बृहदारण्यकोपनिषद् (शाङ्करभाष्य सहित)
Brihadaranyaka Upanishad with Shankara Bhashya
आदि शङ्कराचार्य द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)
पृष्ठ 1380, कुल 1402 में से
संदर्भ में पढ़ें| १३६४ | बृहदारण्यकोपनिषद् | [ अध्याय ६ |
|---|
माण्डूकायनीपुत्रान्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्मा-
ण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिलीपुत्रो राथीतरी-
पुत्राद् राथीतरीपुत्रो भालुकीपुत्राद् भालुकीपुत्रः
क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद् वैद-
भृतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः प्राचीनयोगी-
पुत्रात् प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् साञ्जीवीपुत्रः
प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादास्रु-
रायण आसुरेरासुरिः ॥ २ ॥ याज्ञवल्क्याद् याज्ञव-
ल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः
कुश्रोः कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्यो-
गाज्जिह्वावान् बाध्योगोऽसिताद् वार्षगणादसितो
वार्षगणो हरितात् कश्यपाद्धरितः कश्यपः शिल्पात्
कश्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो
नैध्रुविर्वाचो वागम्भिण्या अम्भिण्यादित्यादित्या-
नीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्ये-
नाख्यायन्ते ॥ ३ ॥ समानमा सांजीवीपुत्रात् सांजी-
वीपुत्रो माण्डूकायनेर्माण्डूकायनिर्मांण्डव्यान्माण्डव्यः
कौत्सात् कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद्
वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याद्
वात्स्यः कुश्रोः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद् यज्ञ-
वचा राजस्तम्बायनस्तुरात् कावषेयात् तुरः कावषेयः
प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे
नमः ॥ ४ ॥
अब वंशका वर्णन किया जाता है—पौतिमाषीपुत्रने कात्यायनीपुत्रसे,
कात्यायनीपुत्रने, गौतमीपुत्रसे गौतमीपुत्रने भारद्वाजीपुत्रसे, भारद्वाजीपुत्रने
पाराशरीपुत्रसे, पाराशरीपुत्रने औपस्वस्तीपुत्रसे, औपस्वस्तीपुत्रने पाराशरी-