भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 265, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 265

चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् २६५

(७) अथाहमाहूयाज्ञप्ता हरसखेन, 'बाले बालेऽस्मिन्कीदृशस्ते भावः' इति । 'औरस इवास्मिन् वत्से वत्सलता' इति मया विज्ञापितः 'सत्यमाह वराकी' इति तन्मूलामतिमहतीं कथामकरोत् । तत्रैतावन्मयावगतम् 'त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः । बन्धुमती विनयवती कान्तिमती चाभिन्ना । वेदिमत्यार्यदासी सोमदेवी चैकैव । हंसावली शूरसेना सुलो- चना चानन्या । नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता । या किल शौन- कावस्थायामग्निसान्तिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुन-


(७) अहं तारावली । हरसखेन कुबेरेण । कुबेरस्थ्यम्बकसख इत्यमरः वाले— वत्से, सम्बोधनमेतत् । द्वितीयस्य 'बाले' इत्यस्य बालके इत्यर्थः । भावः-स्नेहः । औरसे-औरसपुत्रे इव । वत्से-बाले । वत्सलता-वात्सल्यं स्नेह इति यावत् । विज्ञापितः कथितः-कुबेरः इति शेषः । वराकी-अनुकम्पार्हा । तन्मूलां दारक- सम्बन्धिनीम् । तत्र तस्यां कथायाम् । एतावत्-एतदेव । त्वं किलेत्यादि-त्वमेव शौनकः शूद्रकः कामपालश्चैक एव । अस्मिन् जन्मनि यस्त्वं कामपालनामासि स एव पूर्वजन्मनि शूद्रकनामाऽभवस्तत्पूर्वजन्मनि च शौनकनामासीरतोऽभिन्न एवे- त्यर्थः । बन्धुमत्य्यादयो द्वादश क्रमेण तवैव भार्या अभवन् । शौनकस्य बन्धुमती वेदिमती हंसावलीनन्दिन्याख्याश्चतस्रः, शूद्रकस्य विनयवत्यार्यदासीशूरसेना- रङ्गपताकाख्याश्चतस्रः, कामपालस्य च कान्तिमतीसोमदेवीसुलोचनेन्द्रसेनाख्या- श्चतस्रो भार्या अभवन् । या खलु बन्धुमती जन्मान्तरे सैव जन्मान्तरे वेदिमती सैव पुनहंसावली सैव नन्दिनी । एवमेव विनयवत्यादयोऽपि अतस्ता अपि अभिन्ना एवेति तात्पर्यम् । शौनकावस्थायां शौनकजन्मनि । अग्निसान्तिकम्-अग्निं साक्षीकृत्य । आत्मसात्कृता-विवाहिता स्वयेति शेषः । गोपकन्या-आभीरदुहिता । सैव गोपकन्यैव । आर्यदासी तव शूद्रकावस्थायामार्यदासीनाम्नी समभवदित्यर्थः ।


(७) महादेवके सखा कुबेरने मुझे बुला करके पूछा—'हे बाले ! इस शिशुपर तेरा क्या भाव है ?' मैंने उन्हें सूचित किया कि मुझे इस शिशुपर अपने औरस पुत्रके समान वात्सल्यप्रेम है । 'हे कृपापात्रि ! तुमने सत्य कहा ।' ऐसा कह कर उन कुबेर भगवान्ने उस शिशुसम्बन्धिनी एक बड़ी कथा कही । उस कथासे मुझे ये बातें विदित हुईं । आप ही शौनक, शूद्रक और कामपाल हैं—अर्थात् इस जन्ममें आप कामपाल हैं इसके पूर्वमें शूद्रक थे और उसके पूर्वमें आप शौनक रूपमें थे । इसी तरह बन्धुमती, विनयवतो, और कान्तिमती भी क्रमसे वेदिमती, आर्य- दासी और सोमदेवी थीं और इसके पूर्व हंसावली, शूरसेना और सुलोचना थीं एवं उसके पूर्व नन्दिनी, रङ्गपताका और इन्द्रसेना थीं। शौनकावस्थामे जिस गोपकन्यासे