भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 445, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 445

पञ्चमः खण्डः ] चतुर्थप्रश्ने पञ्चमोऽध्यायः ३९१

इत्यर्थः। 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया। अतश्चाऽहर्निशमिति गम्यते। किमेवं कृते सर्वस्मात्पापान्मुच्यते? न; पतनीयादृते। तस्य हि प्रायश्चित्तान्तरेण भवितव्यम्। द्विजग्रहणमनुवादः। 'जपहोमेष्टिमन्त्राणि करिष्यन्नादितो द्विजः' इत्यधीतत्त्वात् ॥ २४ ॥

इदं चाऽन्यत्—

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
यवाचामेन संयुक्तो ब्रह्मकूर्चोऽतिपावनः ॥ २५ ॥

**अनु०—**गाय का मूत्र, गोबर, दूध, दही, घृत और कुशोदक जौ के बने यवागू के साथ मिलाये जाने पर अत्यन्त पवित्र करने वाला ब्रह्मकूर्च कहलाता है ॥ २५ ॥

'यवानां आचामो यवागूः। यद्वा-आचमनं आचामः। एषः ब्रह्मकूर्चो नाम कृच्छ्रः। अस्य विधिः स्मृत्यन्तराद्वेदितव्यः। यथा हि—

पालाशं पद्मपत्रं वा ताम्रं वाऽथ हिरण्मयम् ।
गृहीत्वा²ऽवहितो भूत्वा त्रिराचामेद्विजोत्तमः ॥
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम् ।
चतुर्दशीमुपोप्याऽथ पौर्णमास्यां समारभेत् ॥
गोमयाद्द्विगुणं मूत्रं शकृद्यावच्चतुर्गुणम् ।
क्षीरमष्टगुणं देयं तथा³ दशगुणं दधि ।
स्थापयित्वाऽथ दर्भेषु पालाशैः पत्रकैरथ ।
तत्त्समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥
अग्नये चैव सोमाय सावित्र्यै च तथैव च ।
प्रणवेन तथा कृत्वा ततश्च स्विष्टकृत्स्मृतः ॥
एवं हुत्वा ततश्शेषं पापं ध्यात्वा समाहितः ।
आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥
उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन च ॥


१. आचामशब्दो मण्डपरतया ( हिन्दी भाषायां 'मांड' इति द्राविडभाषायां ',कञ्जी'' इति च प्रसिद्धवस्तुवाचकत्तया ) व्याख्यातो महीधरभाष्ये ( शु. य. सं. )
२. गृहीत्वा साधयित्वाऽऽचामनकर्म समारभेत् इति ग पु० ।
३. दधि पञ्चगुणं तथा इति ग पु० ।