भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 413, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 413

दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५९

जप इत्युक्तम्, तत्राऽऽह—

उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दस्सु संहिता मधून्यघम-
र्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी बृहद्रथन्तरे पुरु-
षगतिमहानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नामन्यतमं बहि-
ष्पवमानं कूश्माण्डयः पावमान्यः सावित्री चेति पावनानि ॥ ११ ॥

अन०— उपनिषद्, वेदों के आदिम मन्त्र, वेदान्त, सभी वेदों की संहिताएँ, मधु नामक अनुवाक, अघमर्षण नामका सूक्त, अथर्वशिरस्, रुद्र नाम से ख्यात अनुवाक, पुरुषसूक्त, राजन और रौहिण नाम के साम, बृहत् और रथन्तर साम, पुरुषगति, महानाम्नी, महावैराज, महादिवाकीर्त्य साम, कोई भी ज्येष्ठ साम, बहिष्पवमान साम, कूष्माण्डी, पावमानी, सावित्री मन्त्र—ये सभी पवित्र करनेवाले होते हैं ॥११॥

टि०— सभी वेदों की संहिताओं का संहिता पाठ ही यहाँ समझना चाहिए । 'मधु वाता' आदि अनुवाक मधु अनुवाक कहलाता है । 'ऋतम्' आदि तीन ऋचाएँ अघमर्षण कहलाती है । 'नमस्ते रुद्र' इत्यादि प्रश्न रुद्र नाम के अनुवाक हैं । इस सूत्र के अन्त में 'इति' शब्द के प्रयोग से शिवसङ्कल्पादि का भी ग्रहण अभीष्ट है ।

उपनिषदो वेदसंहितारहस्यानि । वेदादयः ऋग्यजुषयोरनुवाकादिः । साम्नां सामवर्गादिः । वेदान्ता रहस्यमन्त्राश्च ब्राह्मणानि च । सर्वच्छन्दस्सु सर्वप्रवचनेषु संहिताः, न पदानि क्रमो वा । मधूनि 'मधु वाता' इति मधुशब्दयुक्तानि यजूंषि । अघमर्षणं 'ऋतं' इति तृचम् । अथर्वशिरोऽथर्वणं प्रसिद्धम् । रुद्राः 'नमस्ते रुद्र' इति प्रश्नः । पुरुषसूक्तं प्रसिद्धम् । राजनरौहिणे सामनी 'इन्द्रं नरः' इत्यस्यामृचि गीते । बृहत् 'त्वामिद्धि' इत्यस्याम् । रथन्तरं 'अभि त्वा' इति । पुरुषगतिः 'अहमस्मि' इत्यस्याम् । महानाम्न्यो 'विदा मघवन्' इत्येता ऋचः । आसूत्पन्नानि वा सामानि । महावैराजं 'पिबा सोमम्' इत्यस्याम् । महादिवाकीर्त्य ^२'विभ्राट् बृहत्पिबतु इत्यस्याम् । ज्येष्ठसामानि 'शं नो देवीः' 'चित्रं देवानाम्' इत्यनयोः । बहिष्पवमानम् 'उपास्मै' इत्यासु । कूष्माण्ड्य 'यद्देवाः' आच्छिद्रकोऽनुवाकः । पावमान्यः 'स्वादिष्ठया' इत्यृचः । सावित्री तु प्रसिद्धा । चशब्दाच्छुद्धवत्यादि । इतिशब्देन प्रकारवाचिना खिलेषु पठितं शिवसङ्कल्पादि गृह्यते ॥ ११ ॥

^३उपसन्न्यायेन पयोव्रतता शाकमक्षता फलमक्षता मूलमक्षता


१. See. P. १६७ ।
२. 'सा नो' इत्यस्याम् इति ख. पु. पाठः ।
३. सोमयागे उपसन्नामकेष्टिसन्निधौ दीक्षितस्य व्रतग्रहणमाम्नातम् । तत्र कल्प-