दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 416, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४१६ दशकुमारचरितम् । [ उत्तरपीठिकायां र्थदर्शनेष्वसामर्थ्यात् । अतो विहाय बाह्यविद्यास्वभिषङ्गमगमय दण्डनीतिं कुलविद्यां तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीम्' इति । ( ६ ) एतदाकर्ण्य 'स्थान एव गुरुभिरनुशिष्टम् । तथा क्रियते' इत्य- न्तःपुरमविशत् । तां च वार्तां पार्थिवेन प्रसङ्गेनोदीरितामुपनिशम्य समी- पोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवाद्यादिष्वबाह्यो बाह्यना- रीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परर्मान्वेषणपरः परिहा- सयिता परिवादरुचिः पैशुन्यपण्डितः सचिवमण्डलादप्युत्कोचहारी सकल- हतोः । जन्तुर्जीवः । अर्थदर्शनेषु विषयज्ञानेषु । बाह्यविद्यासु नीतिविद्येतरविद्यासु । अभिषङ्गमासक्तिम् । आगमय प्रापय । आवर्जिता प्राप्ता शक्तिः सामर्थ्यं सिद्धिः कार्यसिद्धिश्च येन सः । अस्खलितशासनः अप्रतिहताज्ञः । शाधि पालयेत्यर्थः । अनुशासनाथंकशासधातोलोंटि मध्यमपुरुषैकवचने रूपम् । उदधिः समुद्रो मेखला रशना यस्यास्तां ससागरामित्यर्थः । उर्वी पृथिवीम् । ( ६ ) स्थाने युक्तम् । प्रसादवित्तः राज्ञः प्रसादेन वित्तः प्रसिद्धः अथवा प्रसाद एव वित्तं धनं यस्य सः, राजप्रसादोपजीवीत्यर्थः । अबाह्यः बहिर्भूतो न; सर्वक- ळकदॆशज्ञ इत्यर्थः । बाह्यनारीपरायणो वेश्यासक्तः । अयन्त्रितमुखः । असंयतमुखः- वाच्यावाच्यज्ञानहीनो बहुभाषी वा बहुभङ्गिविशारदः वक्रोक्तिचतुरः । परस्य मर्मा- न्वेषणे गोप्यविषयानुसन्धाने परतत्परः, परच्छिद्रान्वेषणपरायणो वा। परिवादरुचिः परनिन्दारसिकः । पैशुन्यं खलता तत्र पण्डितः । सचिवमण्डलात् मन्त्रिसमूहादपि धर्मशास्त्रज्ञान बिना नहीं हो सकता, अतः आप बाहरकी सभी विद्याओंकी ओरसे चित्त हटाकर अपने वंशकी विद्याओं तथा दण्डनीतकी ओर चित्त लगावें और उसे सीखनेका प्रयास करें । यदि आप उस दण्डनीति-प्रतिपादित मार्गसे कार्यसाधनकी ओर अग्रसर होंगे तो समस्त सिद्धियाँ तथा शक्तियां आपतक स्वयमेव दौड़ आयेंगी तथा शासनकार्यमें न कभी त्रुटि होगी और न किसीका भय रहेगा । मेरी इस सम्मतिको मानकर आप समुद्रवसना पृथ्बीका दीर्घकालतक शासन कीजिये । ( ६ ) मन्त्रीकी बात सुनकर अनन्तवर्माने कहा- 'हे सचिववर ! आपका उपदेश युक्तिपूर्ण तथा शिरोधार्य है, मै इसका पालन करूंगा।' ऐसा कहकर वह अन्तःपुरमें चला गया । वहां पर नृत्य-गोतादिके प्रसंगमें उसने अपने बूढ़े मन्त्रीके उपदेशकी चर्चा कर दी। उस चर्चाको अनन्तवर्माके एक सेवक विहारभद्रने सुन लिया क्योंकि वह भी उस समय वहीं पर विद्यमान था। विहारभद्र दूसरोंके भावोंको जाननेमें पटु था तथा Nepal Sanskrit University, Balmeeki Campus, Kathmandu