दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 264, कुल 474 में से
संदर्भ में पढ़ें२६४ दशकुमारचरितम् । [ उत्तरपीठिकायां ( ६ ) सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निष्- ष्णा, ‘कासि वासु, कुतोऽस्यागता, कस्य हेतोरस्य मे प्रसीदसी’ति साभि- लापमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत्—‘आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम। साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् । आदाय चैनं तीव्रस्नेहान्मम पित्रोः संनिधिमनैषम् । अनैषीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् । (६) सा कन्या। अञ्जलिकिसलयेति-अञ्जलिरिव किसलयः पल्लवस्तेनोत्तंसितो भूषितस्तेन । शिरस्यञ्जलिं बद्ध्वेत्यर्थः । मुखेति-मुखे वदने विलोलाश्चञ्चलाः कुन्त- लाः केशा यस्य तादृशेन । विशेषणद्वयमिदं मूर्ध्नेत्यस्य । वनवटद्रुमस्यारण्यकवट- वृक्षस्य । प्रच्छायशीतले-प्रच्छायेन विस्तृतच्छायया शीतले शिशिरे । तले अधः- प्रदेशे । निषण्णा समुपविष्टा । का-किंनामधेया कस्य वा कन्या । वासु-बाले। कुतः कस्मात्स्थानात् । कस्य हेतोः-केन प्रयोजनेन । अस्य मे-एतावदवस्थस्य मम । प्रसीदसि-प्रसन्ना भवसि । साभिलाषं-सानुरागम् । आभाषिता उक्ता सती- त्यर्थः । वाङ्मयं-वचनरूपम् । मधुवर्ष-मधुवृष्टिम् । यक्षाणां नाथस्य-यक्षाणां प्रधानस्य मणिभद्रस्य । साहं-मणिभद्रकन्या तारावली । अपावर्त्तमाना-प्रत्या- गच्छन्ती । मलयगिरेः मलयपर्वतात् । दाक्षिणात्येषु श्रोशैलेऽगस्त्यस्य निवास इति पुराणप्रसिद्धम् । परेतावासे-श्मशाने । कमपि-एकम् । दारकं-शिशुम् । रुदन्तं क्रन्दन्तम् । आदाय गृहीत्वा । एनं-दारकम् । तीव्रस्नेहात्-अत्यधिकवात्सल्यात् । पित्रोः-मातामित्रोः । अनैपं नीतवती । अलकेश्वरस्य-कुबेरस्य । आस्थानीं-सभाम् । ( ६ ) उस कन्याने अपने दोनों करपल्लवोंका अञ्जलिका शिरोभूषण बनाकरके अपने बिखरे बालोंवाले शिरसे मुझे प्रणाम किया। अरण्यके एक बड़े वट वृक्षके नीचे उसकी शीतल छायामें मेरे साथ बैठी। मैंने पूछा-हे बाले! आप कौन हैं ? कहाँसे आगमन हुआ है ! किस कारणसे आप मेरे ऊपर इतनी प्रसन्न हो रही हैं। इस प्रकार सानुराग पूछनेवाले पर अर्थात् मुझपर उस कन्याने अपने वचनरूपी मधुको बरसाया—'हे आर्य ! मैं यक्षराज मणिभद्रकी तारावली नामकी पुत्री हूँ । एक समय मैं अगस्त्य ऋषिकी भार्या लोपामुद्राको प्रणाम करके मलयगिरिसे लौट रही थी कि काशीकी श्मशान-भूमिमें किसी एक शिशुको रोते हुए देखा । अत्यन्त वात्सल्य प्रेमके कारण मैं उस शिशुको उठा करके अपने माता-पिताके समीप ले आयी। मेरे पिताजी उस शिशुको राजराज ( कुवेर ) के दरबारमें ले गये ।