दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 128, कुल 474 में से
संदर्भ में पढ़ें१३० दशकुमारचरितम् । [ उत्तरपीठिकायां क्वासौ भगवान् मरीचिः तस्मादहमुपलिप्सुः प्रसङ्गप्रोषितस्य सुहृदो गतिम् आश्चर्यज्ञानविभवो हि स महर्षिर्महां विश्रुत इत्यवादिषम् । ( ३ ) अथासावुष्णमायतञ्च निःश्वस्याशंसत—आसीत्तादृशो मुनिर- स्मिन्नाश्रमे । तमेकदा काममञ्जरी नामाङ्गपुरीतंसस्थानीया वारयुव- तिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमि- रभ्यवन्दिष्ट । ( ४ ) तस्मिन्नेव च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधा- शेषः । तस्मात् मरीचेः सकाशात् । उपलिप्सुः ज्ञातुमिच्छुः । प्रसङ्गेति-प्रसङ्गेन केनापि कारणेन प्रोषितस्य देशान्तरगतस्य । सुहृदः मित्रस्य, राजवाहनस्येत्यर्थः । गतिं प्रचारम् । आश्चर्यजनको ज्ञानस्य विभवो माहात्म्यं यस्यासौ । विश्रुतः प्रसिद्धः । अवादिषम् । अकथयम् । ( ३ ) अथ मद्वचनश्रवणानन्तरम् । असौ विवर्णमुखस्तापसः । आयतं दीर्घं । उष्णमायतं चेति पदद्वयं क्रियाविशेषणम् । अशंसत अकथयत् । तादृशः त्वदु- क्तगुणयुक्तः । तं मुनिम् । अङ्गपुरी अङ्गदेशराजधानी चम्पेति ख्याता तस्या- वतंसस्थानीया शेखरभूता-वतंसः कर्णभूषणशिरोभूषणयोरिति कोशात् । वारयु- वतिर्वेश्या । अश्रुबिन्दुभिर्नेत्रजलकणिकाभिस्तारकितौ व्याप्तौ पयोधरौ स्तनौ यस्याः सा रुदतीत्यर्थः । सनिर्वेदं सवैराग्यं सर्वत्र विरक्त्या सहेति शेषः । कीर्णेति- कीर्णः प्रसृतो यः शिखण्डः केशपाशस्तेनास्तीर्णा व्याप्ता भूमियया सा । स्वकेश- कलापेन भूमिमाच्छाद्य नमस्कृतवतीत्यर्थः । ( ४ ) मातृप्रमुखो जनन्यादिः । तस्याः काममञ्जर्या आप्तवर्ग आत्मीयगणः । 'करनेके अनन्तर मैने तपस्वीजीसे पूछा- भगवन् ! महर्षि मरीचि कहां हैं ? प्रसङ्गवश मेरे मित्रका विच्छेद हो गया है। मैं उसका पता लगाना चाहता हूं। मैंने सुना है कि, उनके पास आश्चर्यजनक ज्ञानका वैभव है।' ( ३ ) मेरी बात सुन करके तपस्वीजीने गरम तथा लम्बी सांस ली और कहा हाँ, इस आश्रममें एक वैसा मुनि था। एक समय काममञ्जरी नामकी एक वेश्या जो चम्पापुरीका अलङ्कार मानी जाती थी-उसके पास गयी और पृथ्वीपर माथेके बाल बखेर करके बड़ी वेदनाके साथ प्रणाम किया। उस समय उसके कुचोंपर पड़ी आँसूकी बूँदें झलक रही थी। ( ४ ) उसी समय काममञ्जरीके आत्मीयजन मारे शोकके कारण व्याकुलभाव से