्दः । अग्नेः स्वयमन्नभोजकत्वेनान्नप्रियत्वात्तद्विषयसूक्तेनान्नलाभो युक्त इत्यर्थः ।
ननु “प्र वो देवा याग्नये” [ऋ० सं० म० ३ सू० १३ ऋ० १] इत्यादिसूक्तेष्वप्यग्निर्विद्यत इत्याशङ्क्य तेभ्योऽस्य सूक्तस्य विशेषं दर्शयति—
चिरतरमिव वा इतरेष्वाज्येष्वग्निमागच्छन्त्यथेह मुखत एवाग्निमागच्छन्ति मुखतोऽन्नाद्यमश्नुते मुखतः पाप्मानमपघ्नते, इति ।
इतरेषु “प्र वो देवा याग्नये” [ऋ० सं० मं० ३ सू० १३ ऋ० १] इत्यादिष्वाज्यशस्त्रेषु यजमाना अत्यन्तविलम्बो यथा भवति तथैवाग्निं प्राप्नुवन्ति । सूक्तादावग्निपदाभावात् । इह तु तत्सद्भावादादावेव सहसाऽग्निं प्राप्नुवन्ति । अतो भवदा(तोऽन्ना)द्यमादौ विलम्बमन्तरेणैव यजमानं सद्यः प्राप्नोति । तथा ते यजमाना आदावेव पाप्मानं नाशयन्ति ।
सूक्तस्य प्रथमपादेऽग्निशब्दं प्रशस्य द्वितीयपादे जनयन्तेति शब्दं प्रशंसति—
हस्तच्युती जनयन्तेति जातवदेतस्माद्वा अह्नो यजमानो जायते तस्माज्जातवत् , इति ।
हस्तेत्यादिर्द्वितीयपादस्तस्यायमर्थः—हस्तव्यापारेणैव वाच्येन जनयन्त यजमाना अग्निमुत्पादयन्त इति । तत्र जनयन्तेत्यनेन शब्देनेदं सूक्तं जातवज्जन्मवाचकशब्दोपेतं भवति । एतस्माज्जन्मवाचिशब्दोपेतसूक्तयुक्तादह्नो महाव्रताख्यात्कर्मणो यजमानोऽयं तत्फलयोज्यजन्मवान्भवति । तस्मात्कारणात्तथाविधजन्मसाधनभूतं सूक्तम् ।
अस्मिन्पञ्चविंशत्यूचे सूक्ते [ऋ० सं० म० ७ सू० १ ] आदावष्टादशर्चो विरा-


अग्निं नरो०—ऋ० सं० म० ७ सू० १ ऋ० १ ।


१ क. घ. न तु प्र° । २ क. ख. °धा न भ°। ३ क. ख. घ. °सद्यः प्रा° । ४ क. °तीयः पा°।

Page 14Permalink

अध्या० १ ख० २] ऐतरेयारण्यकम्। ९

ट्छन्दस्काः । अवशिष्टास्तु “मा नो अग्नेऽवीर ते” इत्यादिकाः सप्तर्चस्त्रिष्टुप्छ- न्दस्काः । तास्वेकैकस्यामृचि पादचतुष्टययुक्तानि च्छन्दांसि प्रशंसति—

तानि चत्वारि च्छन्दांसि भवन्ति चतु- ष्पादा वै पशवः पशूनामवरुद्धयै, इति ।

“एकादशाक्षरा त्रिष्टुप्” इति श्रुत्यन्तरादेकैकस्मिन्पाद एकैकं त्रिष्टुबारूपं छन्दोऽस्ति, ततश्चतुर्षु पादेषु चत्वारि त्रिष्टुप्छन्दांसि संपद्यन्ते । ततः पशूनां चतु- ष्पात्त्वात्तेन तत्साम्यात्पशुप्राप्तिर्भवति ।

यास्तु सूक्तादिगता विराट्छन्दस्का ऋचस्तासां पादगतानि च्छन्दांसि प्रशंसति—

तानि त्रीणि च्छन्दांसि भवन्ति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै , इति ।

यथा “ चतुष्पदा त्रिष्टुप् ” “ एकादशाक्षरा त्रिष्टुप् ” इति श्रुत्योः पादसंख्याऽ- क्षरसंख्या च श्रुता तथा “ त्रिपदा विराट् ” “ दशाक्षरा विराट् ” इति श्रुत्योः संख्याद्वयं श्रुतम् । ततस्त्रिष्वपि पादेषु दशाक्षरसंख्याकानि त्रीणि विराट्छन्दांसि संप- द्यते(न्ते) । लोकाश्च पृथिव्यन्तरिक्षं द्यौरित्येवं त्रिसंख्याकाः, उत्तममध्यमाधमैः सात्त्विकराजसतामसैः प्राणिभिरुपेतत्वात्त्रिवृतश्च । ततः संख्यासाम्याल्लोकजयो भवति ।

सूक्ते पूर्वोत्तरभागयोर्वर्तमाने विराट्त्रिष्टुबित्येते द्वे छन्दसी प्रशंसति—

ते द्वे छन्दसी भवतः प्रतिष्ठायै एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्र- तिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति ।

छन्दोद्वयं प्रतिष्ठार्थमेव संपद्यते । लौकिकः पुरुषः सर्वोऽपि भूमौ द्वाभ्यां पादाभ्यां प्रतिष्ठितत्वाद्विप्रतिष्ठो भवति । पशवस्तु चतुष्पादाः । एवं सति च्छन्दोद्वित्वेन पाद- चतुष्ट्वेन च द्विपादं यजमानं चतुष्पात्सु पशुषु होता प्रतिष्ठापयति ।

इदानीं सर्वासवृक्ष्ववस्थितां पञ्चविंशतिसंख्यां प्रशंसति—

ताः पराग्वचनेन पञ्चविंशतिर्भवन्ति पञ्च- विंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंश- स्तमिममात्मानं पञ्चविंशं संस्करुते, इति ।

आवृत्तिमन्तरेणोध्वंपाठः पराग्वचनम् । आत्मा मध्यदेहम्, ^२ “ मध्यं ह्येषामङ्गा-


१ क. ख. ग. ॰युक्तानि । २ क. ॰देहः, “मं” ।

Page 15Permalink

१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

नामात्मा" [ ऐ० आ० २ अ० ३ ख० ९ ] इति वक्ष्यमाणत्वात् । तेनाऽऽत्मना सहितैरवयवैः सर्वैरयं पुरुषः पञ्चविंशतिसंख्योपेतः । अतस्तादृशं पुरुषमृगतया पञ्चविं- शतिसंख्यया संस्करोति ।

प्रकारान्तरेण तां संख्यां प्रशंसति—

अथो पञ्चविंशं वा एतदहः पञ्चविंश एत- स्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति, इति ।

अथो अपि चेत्यर्थः । यन्महाव्रताख्यमहस्तदेतत्पञ्चविंशतिसंख्योपेतमेव । तत्कथ- मिति तदुच्यते—एतस्याह्नो यः स्तोमः सामगैः स्तोत्रकाले तृचस्याऽऽवृत्त्या संपद्यते सोऽयं त्रिवृत्पञ्चदशादिरूपो न भवति किंतु पञ्चविंशस्तस्मात्कारणात्पञ्चविंशतिसंख्यया समेन सूक्तेन पञ्चविंशस्तोमयुक्तं समं तदहः प्राप्नोतीति तस्मादेतदहः सूक्तं चेत्युभयं समं तस्मादेते द्वे अहःसूक्ते पञ्चविंशतिसंख्याप्रयुक्ते एव भवतः । अन्यथा साम्यासं- भवात् । भवन्तीति बहुवचनं तु सूक्तगतानामृचां स्तोत्रगतानां चापेक्षया द्रष्टव्यम् ।

तस्मिन्सूक्ते प्रथमोत्तमयोर्ऋचोरावृत्तिविधिमभिप्रेत्य तदावृत्तिसहितां संख्यां प्रशंसति—

तास्त्रिः प्रथमया त्रिरुत्तमयैकोनत्रिंशन्न्यूनाक्षरा विराण्न्यूने वै रेतः सिच्यते न्यूने प्राणा न्यूनेऽ- न्नाद्यं प्रतिष्ठितमेतेषां कामानाणावरुद्ध्यै, इति ।

ताः सूक्तगताः पञ्चविंशतिसंख्याका ऋचस्त्रिरावृत्तया प्रथमया त्रिरावृत्तया चोत्त- मया सहिताः सत्यो मिलिता एकोनत्रिंशत्संख्याकाः संपद्यन्ते । एकयर्चा न संपूर्णा त्रिंशदित्येकयानत्रिंश[त् । " त्रिंश]दक्षरा विराट् " इति श्रुतौविराट्छन्दसस्त्रिंश- त्संख्योपेतत्वादत्र त्रिंशत्संख्यायामेकया न्यूनत्वादियमृक्संख्या न्यूनाक्षरा विराट्संप- द्यते । लोकेऽपि न्यूने वै स्वल्प एव गर्भाशये प्रजोत्पादनार्थं रेतः सिच्यते । तथा स्वल्पे हृदयपुण्डरीके प्राणाः प्रति[वि]ष्ठन्ति, स्वल्पे चोदरेऽन्नाद्यं प्रतिष्ठितं, तस्मा- दियं न्यूना विराडेतेषां प्रजोत्पत्तिप्राणान्नप्रतिष्ठारूपाणां कामानां प्राप्त्यै संपद्यते ।

यथोक्तार्थवेदनं प्रशंसति—

एतान्कामानवरुन्धे य एवं वेद, इति ।

यः पुमानेवमृग्गतामेकोनत्रिंशत्संख्यां वेद स पुमानुक्तान्कामानाप्नोति । वेदनमा- त्रेण फलप्राप्तिर्यजुर्वेदार्थप्रकाश उपपादिता ।

प्रकारान्तरेण सूक्तगता ऋचः प्रशंसति—

ता अभिसंपद्यन्ते बृहतीं च विराजं च

Page 16Permalink

अध्या० १ ख० २] ऐतरेयारण्यकम् । ११

च्छन्दो यैतस्याहः संपत्तामथो अनुष्टुभ- मनुष्टुबायतनानि ह्याज्यानि, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥

या ऋचः सूक्ते प्रोक्ताः “अग्निं नरः” इत्यादिकास्ताः सर्वा ऋचो मिलित्वा बृहत्याख्यच्छन्दोऽभिसंपद्यते(न्ते ?)। तथा विराडाख्यं छन्दोऽभिसंपद्यते(न्ते ?)। एवं सत्येतस्य महाव्रतस्याह्नोऽपेक्षिता या संपत्तिः प्राप्ता भवन्ति। तत्राऽऽदावष्टादशानामृचां स्वत एव विराडभिसंपत्तिः सिद्धा। यास्तूत्तराः सप्त त्रिष्टुभस्तासु बृहतीच्छन्दः संपादनीयम्। अन्तिमाया ऋचस्त्रिरावृत्तौ सत्यां नव त्रिष्टुभः संपद्यन्ते। तासु प्रत्येकमष्टाक्षरेष्वतीतेष्ववशिष्टा नव बृहत्यो भवन्ति। अपनीत(ता)श्च नवसंख्याका अष्टाक्षरपादा मिलित्वा द्वासप्ततिरक्षराणि संपद्यन्ते। तत्षट्त्रिंशदक्षरोपेते द्वे बृहत्यौ निष्पद्येते²। तदेवं बृहतीच्छन्दःसंपत्तिः। अपि चैवमाद्यायामृच्यनुष्टुप्त्त्वस्य संपादयितुं शक्यत्वात्ताः सूक्तगता ऋचोऽनुष्टुभमभिसंपद्यन्ते। यद्यप्याद्यायास्त्रयस्त्रिंशदक्षरत्वादेकमक्षरमनुष्टुभोऽधिकं तथाऽपि नैतावताऽनुष्टुप्त्त्वं हीयते, “न वा एकेनाक्षरेण च्छन्दांसि वियन्ति न द्वाभ्याम्” इति श्रुतेः। यथैवास्यामृच्यक्षरत्रयाधिकत्वेऽपि विराट्त्वमनुक्रमणिकाकारैरुक्तमेवमेकाक्षराधिक्येऽनुष्टुप्त्त्वं किं न स्यात्। न चैतावता प्रयासेनानुष्टुप्संपादने प्रयोजनाभावः। यस्मादाज्यशस्त्रान्यनुष्टुबाश्रितानि “प्र वो देवायाग्नये” [ऋ० सं० म० ३ सू० १३ ऋ० १] इत्यादौ तथा दृष्टत्वात्तस्मादनुष्टुप्संपत्त्या प्रशस्तमिदं सूक्तमित्यभिप्रायः। नन्वेतत्सूक्तमन्नाद्यकामस्य विधीयत इति पुरुषार्थमिदं तथा क्रत्वर्थ[त्व]मप्यस्य चोदकेन प्राप्तम्। तथा हि—आज्यप्रउगे विश्वजिति पञ्चमारण्यके वक्ष्य(ष्ये)ते। विश्वजिन्नाम एकाहाच्छस्त्रद्वयमतिदेष्टव्यमिति तस्य वाक्यस्यार्थः। विश्वजितोऽग्निं नर इति सूत्रकारेणाभिधानाद्विश्वजिद्विकृतिरूपे महाव्रतेऽपि तदेवातिदिश्यते। तस्मादेत(क)स्यैवाग्निं नरः [ऋ० सं० म० ७ सू० १ ऋ० १] इति सूक्तस्य क्रत्वर्थ(र्थत्वं) पुरुषार्थत्वं चेत्युभयविधत्वमनुपपन्नम्। नायं दोषः, दधिन्यायेनोपपत्तेः।

स च न्यायश्चतुर्थाध्यायस्य तृतीयपादे चिन्तितः—

दध्ना त्विन्द्रियकामस्य नित्योऽन्य उत तद्दधि। अन्यः स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः ॥

अग्निहोत्रे श्रूयते—“दध्रेन्द्रियकामस्य जुहुयात्” इति। तत्र दध्नः काम्यत्वान्नित्येऽग्निहोत्रे पूर्ववन्न्यायेन न प्रयोक्तव्यं किंत्वन्यदेव किंचिद्द्रव्यमिति चेन्मैवम्।


१ क. भवति। २ ख. ग. भवन्ति।

Page 17Permalink

१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

"दध्ना जुहोति" इत्यस्मिन्वाक्यान्तरे कामसंयोगमनुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् । तस्मादेकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् । एवमग्नीषोमीयपशौ "खादिरे बध्नाति" "खादिरं वीर्यकामस्य यूपं कुर्वीत" इत्युदाहरणीयम् । अनेन दधिन्यायेनात्रापि काम्येन "अग्निं नरो दीधितिभिररण्योः" [ऋ० सं० म० ७ सू० १ ऋ० १] इति सूक्तप्रयोगेण पुरुषार्थेन क्रतुरपि निष्पद्यत इत्येकस्यैव सूक्तस्य चोदकप्रत्यक्षवचनाभ्यामुभयार्थत्वमविरुद्धम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥


अथ तृतीयः खण्डः ।


ऋतुग्रहभक्षणादूर्ध्वं निवित्पदान्युच्चार्य होत्रा शंसनीयं यदाज्यशस्त्रं तन्निरूपितम् । वैश्वदेवग्रहणादूर्ध्वं होत्रा शंसनीयं प्रउगनामकं यच्छस्त्रं तद्विषये छन्दोविशेषमाश्रित्य नानाशाखानुसारेण सर्वे पक्षाः संभाविताः, गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगती चेति च्छन्दोविशेषास्तत्र प्रथमं पक्षमाह—

गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति, इति ।

तेजः शरीरकान्ति राज्ञां सामर्थ्यं वा, ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः, तदुभयहेतुत्वाद्गायत्र्यास्तद्रूपत्वम् । य(अ)तो यजमानस्तदुभयवान्भवत्वित्यनेनाभिप्रायेण प्रउगशस्त्रं गायत्रीच्छन्दोविशिष्टं कुर्यात् । तस्य गायत्रस्य प्रउगस्य स्वरूपमाश्वलायनेन पूर्वषट्के पञ्चमाध्यायेऽभिहितम्—"वाय्वाग्ने या यँज्ञप्रीरिति¹ समानां पुरोरुचां तस्यास्तस्या उपरिष्टात्तृचं तृचं शंसेद्वायवायाहि दर्शतेति सप्त तृचाः" इति ।

द्वितीयादिपक्षानाह—

औष्णिहं प्रउगं कुर्यादित्याहुरायुर्वा उष्णिकायुष्मान्भवतीत्यानुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्रं वा अनुष्टुप्क्षत्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुर्यादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवा-


¹ क. ख. यज्ञे प्री' ।

Page 18Permalink

अध्या० १।ख० ३] ऐतरेयारण्यकम् । १३

न्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जा-
गता वै पशवः पशुमान्भवतीति, इति ।
क्षत्रं बलमन्यत्पूर्ववद्व्याख्येयम् ।
एवं नानाविधब्राह्मणसिद्धानि मतान्युपन्यस्य तेषु प्रथमं स्वकीयत्वेन स्वी करोति—

तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मै-
तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति ।

तदु तेषां तु सप्तानां मध्ये यत्प्रथममुपन्यस्तं गायत्रं तदेवास्मिन्महाव्रते कुर्यात् । गायत्र्या ब्रह्मत्वं पूर्वमेवोक्तम् । अस्य चाह्नो ब्रह्मत्वं तत्प्राप्तिहेतुत्वादवगन्तव्यम् । तद्गायत्रप्रउगरूपेण ब्रह्मणा तन्महाव्रतरूपं ब्रह्म प्राप्नोति ।
दाशतय्यां गायत्रीछन्दस्कानां बहूनां विद्यमानत्वात्तद्विशेषं दर्शयति—

तदु माधुच्छन्दसम्, इति ।

तदपि गायत्रीछन्दस्कं प्रउगं मधुच्छन्दोनाम्न ऋषेः संबन्धि द्रष्टव्यम् । तेन-
र्षिणा दृष्टं “वायवायाहि” [ऋ० सं० म० १ सू० २ ऋ० १] इत्यादिकं यन्म-
न्त्रजातं तदित्यर्थः ।
ऋषेर्नाम निर्वक्ति—

मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति
तन्मधुच्छन्दसो मधुच्छन्दस्त्वम् , इति ।

योऽयं मधुच्छन्दोनामक ऋषिः सोऽयमितरेभ्य ऋषिभ्यो मधु च्छन्दति मधुरं भोग्यं संपादयितुमिच्छति । ह स्म वा इति निपातत्रयसमूह ऐतिह्यार्थः । यस्मादयं मध्विच्छति तस्मादस्य तन्नाम संपन्नम् ।
ऋषिसंबन्धेनशस्त्रं प्रशस्य फलसंबन्धेनापि प्रशंसति—

अथो अन्नं वै मधु सर्वं वै मधु
सर्वे वै कामा मधु तद्यन्माधुच्छन्दसं
शंसति सर्वेषां कामानाणावरुद्धयै, इति ।

माक्षिकवाची मधुशब्दस्तन्निष्ठं प्रियत्वं लक्षयति । अन्नस्य प्रियत्वं प्रसिद्धम् । तद्वद्द्द्वन्द्वादेः सर्वस्यापि भोग्यस्य प्रियत्वं प्रसिद्धम् । यस्मात्प्रियत्वेन सर्वेऽपि कामा मधुरूपास्तस्मात्कारणान्मधुत्वसामान्यान्माधुच्छन्दसं शंसतीति यदस्ति तत्सर्वकाम-
प्राप्त्यै संपद्यते ।


१ क. ॰ति । दश॰ । २ क. ॰ष्टं हि ‘व.॰ । ३ क. घ. ॰द्वंद्वा॰ । ४ ख. ॰धुररू॰ ।

Page 19Permalink

१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

माधुच्छन्दसवेदनं प्रशंसति— सर्वान्कामानवरुन्धे य एवं वेद, इति । पुनः प्रकारान्तरेण शस्त्रं प्रशंसति— तद्वैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति, इति।

तदु तदपि यथोक्तं गायत्रं प्रउगमैकाहिकमेकाहे प्रकृतिभूतेऽग्निष्टोमे निष्पन्नं तदेव विश्वजिद्द्वारेणास्मिन्महाव्रते प्राप्तमन्तत ऐकाहिकत्वादेतद्रूपसमृद्धम् । प्रकृतिरूपे ह्येकाहे कृत्स्नस्यानुष्ठेयस्य प्रत्यक्षवचनप्रापितत्वादविस्मरणेन सर्वमनुष्ठातुं शक्यम् । सेयं रूपसमृद्धिः । न च किमनेनैकाहिकत्वेनेति शङ्कनीयम् । तस्यानिष्टशमनार्थत्वात्। एतस्मिन्महाव्रताख्येऽहनि वारणं शिष्टैर्निवारणीयं वर्जनीयं किमपि बहुविधं दासीवृत्तवृत्तद्वैमैथुनब्रह्मचारिपुंश्चलीसंप्रवादादिकं क्रियतेऽतस्तस्य शान्त्यर्थमेव सरूपसमृद्धस्यैकाहिकस्य प्रउगशंसनम् । एकाहस्य तु सर्वविकृतिप्रतिष्ठापकत्वाच्छान्तिहेतुत्वमुपपन्नम् । अतो यजमाना अप्यन्ततः संवत्सरसत्रस्यावसान उपान्त्येऽस्मिन्नहनि तत्तेन शस्त्रपाठेन प्रतिष्ठाभूतायामनिष्टशान्त्यामेव प्रतितिष्ठन्ति प्रतिष्ठा(प्रतिष्ठिता) भवन्ति ।

अस्य शस्त्रस्य प्रतिष्ठाहेतु[त्व?]वेदनं तत्पूर्वकानुष्ठानं [च] प्रशंसति— प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥

येषां सत्रिणामर्थ एवमुक्तप्रकारेण शस्त्रमहिमानं विद्वान्होतैतच्छस्त्रं शंसति तेऽपि सत्रिणः प्रतितिष्ठन्तीति द्रष्टव्यम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


अथ चतुर्थः खण्डः ।

अस्मिन्प्रउगशस्त्रे ये सप्त तृचास्तेषां मध्ये प्रथमतृचस्य प्रथमार्धे योऽयमरमिति शब्दस्तस्य तात्पर्यं दर्शयति— वायवायाहि दर्शतेमे सोमा अरं कृता इत्ये-


वायवायाहि०—ऋ० सं० म० १ सू० २ ऋ० १ ।

Page 20Permalink

अध्या० १।ख० ४] ऐतरेयारण्यकम्। १५

तद्वा अहररं यजमानाय च देवेभ्यश्च, इति ।

दर्शत दर्शनीय हे वायोऽस्मिन्कर्मण्यागच्छ, इम ऐन्द्रवायवादिग्रहगताः सोमा अरमलं संपूर्णा यथा भवन्ति तथा कृताः संपादिता इत्येवं मन्त्रेऽभिधीयते । यस्मादेतन्महाव्रताख्यमहो य(हर्य)जमानाय च देवेभ्यश्चारं सोमं पातुमलं तस्माद्युक्तो मन्त्रेऽरमिति शब्दः ।

संपूर्तिवेदनतत्पूर्वकानुष्ठाने पूर्ववत्प्रशंसति—

अरं हास्मा एतदहर्भवति य एवं वेद
येषा चैवं विद्वानेतद्धोता शंसति, इति ।

द्वितीयस्य तृचस्यान्तिमायामृचि मध्यमपादे निष्कृतशब्दं व्याचष्टे—

इन्द्रवायू इमे सुता आयातमुपनिष्कृत-
मिति यद्वै निष्कृतं तत्संस्कृतम्, इति ।

हे इन्द्रवायू इमे सोमा भवदर्थमभिषुतास्तस्मादुपनिष्कृतमिमं सोमं प्रति युवामागच्छतमित्यस्मिन्पादे निष्कृतमिति यत्पदमस्ति तत्पदं संस्कृतमित्युमर्थमाह ।

वेदनानुष्ठाने प्रशंसति—

आ हास्येन्द्रवायू संस्कृतं गच्छतो य एवं
वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।

अस्यैवाभिज्ञस्य संबन्धिनं संस्कारयुक्तं सोममिन्द्रवायू आभिमुख्येन खलु प्राप्नुतः।
तृतीयस्य तृचस्य प्रथमायामृचि तृतीयपादं व्याचष्टे—

मित्रं हुवे पूतदक्षं धियं घृताचीं साधन्तेति वाग्वै धीर्घृताची, इति ।

पूतेषु शुद्धेषु दक्षं कुशलं मित्रं हुवे आह्वयामि । कीदृशं मित्रम्—धियं घृताचीं साधयन्तं(साधन्ता) धियं ध्यानयोग्यं घृताची(चीं) क्षरणोपेतं द्रव्यमाज्योदकादिकं प्रापयन्तम् । मन्त्ररूपां वा वाचं संपादयन्तम् । साधयन्ताविति द्विवचनं वा । वरुणं वेति द्वितीयपादे वरुणस्यापि प्रकृतत्वेनोभयोर्विशेषणत्वात् । इत्येतस्मिंस्तृतीयपादे धीर्घृताचीत्यनेन पदद्वयेन वागेव विवक्षिता।

वेदनं शंसनं च प्रशंसति—

वाचमेवास्मिंस्तद्दधाति य एवं वेद
येषां चैवं विद्वानेतद्धोता शंसति, इति ।

तत्तेन वेदनेन शंसनेन च ।


इन्द्रवायू इ०—ऋ० सं० म० १ सू० २ ऋ० ४ । मित्रं हुवे पूत०—ऋ० सं० म० १ सू० २ ऋ० ७ ।