भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 257, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 257

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF चतुर्थोच्छ्वासः ( १ ) देव, सोऽहमप्येभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमि भूमिव- लयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम्। उपस्पृश्य मणिभङ्ग- निर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनर्माभप्र- णम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरिघपीवराभ्यां भुजा- भ्यामाबध्यमानपरिकरमविरतरुदितोच्छूनताम्रादृष्टिमद्राक्षम् । अतर्कयं च—'कर्कशोऽयं पुरुषः, कार्पण्यमिव वर्षति क्षीणतारं चक्षुः, आरम्भश्च ( १ ) साम्प्रतमर्थपालनामा कुमारः स्वभ्रमणवृत्तान्तं वर्णयितुमारेभे देवे- त्यादिना । देव-राजन् । सोऽहमर्थपाल इत्यर्थः । एभिः-अनन्तरोक्तैः । एककर्मा- एकं समानं कर्म भवदन्वेषणरूपं यस्यासौ । ऊर्मिमालीति-ऊर्मीणां तरङ्गाणां माला पंक्तिरस्यास्तीति ऊर्मिमाली समुद्रः नेमिः सीमा यस्य तत्-समुद्रवेष्टित- मित्यर्थः । भूमिवलयं-भूमण्डलम् । उपासरमगच्छम् । काशीपुरीं-काशीप्रदेशस्य प्रधाननगरीम् । वाराणसों तन्नामिकाम् । उपस्पृश्य-स्नात्वा । मणिभङ्गेति- मणीनां रत्नानां भङ्गः शकलस्तद्वद् निर्मलं स्वच्छमम्भस्तोयं यस्यास्तस्याम् । मणिकर्णिकायां-तन्नामवतीर्थे । अविमुक्तेति-अविमुक्तेति काशीक्षेत्रस्य नामान्तरं तस्येश्वरं प्रभुम् । अन्धक मथनमन्धकासुरसंहार कम्-महेशम् । प्रदक्षिणं परिभ्र- मन्-परिक्रमं कुर्वन् । आयामवन्तं-दीर्घाकारम् । आयसेति-अयसा लोहेन निर्मितः आयसस्तादृशो यः परिघोऽर्गलस्तद्वत् पीवराभ्यां स्थूलाभ्याम् । भुजाभ्यां बाहुभ्याम् । आबध्येति-आबध्यमानो विरच्यमानः क्रियमाण इति यावत् परिकरः कक्षाबन्धो येन तम् । अविरतेति-अविरतं सन्ततं यद् रुदितं रोदनं तेनोच्छूने स्फीते ताम्रेऽरुणे दृष्टी नेत्रे यस्य तम् । एवंभूतं पुरुषमद्राक्षम् दृष्टवान् । अतर्कयं व्यचारयम् । कर्कशः कठोरः परुष इति यावत् । कार्पण्यं-दैन्यम् । वर्षति प्रकट- अब अर्थपाल नामक कुमारने अपने पर्यटन-वृत्तको सुनाना प्रारम्भ किया— ( १ ) हे देव ! आपके अन्वेषणार्थ समानकर्ममें सुदृढ़ मित्रोंके साथ समुद्रान्त पृथिवी- मण्डलपर पर्यटन करता हुआ मैं एकदा काशीप्रदेशकी वाराणसी नगरीमें पहुँचा । मणिकी कणिकाके सदृश निर्मलजल-( गङ्गाजल ) वाले मणिकर्णिका तीर्थमें स्नान किया तथा काशीनाथ, अन्धकासुरसंहारक-(भगवान् विश्वनाथ-) को प्रणाम किया और प्रदक्षिणा ( परिक्रमा ) करने लगा । उसी समय मैंने लोहेके परिघ तुल्य ( बेवड़ेके समान ) स्थूल तथा अपने दोनों बाहुओंमें कक्ष कसे हुए एवं सदा रोदन करनेके कारण जिसके Nepal Sanskrit University, Balmeeki Campus, Kathmandu