भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 336, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 336

३३६ दशकुमारचरितम् । [ उत्तरपीठिकायां

रामेषु नाम्ने नाविकनायकाय कथितवन्तः-‘कोऽप्ययमायसनिगडबद्ध एव जले लब्धः पुरुषः । सोऽयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन' इति अस्मिन्नेव क्षणे नैकनौकापरिवृतः कोऽपि मद्गुरभ्यधावत् । अबि- भ्युर्यवनाः । तावदतिजवा नौकाः श्वान इव वराहमस्मत्पोतं पर्युरुत्सत् । प्रावर्तत संप्रहारः । पराजयिषत यवनाः । तानहमगतीनवसीदतः स- माश्वास्यालपिषम्--‘अपनयत मे निगडबन्धनम् । अहमहमवसादयामि वः सपत्नान्' इति ।

अमुत्र-अस्मिन् वहित्रे । आसन्-अतिष्ठन् । यवना म्लेच्छाः । ते यवनाः । उद्- धृत्य जलादुत्थाप्य । नाविकनायकाय-नाविकाधिपतये । आयसनिगडबद्धः लौह- शृङ्खलनियमितः । सोऽयं-पुरुषः । द्राक्षाणां मृद्वीकालतानां सहस्रं एकेन क्षणेन सिञ्चेत् आर्दीकुर्यात् । अयं यावान् बलिष्ठो दृश्यते तथा तर्कयामः क्षणमात्रे- णायं द्राक्षाणां सहस्रं सेक्तुं समर्थ इति भावः । अथवा-अस्य विनिमयेनास्मा- भिर्दाक्षाणां सहस्रं लप्स्येतेति भावः । नैकनौकापरिवृतः-अनेकक्षुद्रतरणीवेष्टितः । मद्गुः युद्धपोतः । अबिभयुः भयं प्रापुः । ञिभी भये इत्यस्य भीधातोलंङि रूपम् । अतिजवाः वेगवत्यः । श्वानः कुक्कुराः । वराहं शूकरम् । कुक्कुरा यथा वराहं रुन्धन्ति तद्वदित्यर्थः । अस्माकं पोतं वहित्रम् । पर्युरुत्सत् समन्तात् रुरुधुः । परिपूर्वकाद् रुधंधातोलुंङ् प्रावर्त्तत प्रारभत । सम्प्रहारो युद्धम् । पराजयिषत— पराजिता अभूवन् । तान् यवनान् पराजीयमानानिति शेषः । अहं मित्रगुप्त इत्यर्थः । अगतीन् अशरणान् अत एव अवसीदतः-नैराश्यं गतान् । आलपि- षम् । अवोचम् । अपनयत-अपसारयत दूरीकुरुतेति यावत् । अवसादयामि-नाश- यामि । सपत्नान् शत्रून् ।

उषाकालमें मुझे एक नाव ( नौका ) दिखायी दी । उस नावके ऊपर यवन लोग बैठे हुए थे । उन यवनोंने मुझे जलसे बाहर निकालकर राम नामके नाविकोंके अधिपतिसे कहा— 'लोहेकी सिकड़ियोंसे परिवद्ध यह मनुष्य जलमें बह रहा था, इसको हम लोगोंने खींच निकाला है । इसे इतनी शक्ति है कि यह एक ही क्षणमें हजार द्राक्षाकी लताओंको सींच सकता है । उसी समय अनेक नावोंके साथ एक युद्धक नौका, जिसका नाम 'मद्गु' था, अनेक योद्धाओंके सहित वहांपर आ गयी । उन योद्धाओंको देखकर वे सब यवन भयान्वित हो गये । और उन वीर पुरुषोंसे युक्त नावोंने मेरी नावको ऐसे चारों ओरसे घेर लिया जैसे शिकारी कुत्ते सूअरको घेर लिया करते हैं । संग्राम भी होने लगा । यवन लोग पराजित हो गये । नैराश्यको प्राप्त होनेवाले तथा शरणहीन उन यवनोंको