दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 415, कुल 474 में से
संदर्भ में पढ़ेंहि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय । अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वर्त्तिन्यः सर्वाः स्थितीः संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयते । आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा । दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामा- प्रतिहतवृत्ति । तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुः
अध्यारुह्यमाणम् आक्रम्यमाणम् । चेतयते ज्ञातुं प्रभवति । शक्तः समर्थः । साध्यं कार्यम्, साधनं कारणम्, अथवा साध्यं विपक्षभूतं साधनं सपत्नभूतम् । विभज्य निर्णीय । अयथावृत्तः योग्यचरित्रहीनः । कर्मसु कार्येषु । प्रतिहन्यमानः प्रतिरुध्य- मानः । परिभूयते अवज्ञायते । अलब्धस्य लाभो योगः, लब्धस्य संरक्षणं क्षेमस्तयो- राराधनाय साधनाय अतिक्रान्तं लङ्घितं शासनं नृपादेशो याभिस्ताः । यत्किञ्चन- वादिन्यः अनियन्त्रितभाषिण्यः । यथाकथञ्चिद्वर्त्तिन्यः यथेच्छं विहरन्त्यः । स्थिती- र्मर्यादाः । संकिरेयुः विशृङ्खलयेयुः । इतो लोकात् । अमुतः परलोकात् । भ्रंशयति पातयति । आगमः शास्त्रमेव दीपस्तेन दृष्टेन । वर्तते सम्पद्यते । लोकयात्रा लोकस्थितिः । व्यवहिता विषयान्तरेणाच्छादिताश्च विप्रकृष्टा असन्निहितास्तेषु । अप्रतिहताऽकुण्ठिता वृत्तिः प्रसरो यस्य तत् । चक्षुषा सर्वं द्रष्टुं न प्रभवन्ति जीवाः शास्त्ररूपं दिव्यं चक्षुर्न कुत्रापि प्रतिहतं भवतीति भावः । तेन शास्त्रचक्षुषा । सतोः वर्तमानयोः । शन्तन्तादस्धातोः सप्तमीद्विवचने रूपम् । आयतविशालयोः दीर्घम-
उसे अपने-पराये शत्रु एक न एक दिन अवश्य धर दबाते हैं। ऐसी दशामें वह राजा प्रजासे तिरस्कृत हो जाता है तथा तिरस्कृत राजाकी आज्ञाओंका कोई भी पालन नहीं करता है। तब वह राजा जनताके योग-क्षेमकी व्यवस्था करनेमें अशक्त हो जाता है। ऐसी परिस्थिति होनेपर राजाज्ञाओंका उल्लङ्घन करके प्रजा मनमाने मार्गसे सभी नियमोंको तोड़कर चलने लगती है। नियमविरुद्ध चलनेवाली प्रजा अपनेको, राजाको और राज्यको नष्ट-भ्रष्ट कर डालती है। धर्मशास्त्ररूपी दीपकके प्रकाशमें चलनेसे राजा-प्रजाका जीवन बड़े सुखमें व्यतीत होता है। धर्मशास्त्र दिव्य दृष्टिके समान है जो दृष्टि वर्त्तमान, भूत और भविष्य तथा अज्ञातावश न दिखायी देनेवाले सभी पदार्थोंतक अप्रतिहत गतिसे पहुँच जाती है, कहीं रुकती नहीं है। सुन्दर तथा विशाल नेत्रोंवाले भी अन्धेके समान हैं यदि उनके पास उक्त धर्मशास्त्ररूपी दृष्टि नहीं है, क्योंकि कार्य तथा अकार्यका विचार