दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 127, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF द्वितीयोच्छ्वासः (१) देव त्वयि तदावतीर्णे द्विजोपकारायसुरविवरं त्वदन्वेषण- प्रसूते च मित्रगणे अहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्चम्पायाःकश्चि- दस्ति तपःप्रभावोत्पन्नदिव्यचक्षुमरीचिर्नाम महर्षिरिति कुतश्चित् संलपतो जनसमाजादुपलभ्यामुतो बुभुत्सुस्त्वद्वृत्तिं तमुद्देशमगमम् । (२) न्यशामयं च तस्मिन्नाश्रमे कस्यचिच्चूतपोतकस्य छायायां कमप्युद्विग्नवर्णं तापसम् । अमुना चातिथिवदुपचरितः क्षणं विश्रान्तः (१) अथापहारवर्मा कथयति । देव, कुमार । त्वयि भवति राजवाहने इत्यर्थः तदा तस्यां रात्रौ । अवतीर्णे प्रविष्टे । द्विजस्य ब्राह्मणस्य मातङ्गस्येत्यर्थः उपका- राय उपकारं कर्तुम् । असुरविवरं पातालम् । त्वदिति-तव भवतः राजवाहनस्ये- त्यर्थः, अन्वेषणाय मार्गणाय प्रसूते निर्गते । अहमपि अपहारवर्माऽपि महीं पृथिवीम् । अटन् भ्रमन् । चम्पाया अङ्गदेशराजधान्याः । तपः प्रभावेण तपस्या- माहात्म्येन उत्पन्नं प्रादुर्भूतं दिव्यचक्षुर्ज्ञाननयनं यस्यासौ । कुतश्चिद् अज्ञातपरि- चयात् । संलपतः परस्परभाषमाणात् । उपलभ्य ज्ञात्वा । अमुतः अस्मान्मरीचेः सकाशात् । अदस्शब्दात् पञ्चम्यास्तसिल् । त्वद्वृत्तिं भवत्प्रचारं । बुभुत्सुः ज्ञातु- मिच्छुः बुधेः सन्नन्तादुः प्रत्ययः । उद्देशं प्रदेशं, मरीचिर्यत्रासीदिति शेषः । (२) न्यशामयम् अपश्यम् । चूतपोतकस्य तरुणाम्रतरोः उद्विग्नवर्णं अनु- तापमलीमसम् । अमुना तत्रोपविष्टेन तापसेन । उपचरितः सत्कृतः । अहमिति (१) हे देव ! जब आप उस ब्राह्मणका उपकार करनेके लिए उस कन्दरा में उतरे और आपके सभी मित्र जब आपको खोजनेके लिए इधर-उधर फैल गये, तब मैं अङ्गदेशकी पृथिवीपर गङ्गाके किनारे और चम्पा नगरीके बाहर ही बाहर विचरता रहा। इसी बीच मैंने परस्पर बातें करते हुए कुछ लोगोंसे सुना कि, मरीचि नामके कोई एक महर्षि हैं। उन्होंने अपनी तपस्याके बलसे दिव्यदृष्टि पायी है। बस, उनके द्वारा आपका पता लगानेके निमित्त चल पड़ा। (२) उनके आश्रमपर जा कर मैंने देखा कि, छोटेसे आम्रवृक्षतले एक घबड़ाये हुए तपस्वीजी बैठे हैं। उन्होंने अतिथिकी भांति मेरा सत्कार किया। क्षणभर विश्राम Nepal Sanskrit University, Balmeeki Campus, Kathmandu