दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
५४ दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ५४ दशकुमारचरितम् । [ पूर्वपीठिकायां (३) 'भूदेव, एतत्कटकाधिपती राजा कस्य देशस्य, किं नामधेयः, किमत्रागमनकारणमस्य' इति पृष्टोऽभाषत महीसुरः- 'सौम्य, मत्तकालो नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरु- णीरत्नमसमानलावण्यं श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौ- त्सीत् । वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् । तरु- णीलाभहृष्टचेता लाटपतिः 'परिणेया निजपुर एव' इति निश्चित्य गच्छ- न्निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यावासमकारयत् । (४) कन्यामारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधन- श्रतुरङ्गबलसमन्वितोऽन्यत्र रचितशिविरस्तं निजनाथावमानखिन्नमान- (३) एतस्य पुरतो वर्त्तमानस्य कटकस्य सन्यस्याधिपतिः स्वामी । किन्नाम- धेयः किमाख्यकः किं नामधेयं यस्येति विग्रहः । महीसुरो भूसुरः । लाटेश्वरः लाट- देशाधिपतिः । असमानं अद्वितीयं लावण्यं सौन्दर्यं यस्य तत् । श्रावंध्रावं पुनः पुनः श्रुत्वा । अवधूता तिरस्कृता न स्वीकृतेति यावत्, दुहितुः कन्याया वामलोचनाया इति यावत् प्रार्थना लाटेश्वरकृता याच्ञा येन तस्य । तस्य वीरकेतोः । अरौत्सीत् रुद्धवान् । उपायनमुपढौकनम् । अदात् प्रददौ । तरुण्याः कन्याया लाभेन प्राप्त्या हृष्टं सन्तुष्टं चेतश्चित्तं यस्य सः । परिणेया विवाहा । निजपुरे स्वनगरे । मृगयाद- रेण मृगयाभिलाषेण । (४) कन्यैव सारो धनं यस्य तेन वीरकेतुनेत्यर्थः । नियुक्तः प्रेरितः । मान एव धनं यस्य सः अभिमानीत्यर्थः । चतुरङ्गं हस्त्यश्वरथपदातिरूप बलं सैन्यं तेन (३) मैने पूछा- हे विप्रवर ! इस सेनाका राजा कौन है और उसका क्या नाम है ? और यह राजा सेनासहित क्यों इस स्थान पर आया है ? ऐसा पूछनेपर उत्तर देते हुए उसने कहा-हे सौम्य ! लाट देशके स्वामी मत्तकालने इस देशके अधिपति वीरकेतुकी तनया, जो अपनी सुन्दरतामें अद्वितीया है तथा नारियोंमें मणिके समान है, के साथ विवाह करने की अभिलाषा प्रकट की परन्तु, वीरकेतुने उसकी इच्छाको विफल कर दिया- वामलोचना कन्या देनेसे इनकार कर दिया। तब क्रोध करके मत्तकालने इसका राज्य घेर लिया। इस पर वीरकेतु अतिभयान्वित हो गया और विशाल भेंटमें अपनी पुत्री वामलोचना उसे समर्पित कर दी। उक्त तरुणीकी प्राप्तिपर प्रसन्नचित्त मत्तकालने यह विचार किया कि इसके साथ विवाह संस्कार अपने राज्यमें जाकर कर लेंगे-और वह वहाँसे चल पड़ा। अपने राज्यको जाते हुए शिकार खेलनेकी इच्छासे उसने मार्गमें पड़ाव डाल दिया । (४) इधर वीरकेतुके आदेशसे मानपाल नामक मन्त्रीने भी चतुरंगिणी सेनाके साथ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५५ षोऽन्तर्बिभेद' इति । (५) विप्रोऽसौ बहुतनयो विद्वान्निर्धनः स्थविरश्च दानयोग्य इति तस्मै करुणापूर्णमना रत्नमदाम् । परमाह्लादविकसिताननोऽभिहितानेका- शीः कुत्रचिदग्रजन्मा जगाम । अध्वश्रमखिन्नेन मया तत्र निरवेशि नि- द्रासुखम् । तदनु पश्चान्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नित- गात्रोऽनेकैर्नैस्त्रिंशिकानुयातोऽभ्येत्य माम् 'असौ दस्युः' इत्यदर्शयत् । (६) परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भ- यरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारम् 'एते तव सखायः'
समन्वितो युक्तः । रचितशिविरः कृतसैन्यावासः । तं मत्तकालम् । निजनाथस्य स्व- स्वामिनोऽवमानेन परिभवेन खिन्नं विषण्णं मानसं मनो यस्य सः । अन्तर्बिभेद प्रकृत्यमात्यादीनां भेदं चकार । (५) दानयोग्यो दानपात्रम् । करुणापूर्णमनाः सदयचित्तोऽहं सोमदत्त इत्य- र्थः । परमेणोत्कृष्टेनाह्लादेनानन्देन विकसितं प्रफुल्लमाननं मुखं यस्य सः । अभि- हिता उक्ता दत्ता इति यावत् । अनेका असंख्येया आशिष आशीर्वादा येन सः । कुत्र- चिदनिर्दिष्टे स्थाने । अग्रजन्मा ब्राह्मणः । अध्वनि मार्गे यः श्रमः परिश्रमस्तेन खिन्नः तेन । निरवेशि उपभुक्तम् । तदनु तदनन्तरम् । पश्चात् पृष्ठदेशे निगडितं बद्धं बाहु- युगलं हस्तद्वयं यस्य सः । कशाघातेन वेत्रप्रहारेण चिह्नितं गात्रं शरीरं यस्य सः । अनेकैर्बहुभिर्नैस्त्रिंशिकैरखधारिपुरुषैरनुयातोऽनुसृतः । दस्युश्चौरः । (६) परित्यक्तो मुक्तो भूसुरो ब्राह्मणो यैस्ते । रत्नावाप्तिप्रकारं मम रत्नलाभ- वृत्तान्तम् । भयरहितं निर्भयम् । गाढं नियम्य दृढं बद्ध्वा । एते कारागारस्थिताः
पड़ाव डाल रखा है और अपने स्वामीके अनादरसे खिन्नचित्त होकर उनमें बुद्धिभेद करा दिया है । (५) इस वृत्तान्तको श्रवणकर मैने सोचा कि यह ब्राह्मण विद्वान् है, वृद्ध है और निर्धन तथा बहुकुटुम्बी भी है अतः दानके देने योग्य है- ऐसा सोचकर मैने वह रत्न दयावश उसे दानमें दे दिया । रत्नकी प्राप्तिपर उसे बड़ा हर्ष हुआ और वह अनेक आशीर्वाद देता हुआ वहाँसे चला गया । अध्वपरिश्रमसे क्लान्त होकर मैं भी वहाँ सो गया । थोड़ी देरमें वह ब्राह्मण दोनों हाथ निगडित होकर कई सिपाहियोंके साथ मेरे पास आया । मैंने देखा कि उसके शरीरपर चाबुकोंकी मारके निशान भी पड़े हैं। मुझे संकेत कर उसने कहा- यही चोर हैं । (६) उन राजपुरुषोंने इस बातको श्रवणकर उस ब्राह्मणको छोड़ दिया और मुझे रस्सियोंसे कसकर बाँध दिया । रत्नप्राप्तिका सारा वृत्तान्त मैंने उनसे कह सुनाया । परन्तु
५६ दशकुमारचरितम् । [ पूर्वपीठिकायां
५६ दशकुमारचरितम् । [ पूर्वपीठिकायां इति निगदितान्कांश्चिन्निदिष्टवन्तो मामपि निगदितचरणयुगलमकार्षुः । किंकर्त्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया—'ननु पुरुषा वीर्यप- रुषाः, निमित्तेन केन निर्विशथ कारावासदुःखं दुस्तरम् । यूयं वयस्या इति निर्दिष्टमेतैः, किमिदम्' इति । (७) तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्या- ख्याय चोरवीराः पुनरवोचन्—'महाभाग ! वीरकेतुमन्त्रिणो मानपालस्य किङ्करा वयम् । तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरुङ्गाद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम । अपरेद्युश्च पदान्वेपिणो राजानुचरा बहवोऽभ्येत्य धृतधनचयानस्मान्परितः इत्यर्थः । सखायः सुहृदः । निगदितान् संयमितान् शृङ्खलाबद्धान् इति यावत् । निर्दिष्टवन्तो दर्शयन्तः । निगदितं बद्धं चरणयुगलं पादद्वयं यस्य तम् । किं कर्तव्यं यस्य तस्य भावः किंकर्त्तव्यता तस्यां मूढो मन्दस्तेन, अधुना किं कार्यमित्यजानते- त्यर्थः । निर्नास्ति आशा यस्य तस्य यः क्लेशः खेदस्तस्यानुभवो यस्मिन् तथा- भूतेन । नन्विति सम्बोधने । वीर्येण पराक्रमेण परुषाः कठोराः । निर्विशथ अनु- भवथ । दुस्तरमपारम् । वयस्याः सुहृदः । निर्दिष्टं कथितम् । एतै राजभटैः । (७) तथाविधं तथाकारं निगदितचरणमित्यर्थः । व्याख्याय मम पुरत उक्त्वा । किंकराः सेवकाः । तदाज्ञया वीरकेतोरादेशेन । सुरुङ्गाद्वारेण बिलमार्गेण । तदागारं तस्य लाटपतेरगारम् , गृहम् । राजाभावेन राज्ञोऽनुपस्थित्या । विषण्णाः दुःखिताः । आहृत्यादाय । अपरेद्युः अन्यस्मिन् दिने तत्परदिवस इत्यर्थः । पदान्वेषिणः चरण- चिह्नमनुसरन्तः । अभ्येत्य अस्मत्समीपमागत्य । धृतो रक्षितो धनानां रत्नानां चयो उन्होंने मेरे कथनपर कुछ भी ध्यान नहीं दिया और कारागारमें लाकर मुझसे कहा-'देखो ये सब तुम्हारे मित्र हैं' तथा जो चोर वहाँ पूर्वसे कैद थे उनको दिखाकर मुझे भी-मेरे दोनों पैरोंको-निगडित कर दिया । किंकर्त्तव्यविमूढ होकर तथा उस कारागारसे मुक्तिका कोई अन्य उपाय न देखकर मैंने उन बन्दियोंसे कहा— ऐ वीरो ! तुम लोग इतने बलिष्ठ होकर क्यों इस कारावासके कठिन दुःखोंको झेल रहे हो और इन राजपुरुषोंने तुम लोगोंको निर्देशित करके मुझे तुम लोगोंका मित्र कहा है, इसका क्या अभिप्राय है ? (७) मेरे प्रश्नपर तथा मुझे निगडित दशामें देखकर और मेरे द्वारा विप्रके मुखसे सुने हुए लाटपतिके वृत्तान्तको सुनकर वे चोर बोले—'हे सौम्य ! राजा वीरकेतुके मंत्री मानपालके हम लोग दास हैं । उन्हीं मंत्रीकी आज्ञासे हम लोग राजाको मारनेके लिए सुरंगके द्वारा रातमें राजाके आगारमें गये । परन्तु, राजाको न पाकर खिन्न मन होकर वहाँकी अतुल धन
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५७
परिवृत्य दृढतरं बद्ध्वा निकटमानीय समस्तवस्तुशोधनवेलायामेकस्या- नर्घ्यरत्नस्याभावेनास्मद्वधाय माणिक्यादानादस्मान्किलाश्शृङ्खलयन्'इति । (८) श्रुतरत्नग्नावलोकनस्थानोऽहम् 'इदं तदेव माणिक्यम्' इति निश्चित्य भूदेवदाननिमित्तां दुरवस्थामात्मनो जन्म नामधेयं युष्मदन्वेष- णपर्यटनप्रकारं चाभाष्य समयोचितैः संलापैर्मैत्रीमकार्षम् । ततोऽर्धरात्रे तेषां मम च शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगण- स्यायुधजालमादाय पुररक्षान्पुरतोऽभिमुखागतान पटुपराक्रमलीलयाभि- राशियैस्तान् । परितः समन्तात् परिवृत्य संवेष्ट्य । समस्त वस्तूनां सकलपदार्थानां शोधनवेलायां परीक्षणसमये अन्वेषणकाले इति यावत् । अनर्घ्यरत्नस्य महामूल्यमा- णिक्यस्य । अभावेन अप्राप्त्या । माणिक्यादानात्-माणिक्यस्य दानं यावत् । तन्मा- णिक्यं यावन्न प्रत्यर्पयिष्यामस्तावत्कालपर्यन्तम् । अशृङ्खलयन् शृङ्खलितानकुर्वन् । (८) श्रुतमधिगतं रत्नस्य माणिक्यस्य तदवलोकनस्य च स्थानं येन सः । इदं- यन्मया भूसुराय दत्तमित्यर्थः । तदेव-लाटेश्वरगृहात् चौरैरपहृतम् । भूदेवाय ब्राह्म- णाय दानं निमित्तं कारणं यस्यास्ताम् विप्रार्पणसमुद्भूतामित्यर्थः । दुरवस्थां दुर्द- शाम् । युष्माकं भवतां राजवाहनादीनामित्यर्थः अन्वेषणाय पर्यटनस्य भूभ्रमणस्य प्रकारं स्वरूपं प्रणालीमिति शेषः । समयोचितैस्तत्कालोपायैः । संलापैरालापैः । तेषां चोरवीराणाम् । निर्भिद्य भङ्क्त्वा । द्वारि तिष्ठन्ति ये ते द्वाःस्था दौवारिकाः तेषां गणः समूहस्तस्य । आयुधजालं शस्त्रसमूहम् । पुररक्षान् नगररक्षणे नियुक्तान् । पुरतः अग्रतः। अभिमुखागतान् अस्मत्सम्मुखमागतान् । पटुः समर्था या पराक्रमलीला सम्पत्ति लेकर एक महावनमें चले गये । दूसरे दिन पैरों के चिह्न से अन्वेषण करनेवाले राज- पुरुष उस महावनमें आकर और दृढ़तासे हम लोगोंको बन्दी बनाकर धनके सहित यहांपर राजाके समीप ले आये । जब चोरी गयी मणियां-वस्तुओं आदिके निरीक्षणके समय एक रत्न न मिला । वह रत्न अति मूल्यवान् था । इसपर हम लोगोंके वधकी आज्ञा हुई और बाँधकर कैदमें डाल दिया गया-जबतक वे लोग विचार न लें तबतक कैद रहेंगे फिर प्राण- दण्ड होगा ।' (८) विप्रदेवको दान देनेके कारण ऐसी मेरी दुर्दशा हुई। मैं अपने सुहृद्को खोजनेमें इस तरह वन-उपवन घूम रहा हूँ और इस दुर्गति को प्राप्त हुआ। अस्तु, उन चोरोंसे अपना नाम, वंश आदिको बतलाकर मित्रता कर ली और आधी रातमें सामयिक वार्तालाप आदि योग्य बातोंके पश्चात् उन चोरोंकी मैंने तथा अपनी उन चोरों द्वारा बेड़ियां तुड़वा डालीं । और सभी लोग एक साथ बाहर आ गये । सोते हुए द्वारपालोंके शस्त्रास्त्रोंको ले लिया। मार्ग में जाते हुए कुछ नगर-रक्षक राजपुरुष मिले उन्हें अपने पराक्रमसे पराजित करके हम लोग
५८ दशकुमारचरितम् । [ पूर्वपीठिकायां
५८ दशकुमारचरितम् । [ पूर्वपीठिकायां
द्राव्यमानपालशिविरं प्राविशम् । मानपालो निजकिङ्करेभ्यो मम कुलाभि- मानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् । ( ६ ) परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य 'मन्त्रिन्, मदीयराजमन्दिरे सुरुङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं कटकं प्रा- विशन्, तानर्पय । नो चेन्महाननर्थः भविष्यति' इति क्रूरतरं वाक्य- मब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः कः, तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यम्' इति तान्निरभर्त्सयत् । ते च मान- पालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् । कुपितोऽपि लाटपतिर्दो- र्वीर्यगर्बेणाल्पसैनिकसमेतो योद्धुमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी मानपालः संनद्धयोधो युद्धकामो भूत्वा निःशंकं निरगात् । अहमपि सबहु-
तया । निजपराक्रमेणेत्यर्थः । अभिद्राव्य दूरमपवाह्य प्रपलाय्येति यावत् । तत्का- लीनं तस्मिन् काले कारागृहान्निर्गमनसमये भवं जातम् । आर्चयत् सत्कृतवान् । ( ९ ) परेद्युः तत्परदिने । कटकं सैन्यमण्डलम् । अनर्थः अहितम् । रोषेण क्रोधेन अरुणिते रक्ते नेत्रे नयने यस्य सः । तेन सहेति शेषः । वराकस्य निकृष्टस्य । निर- भर्त्सयत् अतर्जयत् । विप्रलापं विकृतवचनम् । तथैव यथाश्रुतं तथैव । दोर्वीर्यस्य भुजविक्रमस्य गर्वेणाहङ्कारेण पूर्वमेव प्रागेव कृतो रणस्य युद्धस्य निश्चयो निर्णयो येन सः । युद्धमवश्यम्भावीति प्रागेव निर्द्धारितमित्यर्थः । संनद्धा युद्धाय सज्जिता योधा भटा यस्य सः । सबहुमानं सादरं क्रियाविशेषणमेतत् । बहुलैरसंख्यैः
मानपालके शिविर में जा पहुँचे । मानपालने अपने भृत्यों द्वारा मेरे कुल तथा मेरी कीर्ति और वीरगाथाकी प्रसिद्धि तथा उस समयके किये पराक्रमको मुग्धतापूर्वक सुना और हम लोगोंका अति आदर-सत्कार किया । ( ९ ) तदनन्तर दूसरे दिन मत्तकाल द्वारा प्रेषित सेवकों ने मानपाल मन्त्रीके समीप आकर कहा—'हे मन्त्रिन् ! मेरे राज-मन्दिर में सुरंग द्वारा प्रविष्ट होकर बहुत माल-असबाबको लेकर चोरवीरोंने तुम्हारे शिविर में प्रवेश किया है उन्हें तुम मुझे सौंप दो अन्यथा महान् अनर्थ होगा।' ऐसे कटु वाक्योंको सुनकर क्रोधसे रक्तवर्ण आँखें किये हुए मानपालने कहा- 'अरे, कौन लाटपति, मैंने उससे मित्रता कब की ? उस अधमकी दासतासे मुझे क्या लाभ ? उपर्युक्तरीत्या राजपुरुषोंकी खूब भर्त्सना मानपालने की । उन राजसेवकोंने मत्तपालसे आकर ज्योंका त्यों सभी बातें कह दीं । यह सुनकर लाटपति अपने भुजबलके अखर्व गर्वसे क्रोधान्ध हो गया । अपने साथ थोड़ासा सैन्य लेकर मानपालसे युद्ध करने चला आया । पहलेसे ही युद्धके लिए उद्युक्त मानी मानपाल भी निःशंक होकर युद्धार्थ शिविरसे निकल पड़ा । मैं भी
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५६ मानं मन्त्रिदत्तानि बहुलतुरंगमोपेतं चतुरसारथि रथं च दृढतरं कवचं- मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं रणसमुचितान्यायुधानि गृ- हीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं मन्त्रिणमन्वगाम् । परस्परमत्सरेण तुमुलसंगरकरमुभयसैन्यमतिक्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरम् । (१०) ततोऽतियरतुरंगं मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेतत्- दीयरथोऽहमरातेः शिरःकर्तनमकार्षम् । तस्मिन्पतिते तदवशिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय परमानन्दसम्भृतो मन्त्री तुरङ्गमैरश्वैरुपेतं युक्तम् । चतुरो दक्षः सारथिर्यस्य तम् । रथमित्यस्य विशेषणम् , कवचं वर्म्म तूणीरद्वयं इषुधियुग्मम् । रणसमुचितानि युद्धयोग्यानि । मदीयबलस्य विश्वासेन सकलरिपुसैन्यविनाशे सर्वथा समर्थोऽहमिति निर्णीयत्यर्थः । रिपूणां शत्रू- णामुद्धरणे समुच्छेदे उद्युक्तं प्रवृत्तम् । मन्त्रिणं मानपालम् । परस्परमत्सरेण अन्यो- न्यद्वेषेण । तुमुलसंगरकरं संकुलयुद्धकारि अतिक्रम्य लङ्घयित्वा । समुल्लसतोः आज्ञ- मानयोः बाह्वोराटोपेन गर्वेण तदङ्गे तेषां शत्रुसैन्यानां शरीरे । (१०) अतित्वराः अतिवेगवन्तस्तुरङ्गमा अश्वा यस्मिन् तम् । मद्रथमित्यस्य विशेषणम् । तस्य लाटपतेः निकटं समीपम् । शीघ्रलङ्घनेन सत्वराक्रमणेन उपेतः प्राप्तस्तदीयो लाटपतेरित्यर्थः, रथो येन सः तादृशोऽहम् । अरातेः शत्रोः लाटपते- रित्यर्थः । शिरःकर्तनं मस्तकच्छेदकम् । तस्मिन् लाटेश्वरे । पतिते मृते इत्यर्थः । तस्य लाटेश्वरस्य अवशिष्टेषु सैनिकेषु युद्धानन्तरं स्थितेषु बलेषु । नानाविधं बहु- प्रकारं हयगजादिवस्तुजातं गजाश्वादिवस्तुसमूहम् । आदाय गृहीत्वा मदर्थमुपायनी- अत्यन्त आदर तथा आग्रहके साथ भेंट किये हुए घोड़ोंसे खींचे जानेवाले रथपर जिसका सारथी भी प्रवीण था, दृढ़तर कवच और अपने योग्य धनुष तथा नाना प्रकारके शस्त्राद्यु- धोंसे सुसज्जित एवं अनेक तरहके बाणोंसे भरे हुए दो तरकस तथा समरके योग्य जिरह- बख्तर धारण करके मन्त्रीके साथ-साथ युद्धस्थलमें आ पहुँचा । मन्त्रीको मेरे पराक्रमपर पूर्ण विश्वास था, वह समझता था कि मैं शत्रुदलको पराजित करनेमें तथा उन्हें उखाड़ फेंकनेमें पूर्ण दक्ष हूं । परस्पर क्रोध होनेसे घमासान युद्ध करनेकी लालसासे परिपूर्ण दोनों सेना- ओंका अतिक्रमण करके मैं अपने बाहुदण्डके पराक्रमके आटोपसे शत्रुओंके ऊपर बाणोंकी वृष्टि करने लगा । (१०) इसके बादमें बड़े वेगवाले अश्वोंसे सयुक्त अपने रथको शीघ्रही मत्तकालके रथके समीप ले आया । वह रथको लेकर भाग ही रहा था कि मैंने उसका शिर काट डाला । Nepal Sanskrit University, Balmeeki Campus, Kathmandu
६० दशकुमारचरितम् । [ पूर्वपीठिकायां
६० दशकुमारचरितम् । [ पूर्वपीठिकायां ममानेकविधां संभावनामकार्षीत् । (१०) मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमार्कण्य संतु- ष्टमना राजाभ्युद्गतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्य- बान्धवानुमत्या शुभदिने निजतनयां मह्यमदात् । ततो यौवराज्याभिषि- क्तोऽहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह नानाविधं सौख्यमनुभवन्भवद्विरहवेदनाशक्यसुलभवैकल्यहृदयः सिद्धादेशेन सुहृज्ज- नावलोकनफलं प्रदेशं महाकालनिवासिनः परमेश्वरस्याराधनायाद्य पत्नी- समेतः समागतोऽस्मि । भक्तवत्सलस्य गौरीपतेः कारुण्येन त्वत्पदार- विन्दसंदर्शनानन्दसंदोहो मया लब्धः' इति ॥ कत्तुमित्याशयः । परमानन्देन संभृतः पूर्णः । संभावनां सत्कारम् । (११) संतुष्टं मनो यस्य सः प्रीतचित्तः । राजा वीरकेतुः । अभ्युद्गतः सम्मा- नार्थमागतः । विस्मयमानः आश्चर्यमनुभवन् । निजतनयां बालचन्द्रिकाम् । युवा चासौ राजा चेति युवराजः तस्य भावो यौवराज्यं तस्मिन् अभिषिक्तो नियुक्तः । आराधितं सन्तोपितं महीपालस्य राज्ञः चित्तं मनो येन सः । भवतस्तव राजवाहन- स्येत्यर्थः । विरहवेदना विच्छेदव्यथैव शल्यं शङ्कुस्तेन सुलभं अनायासप्राप्यं वैकल्यं विह्वलता हृदये यस्य सः । भवद्विरहदुःखाकुलचेता इत्यर्थः । सिद्धादेशेन सिद्धादेश- वशात् । सुहृज्जनस्य मित्रस्यावलोकनं दर्शनमेव फलं प्रयोजनं यत्र तम्-प्रदेशविशे- पेणमेतत् । अस्मिन् प्रदेशे त्वत्प्रार्थितं मित्रदर्शनं भविष्यतीति सिद्धेनादिष्टम् । महा- कालो नामोजयिन्यां प्रसिद्धं महादेवस्थानम् । अराधनायार्चनाय । भक्तेषु सेवकेषु वत्सलो दयालुः तस्य । तव पदारविन्दयोश्चरणकमलयोः सन्दर्शनेन अवलोकनेन य आनन्दो हर्षस्तस्य । सन्दोहोऽतिशयः । उसके गिरते उसके शेष योधा भाग गये । तब रिपुके अनेक तरहके हाथी-घोड़े-रथादि शस्त्रास्त्रोंको लेकर मैं मन्त्रीके समीप उपस्थित हुआ । जिसे देखकर परमानन्दित मानपाल ने मेरा अतीव आदर-सत्कार किया । (११) तदनन्तर मानपाल द्वारा प्रेषित सेवकोंसे मत्तकालका वध और मेरा वृत्त श्रवणकर राजा वीरकेतु अति प्रमुदित हुआ । मेरे पराक्रमको जानकर आश्चर्यान्वित होकर तथा अपने मन्त्रियों और वन्धु-बान्धवोंसे राय करके शुभ दिवसमें सविधि अपनी पुत्रीका परिणय मेरे साथ कर दिया । और कुछ दिनों पश्चात् यौवराज्यपर मुझे विभूषितकर दिया । मैं भी अपनी सेवाओंसे राजाको प्रसन्न रखता हुआ प्रतिदिन इन वामलोचनाके साथ आनन्दो- पभोग करने लगा । परन्तु आपकी विरहजनित वेदनासे विकलचित्त होकर मैं, अपनी पत्नीके साथ, एक सिद्धपुरुषके आदेशसे, महाकालनिवासी परमेश्वरके आराधनार्थ इस स्थानमें आया
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६१ ( १२ ) तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैवमुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास । तस्मिन्नवसरे पुरतः पुष्पोद्भवं विलोक्य ससंभ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्जलिममुं गाढमालिङ्ग्यानन्दबाष्पसंकुलसंफुल्ललोचनः 'सौम्य सोमदत्त, अयं स पुष्पोद्भवः' इति तस्मै तं दर्शयामास । ( १३ ) तौ च चिरविरहदुःखं विसृज्यान्योन्यालिङ्गनसुखमन्वभूताम् । ततस्तस्यैव महीरुहस्य छायायामुपविश्य राजा सादरहासमभाषत— 'वयस्य, भूसुरकार्यं करिष्णुरहं मित्रगणो विदितार्थः सर्वथान्तरायं करि- ष्यतीति निद्रितान्भवतः परित्यज्य निरगाम् । तदनु प्रबुद्धो वयस्यवर्गः कि- ( १२ ) अभिनन्दितः प्रशंसितः पराक्रमः सोमदत्तस्य विक्रमो येन सः । तस्य सोमदत्तस्य निरपराधदण्डे अपराधाभावेऽपि प्राप्ते दण्डविषये । दैवमदृष्टम् उपालभ्य विनिन्द्य । तस्मै सोमदत्ताय । ससम्भ्रमं सचकितम् । निजस्य स्वस्य निटिलतटे भालस्थले स्पृष्टाः संसक्ताश्चरणाङ्गुलयो राजवाहनस्येति शेषः येन तम् । उदञ्जलिं कृताञ्जलिम् । अमुं पुष्पोद्भवम् । आनन्दबाष्पेण हर्षजनिताश्रुणा संकुले व्याप्ते संफुल्ले विकसिते लोचने नेत्रे यस्य सः तस्मै सोमदत्ताय । तं पुष्पोद्भवम् । ( १३ ) तौ सोमदत्तपुष्पोद्भवौ । चिरविरहदुःखं दीर्घकालादर्शनजनितक्लेशम् । तस्यैव पूर्ववर्णितस्य । सादरो हासो यस्मिन् तत् क्रियाविशेषणमिदम् आदरेण स्मितेत्यर्थः । भूसुरकार्यं विप्रकृत्यम् । मित्रगणः यूयमित्यर्थः । विदितार्थः अवगत- हूँ। यहां भक्तवत्सल गौरीपति विश्वनाथके प्रसादसे आज मैं आपके इन पदारविन्दोंके दर्शन पा रहा हूं। ( १२ ) उसके मुखसे यह सब वृत्तान्त श्रवणकर कुमार राजवाहनने उसके (सोमदत्तके) पराक्रमकी अति प्रशंसा की और निरपराधीको दण्ड देनेके निमित्त दैवको उपालम्भ दिया तथा क्रमशः अपना चरित कह सुनाया । उसी अवसरपर बड़े हर्षके साथ अपना शिर झुकाये हुए तथा राजवाहनके चरणकी अङ्गुलिपर अपना मस्तक स्पर्शित किये हुए पुष्पोद्भवको अपने समीप खड़े देखा । राजवाहनने शीघ्र उठकर उसे कंठसे लगाया और आनन्दाश्रु भरे नयनोंसे देखते हुए उससे कहा—हे सौम्य, देखो, यह पुष्पोद्भव भी आ पहुँचा । ऐसा कहकर सोमदत्तको दिखाया । ( १३ ) उन दोनोंने भी परस्पर आलिंगनकर अतिकालसे प्राप्त वियोग व्यथाको त्यागकर सुख प्राप्त किया । तदनन्तर उसी सघन वृक्षकी छायामें बैठकर राजाने बड़े आदर के साथ प्रफुल्लचित्त होकर कहा-'हे मित्र ! हे सखे ! जब मैं उस विप्रका कार्य करनेके लिये जानेको सोचने लगा तब मैंने यह भी सोचा कि यदि आप लोगोंसे ( मित्रोंसे ) कहूँगा तो आप लोग अवश्य Nepal Sanskrit University, Balmeeki Campus, Kathmandu
६२ दशकुमारचरितम्। [ पूर्वपीठिकायां
६२ दशकुमारचरितम्। [ पूर्वपीठिकायां मिति निश्चित्य मदनवेषणाय कुत्र गतवान् । भवानेकाकी कुत्र गतः' इति । सोऽपि ललाटतटचुम्बदञ्जलिपुटः सविनयमल्पत् । इति श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम तृतीय उच्छ्वासः । चतुर्थोच्छ्वासः (१) 'देव, महीसुरोपकारायैव देवो गतवानिति निश्चित्यापि देवेन गन्तव्यं देशं निर्णेतुमशक्नुवानो मित्रगणः परस्परं वियुज्य दिक्षु देवम- न्वेष्टुमगच्छत् । विषयः । अन्तरायं विघ्नम् । प्रबुद्धो जागरितः । भवान् पुष्पोद्भव इत्यर्थः । ललाट- तटं चुम्बद् अञ्जलिपुटं यस्य सः शिरसि अञ्जलिं बद्ध्वेत्यर्थः । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्याया दशकुमारचरितव्याख्यायां तृतीय उच्छ्वासः । ( १ ) महीसुरोपकारायैव ब्राह्मणस्य साहाय्यं कर्तुमेव । देवो भवान् राजवाहन इत्यर्थः । निश्चित्यापि निर्णीयापि । देवेन भवता। निर्णेतुमवधारयितुम् । वियुज्य पृथग्भूय । दिक्षु विभिन्नदेशेषु । बाधक होंगे और इसी कारण आप लोगोंको सोते छोड़कर मै उस विप्रके साथ चला गया । उस ब्राह्मणके साथ चले जानेपर आप लोग जब जगे और मुझे न पाया तब क्या निश्चय किया और कहां-कहां आप लोग गये और आप अकेले कहां गये सो सब कहें । यह सुनकर विनयपूर्वक श्रद्धाञ्जलि होकर तथा हाथोंको अपने शिरपर लगाकर वह पुष्पोद्भव कहने लगा । इस प्रकार से तृतीय उच्छ्वासकी बालकीड़ा हिन्दी टीका समाप्त हुई । ( १ ) हे देव ! आप ब्राह्मणके ही उपकारार्थ गये होंगे। यह निश्चय होनेपर भी हम लोग यह न ज्ञात कर सके कि आप किस देशमें गये हैं। और जब यह अनिश्चित ही रहा तब हम लोग परस्पर संकेतस्थलका (पुनः आकर मिलनेके स्थानका) निश्चय करके आपके अन्वेषणार्थ अलग-अलग देशोंमें गये ।
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६३ ( २ ) अहमपि देवस्यान्वेषणाय महीमटन्कदाचिदम्बरमध्यगतस्या- म्बरमणेः किरणमसहिष्णुरेकस्य गिरितटमहीरुहस्य प्रच्छायशीतले तले क्षणमुपाविशम् । मम पुरोभागे दिनमध्यसंकुचितसर्वावयवां कूर्माकृतिं मानुषच्छायां निरीक्ष्योन्मुखो गगनतलान्महारयेण पतन्तं पुरुषं कंचिदन्त- राल एव दयोपनतहृदयोऽहमवलम्ब्य शनैरवनितले निक्षिप्य दूरापातवी- तसंज्ञं तं शिशिरोपचारेण विबोध्य शोकातिरेकेणोद्गतबाष्पलोचनं तं भृगु- पतनकारणमपृच्छम् । ( ३ ) सोऽपि कररुहैरश्रुकणानपनयन्नभाषत-‘सौम्य; मगधाधिना- ( २ ) अहम् पुष्पोद्भवः । महीमटन् भुवं भ्रमन् । अम्बरमध्यगतस्य आकाशम- ध्यमारूढस्य अम्बरमणेः सूर्यस्य । किरणं तापम् । पुरोभागे सम्मुखे । दिनस्य दिव- सस्य मध्ये मध्यभागे मध्याह्न इत्यर्थः । संकुचिताः संक्षिप्ताः सर्वे निखिला अवयवा अङ्गानि यस्यास्ताम् । मध्याह्ने सूर्यस्योपरिस्थितिः छायासंकोचश्च प्रसिद्ध एव कूर्माकृतिं कच्छपाकाराम् । उन्मुख ऊर्ध्वमुखः अहमिति शेषः । महारयेण अति- वेगेन । अन्तराले मध्ये भूमिपतनात्पूर्वमेवेत्यर्थः । दयया करुणया उपनतं नम्रं हृदयं चित्तं यस्य सः अवलम्ब्य गृहीत्वा । निक्षिप्य संस्थाप्य । दूराद् दूरदेशादा- पातः पतनं तेन वीताऽपगता संज्ञा चेतना यस्य तम् । तं पतन्तं पुरुषम् । शिशिरो- पचारेण जलसेकादिना । विबोध्य प्रकृतिस्थं कृत्वा । शोकातिरेकेण दुःखातिशयेन । उद्गतं निर्गतं बाष्पमश्रु याभ्यां तादृशी लोचने यस्य तम् । भृगोः प्रपातात् पतनस्य कारणं हेतुम् । प्रपातस्त्वतटो भृगुरित्यमरः । प्रच्छधातोर्द्विकर्मकत्वात्कर्मद्वयम् । ( ३ ) सोऽपि पुरुषोऽपि । कररुहैर्नखैरङ्गुलिभिरिति भावः । अश्रुकणान् नेत्रजल- ( २ ) भ्रमण करते हुए पृथिवीपर घूमते-घूमते एक दिन सूर्यके प्रखर तेजसे व्याकुल होकर एक पर्वतके किनारे एक सघन छायावाले तरुके नीचे एक क्षण विश्रामार्थ बैठ गया । उस छायामें बैठते ही क्षण भरमें कुछ आहट मालूम पड़ा और सामने मध्याह्नके होनेके कारण संकुचित सर्वावयव कछुएके समान एक पुरुषाकृति दिखाई दी । मैने ऊपरकी ओर मुँह करके देखा तो ज्ञात हुआ कि कोई पुरुष आकाशकी ओरसे गिरकर नीचे आ रहा है । यह देखकर मेरे अन्तःकरणमें दया आ गयी । और मैने उसे बीचमें ही रोककर नीचे उतार दिया । पृथिवीतलपर धीरेसे रखकर शीतोपचारसे उसे प्रबुद्ध किया-क्योंकि वह मूच्छित हो गया था । अति शोकके कारण उसकी आँखोंसे आँसू बह रहे थे । मैने उससे पहाड़परसे कूदनेका कारण पूछा- ( ३ ) वह अपने हाथोंसे आँसुओंको पोछकर कहने लगा-हे सौम्य ! मै मगधदेशाधि-
६४ दशकुमारचरितम् । [ पूर्वपीठिकायां
६४ दशकुमारचरितम् । [ पूर्वपीठिकायां थामात्यस्य पद्मद्भवस्यात्मसंभवो रत्नोद्भवो नामाहम् । वाणिज्यरूपेण कालयवनद्वीपमुपेत्य कामपि वणिक्कन्यकां परिणीय तथा सह प्रत्यागच्छ- न्नम्बुधौ तीरस्यानातिदूर एव प्रवहणस्य भग्नतया सर्वेषु निमग्नेषु कथंक- थमपि दैवानुकूल्येन तीरभूमिमभिगम्य निजाङ्गनावियोगदुःखार्णव प्लव- मानः कस्यापि सिद्धतापसस्यादेशादरेण षोडश हायनानि कथञ्चिन्नीत्वा दुःखस्य पारं अनवेक्षमाणः गिरिपतनमकार्षम्' इति । (४) तस्मिन्नेवावसरे किमपि नारीकूजितमश्रावि—'न खलु समु- चितमिदं यत्सिद्धादिष्टे पतितनयमिलने विरहमसहिष्णुवैधानं वि- बिन्दून् । अपनयन् दूरीकुर्वन् । सौम्य सुन्दर ! मगधाधिनाथामात्यस्य राजहंसम- न्त्रिणः । आत्मसम्भवः तनयः । वाणिज्यरूपेण वाणिज्याभिलाषेण । परिणीय विवाह्य । प्रत्यागच्छन् तस्माद्वीपान्निवर्तमानः । अम्बुधौ समुद्रे । अनति- दूरे समीपे प्रवहणस्य पोतस्य नौकाया इति यावत् । सर्वेषु पोतस्थितेषु निखिलज- नेषु निमग्नेषु सागरे इति शेषः । कथंकथमपि अतिकष्टेन । दैवानुकूल्येन भागधे- यसाहाय्येन । अभिगम्य प्राप्य । निजायाः स्वीकायाया अङ्गनायाः पत्न्या यद्वियोग- दुःखं विनाशक्लेशः स एवार्णवः सागरस्तस्मिन् । प्लवमानः सन्तरन् । आदेशाद- रेण वचनविश्वासेन । हायनानि वत्सराम् । कथञ्चित् महता कष्टेन । नीत्वा याप- यित्वा । दुःखस्य पारं दुर्दशाशेषम् । अनवेक्ष्यमाणोऽपश्यन् । (४) अवसरे समये । नारीकूजितं स्त्रीक्रन्दितम् । अश्रावि श्रुतं मयेति शेषः । समुचितं युक्तम् । सिद्धादिष्टे सिद्धकथिते । पत्युः स्वामिनस्तनयस्य पुत्रस्य च मिलने सम्मेलने । षोडशवर्षानन्तरं ते पतिपुत्रसमागमो भविष्यतीति सिद्धेन कथिते सती- पतिके अमात्य पद्मोद्भवका पुत्र हूँ, मेरा नाम रत्नोद्भव है । व्यापारके सिलसिलेमें मैं काल- यवन द्वीपमें गया था । वहाँ एक वणिक्सुताके साथ मेरा परिणय हुआ । उसे साथ लेकर नावद्वारा मैं अपने देश आ रहा था । थोड़ी दूर आगे आनेपर समुद्रमें मेरी नाव एक प्रस्तरसे टकराकर टूट गयी । तथा सभी उसपर आरूढ़ यात्री जलमग्न हो गये । दैववश मैं बहता हुआ तीरभूमिपर आ लगा । फिर अपनी पत्नीकी विरहरूपी व्यथाके समुद्रमें बहता एक तपस्वीके पास गया । उसके आश्वासन दिलानेपर कि सोलह वर्षमें तुम्हारी पत्नी मिलेगी—१६ वर्ष बिताये, परन्तु अब भी उसके न मिलनेसे निराश होकर दुःखका अन्त करनेके लिये पर्वतसे कूद पड़ा । (४) उसी क्षण एक तरफसे रोते हुए यह शब्द सुनाई पड़ा—'हे बाले ! जब एक तपस्वीने बता दिया है कि तुम्हारे पति और पुत्र दोनों १६ वर्षमें मिल जायेंगे तो फिर क्यों
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६५ शसि' इति । (५) तन्निशम्य मनोविदितजनकभावं तमवादिषम्—'तात, भवते विज्ञापनीयानि बहूनि सन्ति । भवतु । पश्चादखिलमाख्यातव्यम् । अधुना नारीकूजितमनुपेक्षणीयं मया । क्षणमात्रमत्र भवता स्थीयताम्' इति (६) तदनु सोऽहं त्वरया किंचिदन्तरमगमम् । तत्र पुरतो भयङ्कर- ज्वालाकुलहुतभुगवगाहनसाहसिकां मुकुलिताञ्जलिपुटां बनितां कांचिदव- लोक्य ससंभ्रममनलादपनीय कूजन्त्या वृद्धया सह मत्पितुरभ्यर्णमभिग- मय्य स्थविरामवोचम्—'वृद्धे, भवत्यौ कुत्रत्ये । कान्तारे निमित्तेन केन त्त्वर्थः । असहिष्णुः सोढुमशक्नुवन् । वैश्वानरमग्निम् । विशसि त्वमिति अनुचित- मिदमिति कयाचिदुच्यते । (५) मनसा चित्तेन ममेति शेषः विदितो ज्ञातो जनकभावो मत्पितृत्वं यस्य तम् अयमेव मे पितेति मया निश्चयविषयीकृतमिति भावः । तं पुरुषम् । अवादिषम् उक्तवानहमिति शेषः । भवते तुभ्यम् । विज्ञापनीयानि अवश्यवक्तव्यानि । पश्चात् नारीकूजितश्रवणानन्तरम् । अखिलं सर्वम् आख्यातव्यं कथनीयं मयेति शेषः । अनुपेक्षणीयं उपेक्षितुमनुचितम् । (६) तदनु तदनन्तरम् । सोऽहं तथाविध एव । त्वरया वेगेन । अन्तरं दूरम् पुरतोऽग्रतः भयंकरज्वालाभिः भीषणशिखाभिराकुले व्याप्ते हुतभुजि वह्नौ अवगाहने प्रवेशे साहसिकां कृतोत्साहाम्–अनलम्प्रवेष्टुमुद्यतामित्यर्थः । मुकुलिताञ्जलिपुटां बद्धाञ्जलिम् । ससम्भ्रमं सत्वरम् । अनलाद् अग्नेः । अपनीय दूरीकृत्य । कूजन्त्या क्रन्दन्त्या । अभ्यर्णं समीपम् । अभिगमय्य प्रापय्य । अभिपूर्वकंगमेर्णिजन्ताल्ल्यप् । स्थविरां वृद्धाम् । भवत्यौ त्वमेषा च । कुत्रत्ये कस्मात् । स्थानादागते । निमित्तेन वियोगजनित कष्टको सहनेमें असमर्थ होकर प्राणोंको अग्निमें कूदकर छोड़ना चाहती हो, यह बात सर्वथा अनुचित है । (५) यह वार्ता श्रवणकर मेरे मनमें आया कि ये मेरे पिता हैं और मैने उनसे कहा-‘हे तात ! मुझे आपसे अभी बहुत कुछ बातों करनी है । अतः आप बैठें, मैं क्षणभर भी उस नारीके रोदनकी उपेक्षा नहीं कर सकता हूँ' । (६) ऐसा कहकर मैं शीघ्र बड़े वेगसे उस ओर गया जिधरसे महिलाकी वह ध्वनि आ रही थी । वहाँपर मैंने देखा कि, एक वनिता हाथ जोड़े बैठी हुई है और उसके सम्मुख भयंकर अग्निज्वाला जल रही है तथा वह उसकी ज्वालामें कूदनेको उद्यत है । मैंने तुरत ही वहाँ पहुँचकर उसे पहले अग्निके पाससे दूर कर दिया । फिर समीपमें ही रोनेवाली एक वृद्धा ५ द० कु० पू०
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां दुरवस्थानुभूयते । कथ्यताम्' इति । (७) सा सगद्गदमवादीत्—'पुत्र, कालयवनद्वीपे कालगुप्तनाम्नो व- णिजः कस्यचिदेषा सुता सुवृत्ता नाम रत्नोद्भवेन निजकान्तेनागच्छन्ती जलधौ मग्ने प्रवहणे निजधात्र्या मया सह फलकमेकमवलम्ब्य दैवयोगेन कूलमुपेतासन्नप्रसवसमया कस्याञ्चिदटव्यामात्मजमसूत । मम तु मन्दभा- ग्यतया बाले वनमातङ्गेन गृहीते मद्द्वितीया परिभ्रमन्ती 'षोडशवर्षानन्तरं भर्तृपुत्रसङ्गमो भविष्यति' इति सिद्धवाक्यविश्वासादेकस्मिन्पुण्याश्रमे तावन्तं समयं नीत्वा शोकमपारं सोढुमक्षमा समुज्ज्वलिते वैश्वानरे शरी- रमाहुतीकर्तुमुद्युक्तासीत्' इति । कारणेन । दुरवस्था एतादृशी दुर्दशा । अनुभूयते भवतीभ्यामिति शेषः । (७) सा वृद्धा। सगद्गदं बाष्परुद्धकण्ठम् । निजकान्तेन स्वभर्त्रा । फलकं काष्ठ- खण्डम् । कूलं तीरमुपेता प्राप्ता । आसन्नः प्राप्तः प्रसवसमयो यया सा । मन्दभाग्य- तया दुरदृष्टवशेन । बाले शिशौ । वनमातङ्गेन आरण्यगजेन । मद्द्वितीया अहं द्वितीया यस्याः सा मच्छरणेत्यर्थः । तावन्तं षोडशवर्षमितम् । नीत्वा यापयित्वा । अपारं अनन्तम् । अक्षमा असमर्था । समुज्ज्वलिते प्रज्वलिते । आहुतीकर्त्तुं प्रक्षेप्तुं भस्मसात्कर्तुमित्यर्थः । बैठी थी उसे और उस वनिताको लेकर अपने पिताके पास आया और पिता के सामने ही वृद्धासे उसके अग्निप्रवेशका कारण पूछा- हे वृद्धे ! तुम दोनों कौन हो तथा क्योंकर आगमें यहाँ प्रविष्ट हो रही थीं ? और तुम लोग कहाँकी निवासिनी हो । इस अरण्यमें क्यों कष्ट सह रही हो ? (७) वह वृद्धा गद्गद स्वरमें बोली-'हे पुत्र ! कालयवनद्वीपमें कालगुप्त नामक एक वणिक् रहता था। उसकी सुवृत्ता नामक यह कन्या है । यह कन्या अपने पति रत्नोद्भवके साथ नावपर आ रही थी। दैववश नाव, बीच समुद्रमें, टूटकर डूब गयी । धात्रीभावसे नियुक्त मैं और यह कन्या एक काठके सहारे समुद्रतटपर आ लगीं । यह आसन्नप्रसवा थी । अतः इसने पास ही के विपिनमें एक पुत्र उत्पन्न किया । दुर्भाग्यसे एक जंगली हाथी उस बालकको उठा ले गया । मेरे साथ विलपती हुई यह एक तपस्वीके समीप गयी । उनके उप- देशपूर्ण कथनपर कि १६ वर्षमें तुम्हारे पति-पुत्र मिल जायेंगे यह कन्या मेरे साथ एक पवित्र आश्रममें निवासकर जीवन-यापन करने लगी । परन्तु १६ वर्ष होनेपर भी जब इसे पति- पुत्र न मिले तो यह अपार शोक-सागर पार करनेमें ,चिन्तित हो गयी और इस जलती हुई आगमें प्रवेश करनेके लिए तैयार हो गयी ।
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६७
( ८ ) तदाकर्ण्य निजजननीं ज्ञात्वा तामहं दण्डवत्प्रणम्य तस्यै मदुदन्तमखिलमाख्याय धात्रीभाषणफुल्लवदनं विस्मयविकसिताक्षं जन- कमदर्शयम् । पितरौ तौ साभिज्ञानमन्योन्यं ज्ञात्वा मुदितान्तरात्मानौ विनीतं मामानन्दाश्रुवर्षेणाभिषिच्य गाढमाश्लिष्य शिरस्युपाघ्राय कस्यां- चिन्महीरुहच्छायायामुपाविशताम् । ( ६ ) 'कथं निवसति महीवल्लभो राजहंसः' इति जनकेन पृष्टोऽहं तस्य राज्यच्युतिं त्वदीयजननं सकलकुमारावाप्तिं तव दिग्विजययारम्भं भ- वतो मातङ्गानुयानमस्माकं युष्मदन्वेषणकारणं सकलमभ्यधाम् । ततस्तौ कस्यचिदाश्रमे मुनेरस्थापयम् । ततो देवस्यान्वेषणपरायणोऽहमखिलका- ( ८ ) निजजननीं ज्ञात्वा इयमेव मे मातेति निश्चित्य तस्यै मात्रे मदुदन्तं मद्वृत्तान्तम् । धात्र्या वृद्धायाः भाषणेन वचनश्रवणेन फुल्लं हर्षविकसितं वदन- माननं यस्य तम् । विस्मयेन आश्चर्य्यरसेन विकसिते उत्फुल्ले अक्षिणी नेत्रे यस्य तम् । अदर्शयं दर्शितवानहमिति शेषः । माता च पिता चेति पितरौ । साभिज्ञानं परस्परपरिचयसूचकचिह्नेन । मुदितो हृष्टोऽन्तरात्मा ययोस्तौ । विनीतं प्रश्रयावन- तम् । आनन्दाश्रुवर्षेण हर्षजनितनेत्रजलवर्षणेन । गाढं दृढम् । आश्लिष्य आलिङ्ग्य । शिरसि मस्तके । उपाघ्राय घ्राणं कृत्वा । महीरुहच्छायायां वृक्षच्छायायाम् । उपा- विशताम् उपविष्टौ ताविति शेषः । ( ९ ) कथं केन प्रकारेण महीवल्लभो राजा । तस्य राजहंसस्य । राज्यच्युतिं राज्यभ्रंशं । त्वदीयजननं स्वकीयोत्पत्तिम् । मातङ्गानुयानं तदाख्यब्राह्मणस्यानुसर- णम् । अभ्यधाम् अकथयम् । तौ मातापितरौ । देवस्य भवतः । अखिलानि सम्पू- र्णानि कार्याणि तेषां निमित्तं साधनम् । वित्तं धनम् । साधकत्वस्य सिद्धादेशक- ( ८ ) इन बातोंको सुनकर मैने समझ लिया कि यह महिला मेरी मां है । अतः मैने उसे प्रणाम किया और अपनी पूरी कथा कह सुनायी । फिर धात्रीकी वार्ता सुनकर प्रफुल्लित मुखवाले और विस्मयसे प्रफुल्ल नयनोंवाले अपने पिता को उनके दर्शन कराये । पुनः माता- पिताने परस्पर अपने परिज्ञानोंसे अन्योन्यको समझ लिया और प्रसन्न होकर उन दोनोंने मुझे अपने हृदयमें लगा लिया तथा अश्रुओंसे मुझे भिगोकर विनीतभावसे मेरा माथा सूंघा तथा पासके एक वृक्षकी छायामें हम लोग बैठे । ( ९ ) पिताजीके यह पूछनेपर कि, महाराज राजहंसका क्या समाचार है ? मैंने उनके राज्यच्युतिका, आपके जन्मका, सब कुमारोंके सम्मेलनका, आपके दिग्विजयके लिए प्रस्थानका, आपके मातंगके निमित्त पातालप्रवेशका और आपके अन्वेषणार्थ हम लोगोंके
६८ दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ६८ दशकुमारचरितम् । [ पूर्वपीठिकायां र्यनिमित्तं वित्तं निश्चित्य भवदनुग्रहाल्लब्धस्य साधकत्वस्य साहाय्यकरण दक्षं शिष्यगणं निष्पाद्य विन्ध्यवनमध्ये पुरातनपत्तनस्थानान्युपेत्य विवि- धनिधिसूचकानां महीरुहाणामधोनिक्षिप्तान्वसुपूर्णान्कलशान् सिद्धाञ्जनेन ज्ञात्वा रक्षिषु परितः स्थितेषु खननसाधनैरुत्पाद्य दीनारानसंख्यान् राशी- कृत्य तत्कालागतमनतिदूरे निवेशितं वणिक्कटकं कश्चिदभ्येत्य तत्र बलिनो बलीवर्दन् गोणीश्च क्रीत्वान्यद्रव्यमिषेण वसु तद्रोणीसंचितं तैरूह्यमानं शनैः कटकमनयम् । ( १० ) तदधिकारिणा चन्द्रपालेन केनचिद्वणिकपुत्रेण विरचितसौ- खस्य । साहाय्यकरणे दक्षं निपुणम् । निष्पाद्य एकीकृत्य । पुरातनपत्तनस्थानानि प्राचीननगरभूमीः । विविधनिधिसूचकानां नानारत्नकुम्भस्थितिनिर्देशकानां महीरु हाणां वृक्षाणाम् । वसुपूर्णान् धनपूरितान् । सिद्धाञ्जनेन नयनदत्तकज्जलेन । रक्षिषु रक्षापुरुषेषु । परितः समन्तात् स्थितेषु वर्त्तमानेषु । खननसाधनैः खनित्रादिखननो- पायैः । उत्पाद्य भूमिमध्यादुत्थाप्य । दीनारान् स्वर्णमुद्रादीन् तत्कालगत्तं तस्मिन् समये तत्रोपस्थितम् । अनतिदूरे निकटे निवेशितं स्थापितम् । वणिक्कटकं वणिक्शि- विरम् । अभ्येत्य गत्वा । बलिनो बलवतः पुष्टानित्यर्थः । बलीवर्दन् वृषभान् गोणीः धान्यादिवहनार्थाधारविशेषान् । अन्यद्रव्यमिषेण द्रव्यान्तरच्छलेन । तैः बलीवर्दैः शनैर्मन्दं मन्दं क्रमशः इति भावः । ( १० ) तदधिकारिणा कटकस्वामिना । विरचितं कृतं सौहृदं मैत्री येन सः । जानेका समस्त वृत्त कह सुनाया । तब मैने उन दोनोंको एक मुनिकी कुटीमें ले जाकर स्थित कर दिया । फिर मैं आपकी खोजमें निकला। मैंने एक दिन विचार किया कि सभी कार्य धनसे साधे जाते हैं। आपकी दयासे उसी क्षण मुझे धन-प्राप्तिकी साधनाका एक उपाय प्राप्त हो गया। और मैंने कुछ दक्ष शिष्योंको धनलब्धकर्त्तव्यमे समर्थ किया तथा विन्ध्याचलके एक प्राचीन नगरके भग्नावशेष स्थलमें जा पहुँचा। सिद्धाञ्जनसे मैंने नाना प्रकारके कोषोंकी सूचना देनेवाले वृक्षोंके नीचे स्थापित पृथ्वीके भीतरके घड़ोंको ज्ञात कर लिया। मैंने उन वृक्षोंके चारों ओर रक्षकोंको खड़ा कर दिया और कुदारी आदिसे पृथ्वी खुदवाकर अगणित मुद्राएँ एकत्र की। तत्पश्चात् तत्काल आए हुए वणिक्-समुदायसे पूरित पास हीके स्थलमें पहुँचा। उन लोगोंसे मैंने अति बलिष्ठ कुछ बैल तथा गाड़ियां खरीदीं और अन्नादिके ढोने का बहाना करके उन गाड़ियोंपर सुवर्ण लादकर धीरे-धीरे उस स्थानपर आ पहुंचा। (१०) फिर बनियोंके अधिपति चन्द्रपाल नामक वणिक् पुत्रसे मित्रता करके उसीके Nepal Sanskrit University, Balmeeki Campus, Kathmandu
चतुर्थोच्छ्वासः ] व्याख्योपेतम् । ६६ हृदोऽहममुनैव साकमुज्जयिनीमुपाविशम् । मत्पितरावपि तां पुरीमभिग- मय्य सकलगुणनिलयेन बन्धुपालनाम्ना चन्द्रपालजनकेन नीयमानो माल- वनाथदर्शनं विधाय तदनुमत्या गूढवसतितमकरवम् । ततः काननभूमिषु भवन्तमन्वेष्टुमुद्युक्तं मां परममित्रं बन्धुपालो निशम्यावदत्–'सकलं धर- णितलमपारमन्वेष्टुमक्षमो भवान्मनोग्लानिं विहाय तूष्णीं तिष्ठतु । भव- न्नायकालोकनकारणं शुभशकुनं निरीक्ष्य कथयिष्यामि इति । (११) तल्लपितामृताश्वासितहृदयोऽहमनुदिनं तदुपकण्ठवर्ती कदा- चिदिन्दुमुखीं नवयौवनावलीढावयवां नयनचन्द्रिकां बालचन्द्रिकां नाम तरुणीरत्नं वणिङ्मन्दिरलक्ष्मीं मूर्तामिवावलोक्य तदीयलावण्यावधूतधी-
अमुना चन्द्रपालेन । उपाविशं न्यवसम् । मत्पितरौ मदीयां जननी जनकञ्च । तां पुरीमुज्जयिनीम् । अभिगमय्य प्रापय्य । सकलानां सर्वेषां गुणानां शौर्यदाक्षिण्या- दीनां निलय आधारस्तेन । मालवनाथदर्शनं उज्जयिनीपतिसन्दर्शनम् । तदनुम- त्या तस्य मालवनाथस्यानुमत्याऽऽज्ञया । गूढवसतिं गुप्तवासम् । अपारमनन्तम् । अक्षमोऽसमर्थः । मनोग्लानिं निर्वेदम् । भवतस्तव नायकस्य प्रभोरालोकनस्य दर्श- नस्य कारणं निमित्तम् । शुभशकुनं मङ्गलचिह्नम् । (११) तस्य बन्धुपालस्य लपितं भाषितमेवामृतं तेन । आश्वासितं निर्वृतं हृद् स्वान्तं यस्य सः । अहं पुष्पोद्भवः । तस्य बन्धुपालस्य उपकण्ठवर्त्ती समीपवर्त्ती । नवयौवनेन अवलीढा व्याप्ता अवयवा अङ्गानि यस्यास्ताम् । नयनयोर्नेत्रयोःचन्द्रिका ज्योत्स्नारूपिणी ताम् । मूर्ता मूर्त्तिमतीम् । तदीयेन बालचन्द्रिकासम्बन्धिना लाव- ण्येन सौन्दर्येण अवधूतस्तिरस्कृतो धीरभावो धैर्यं यस्य सः । लतान्ता कुसुमानि बाणाः शरा यस्य सः काम इत्यर्थः तस्य बाणलक्ष्यतां शरण्यत्वम् अयासिषमग-
साथ साथ उज्जैन चला गया। कुछ काल के अनन्तर मैं अपने माता पिता को भी वहीं ले आया। सकलगुणनिधान चन्द्रपालके पिता बन्धुपालके साथ मालवेशका दर्शन किया तथा उनकी आज्ञा से उनकी भूमिपर प्रच्छन्नवेश से निवास करने लगा। एकदा वन में आपको खोजते हुए ज्ञातकर मेरे परम मित्र बन्धुपालने कहा-यह भूमंडल अति विशाल है, इसका अन्वेषण करना सर्वथा असम्भव है। अतः आप शान्ति धरकर चुप बैठें। शुभ समय आने पर मैं शुभ शकुन बता दूँगा। तब आप अन्वेषण करें तो सफल होंगे। (११) उसके उन सुधामय वचनोंको सुनकर मेरा चित्त कुछ शान्त हुआ तथा मैं प्रति दिन उसके पास जाने लगा। एक दिन मैंने साक्षात् लक्ष्मीस्वरूपा एक सुन्दरीको जो गृहके समीप रहती थी, देखा। वह अति मनोशा थी। उसके मुखकी शोभा चन्द्रमाके समान थी।
७० दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
७० दशकुमारचरितम् । [ पूर्वपीठिकायां रभावो लतान्तबाणबाणलक्ष्यतामयासिषम् । ( १२ ) चकितबालकुरङ्गलोचना सापि कुसुमसायकसायकायमानेन कटाक्षवीक्षणेन मामसकृन्निरीक्ष्य मन्दमारुतान्दोलिता लतेवाकम्पत । मन- साभिमुखैः समाकुञ्चितै रागलज्जान्तरालवर्तिभिः साङ्गवर्तिभीरीक्षणविशे- षैर्निजमनोवृत्तिमकथयत् । ( १३ ) चतुरगूढचेष्टाभिरस्या मनोऽनुरागं सम्यग्ज्ञात्वा सुखसंगमोपा- यमचिन्तयम् । अन्यदा बन्धुपालः शकुनैर्भवद्गतिं प्रेक्षिष्यमाणः पुरोपान्त- सम् । तदीयलावण्यदर्शनात्कामबाणविद्धोऽहमभवमिति तात्पर्यम् । ( १२ ) चकितस्य भीतस्य बालकुरङ्गस्य चपलमृगस्य लोचने नयने इव लोचने यस्याः सा । चञ्चलनयनेत्यर्थः । सापि बालचन्द्रिकापि । कुसुमसायकस्य कामस्य सायकः इवाचरतीति तेन-कामबाणसदृशेनेत्यर्थः । असकृद् वारं वारम् । मन्द- मारुतेन धीरसमीरेण आन्दोलिता कम्पिता। मनसा हृदयेन । अभिमुखैः मय्यर्पितः । समाकुञ्चितैर्लज्जया खर्वीकृतैः असमग्रपातिभिरिति भावः । रागोऽनुरागः लज्जा त्रपा तयोरन्तराले मध्ये वर्त्तन्ते ये तैः- अनुरागव्यञ्जकैरपि सलज्जैरित्यर्थः । अङ्ग- भङ्गया सह वर्त्तमानैः साङ्गभङ्गिभिः एतानि ईक्षणविशेषैरित्यस्य विशेषणानि । ईक्षणविशेषैः कटाक्षैरिति भावः । निजमनोवृत्तिं स्वमनोव्यापारं-अभिलाषमिति यावत् । अकथयत् प्राकाशयत् । ( १३ ) चतुराः पेशला गूढा गुप्ताश्च याश्चेष्टाः कटाक्षादयस्ताभिः । अस्या बाल- चन्द्रिकायाः । सुखेनानयासेन यः सङ्गमो मिलनं तस्योपायं साधनम् । अन्यदा अन्यस्मिन् समये । शकुनैः निमित्तैः सामुद्रिकादिशास्त्रप्रदर्शितैश्चिह्नविशेषैः । भव- द्गतिं भवतो राजवाहनस्येत्यर्थः । गतिं प्रचारप्रकारम् । प्रेक्षिष्यमाणः द्रक्ष्यन् । पुरस्य उसका सारा अंग नवीन यौवन से भरा था । उसकी आंखोंमें तेज था । उसकी सुन्दरता देखकर मेरा मन लुभा गया; धैर्य छूट गया और मैं कामवाणों का लक्ष्य हो गया । उसका नाम बालचन्द्रिका था । ( १२ ) वह चञ्चल बालकुरङ्गलोचना तरुणी थी । कामदेव के पुष्पवाणों के सदृश अपने अपाङ्गों से मुझे बार बार देखती हुई मन्द मन्द पवन से कम्पित लताके समान कांपने लगी । प्रेम और लज्जा के मध्य में रहनेवाले प्रत्यक्ष हाव-भावों तथा विचित्र रीति के भावों को दिखा-दिखाकर उसने भी मुझसे अपनी मनोव्यथा प्रकट कर दी । ( १३ ) मैं अपनी चतुरता तथा गुप्त चेष्टाओं द्वारा उस तरुणी के हार्दिक अनुरागको अच्छी तरह जान गया । उसके साथ समागमका यत्न सोचने लगा । दूसरे दिन मेरा मित्र बन्धुपाल
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७१ विहारवनं मया सहोपेत्य कस्मिंश्चिन्महीरुहे शकुन्तवचनानि शृण्वन्न- तिष्ठत् । ( १४ ) अहमुत्कलिकाविनोदपरायणो वनान्तरे परिभ्रमन्त्सरोवरतीरे चिन्ताक्रान्तचित्तां दीनवदनां मन्मनोरथैकभूमिं बालचन्द्रिकां व्यलोकयम् । ( १५ ) तस्याः ससंभ्रमप्रेम लज्जाकौतुकमनोरमं लीलाविलोकनसुख- मन्भवन्सुदत्या वदनारविन्दे विषण्णभावं मदनकदनखेदानुभूतं ज्ञात्वा तन्निमित्तं ज्ञास्यँल्लीलया तदुपकण्ठमुपेत्यावोचम्—'सुमुखि, तव मुखार- विन्दस्य दैन्यकारणं कथय' इति । नगरस्योपान्ते समीपे विहारवनं क्रीडोद्यानम् । शकुन्तानां पक्षिणां वचनानि पर- स्परभाषितानि । 'शकुन्तपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । ( १४ ) उत्कलिकाया उत्कण्ठायाः विनोदेऽपनोदने परायणस्तत्परः । वनान्तरे अन्यवने । चिन्तया ध्यानेन आक्रान्तं पर्याकुलं चित्तं हृदयं यस्यास्ताम् । दीनवदनां विषण्णाननाम् । मम मनोरथस्याभिलाषस्यैकभूमिं प्रधानाश्रयभूताम् । यामहं निरन्तरमभिलषामीति भावः । ( १५ ) सम्भ्रमेण त्वरया सह वर्त्तमानानि ससम्भ्रमाणि—प्रेमा अनुरागश्च लज्जा त्रपा च कौतुकमौत्सुक्यं चेति द्वन्द्वः । ससम्भ्रमाणि च तानीति कर्मधारयः तर्मनोरमं मनोहरम् । लीलया विलासेन यद्विलोकनमवलोकनं तेन यत्सुखमानन्द- स्तत् । सुदत्याः शोभना दन्ता यस्याः सा सुदती तस्याः । मदनस्य कामस्य कदनखेदेन पीडनायासेन अनुभूतं विषण्णभावमित्यस्य विशेषणम्-अस्या विषण्ण- भावो नान्यनिमित्तकः किन्तु कामजनितपीडाहेतुक एवेति भावः । तस्य विषण्ण- भावस्य निमित्तं कारणम् । बालचन्द्रिकाया उपकण्ठं समीपम् । नगरके बाहर एक उद्यानमें आपके अन्वेषणके लिए शुभ शकुन बताने आया । समीपमें ही एक वृक्षपर पक्षियोंके कलरवको सुनकर बैठ गया । ( १४ ) मैं अपनी बालचन्द्रिकाकी प्राप्तिकी उत्कण्ठाके विनोदाथं दूसरे उपवनके सन्निकट एक तालावके किनारे जा पहुँचा । वहाँ चिन्तितचित्त, म्लानमुख तथा एकमात्र मेरी प्राप्तिकी इच्छासे बैठी हुई एकान्तमें वालचन्द्रिका दिखायी पड़ी । ( १५ ) उस मनोहर दाँतोंवाली तरुणीकी घबराहट और प्रीति एवं लज्जायुक्त भावोंसे सुन्दर मुखके अवलोकनजन्य आनन्दको लूटता हुआ उसके विनोदयुक्त भाव तथा कामदेव की पीडामे व्यथित उसे ज्ञातकर उसकी उद्विग्नताका हेतु जाननेके विचारसे मैं उसके पास गया और मैने पूछा-सुमुखि ! आपके मुखकमलपर उदासो क्यों है इसका कारण मुझसे कहो—
७२ दशकुमारचरितम् । [ पूर्वपीठिकायां
७२ दशकुमारचरितम् । [ पूर्वपीठिकायां ( १६ ) सा रहस्यसंजातविश्रम्भतया विहाय लज्जाभये शनैरभा- षत—'सौम्य, मानसारो मालवाधीश्वरो वार्धकस्य प्रबलतया निजनन्दनं दर्पसारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागरपर्यन्तं महीमण्डलं पालयिष्यन्निज पैतृष्वस्रेयावुद्दण्डकर्माणौ चण्डवर्मदारुवर्माणौ धरणीभरणे नियुज्य तपश्चरणाय राजराजगिरिमभ्यगात् । ( १७ ) राज्यं सर्वमसपत्नं शासति चण्डवर्मणि दारुवर्मा मातुला- ग्रजन्मनोः शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादिदुष्कर्म कुर्वाणो मन्मथसमानस्य भवतो लावण्यात्तचित्तां मामेकदा विलोक्य कन्यादूषण- दोषं दूरीकृत्य बलात्कारेण रन्तुमुद्युङ्क्ते । तच्चिन्तया दैन्यमगच्छम्' इति । ( १६ ) रहस्ये गोप्यविषये संजात उत्पन्नो विश्रम्भो विश्वासो यस्यास्तस्या भावस्तया । वार्धकस्य वृद्धावस्थायाः जराया इति यावत् । प्रबलतया आधिक्येन । सप्त सागराः समुद्राः पर्यन्तः सीमान्तो यस्य तत् । महीमण्डलमित्यस्य विशेषणम् । निजपैतृष्वस्रेयौ-पितृस्वसुरपत्यं पुमानिति पैतृष्वस्रेयः, पितृभगिन्यास्तनयस्तौ । धरणीभरणे राज्यपालने । तपश्चरणाय तपस्यां कर्तुम् । राजराजगिरिं कैलासपर्वतं । राजराजः कुबेरस्तस्य गिरिः कैलासः । राजराजो धनाधिपः' इत्यमरः । ( १७ ) असपत्नं निःशत्रुम् निष्कण्टकमिति यावत् । शासति पालयति सति । मातुलाग्रजन्मनोः दर्पसारचण्डवर्मणोः अतिक्रम्योल्लङ्घ्य । पारदार्यं परदाराभिमर्शः परद्रव्यापहरणं चौर्यं ते आदी यस्य तत् । मन्मथसमानस्य कामसदृशस्य । लाव- ण्येन सौन्दर्येणात्तं गृहीतं चित्तं हृदयं यस्यास्ताम् । कन्याया अपरिणीतायाः दूषणं घर्षणादि तदेव दोषस्तम् । दूरीकृत्य परिहृत्य । उद्युङ्क्ते चेष्टते । ( १६ ) निर्जन प्रदेश होनेसे उसे अवसर प्राप्त हो गया और उसने लज्जा एवं भय छोड़कर धीरे-धीरे कहा—हे सौम्य ! मालवनाथ वृद्ध होनेके कारण राजपाटके कार्योंमें असमर्थ हो गये थे और इन्होंने राज्यसिंहासनपर अपने पुत्र दर्पसारको उज्जैनमें राज्याभि- षेक करके आसीन कर दिया । कुमार दर्पसार इस सप्त-सागरा वसुन्धरापर शासनके विचार से अपने पिताकी बहन के दो धृष्ट पुत्रों ( चण्डवर्मा और दारुवर्मा ) को राज्य-शासन का भार सौंपकर कैलास पर्वतपर तप करने चला गया है । (१७) शत्रुहीन समस्त राज्यका शासन करते हुए चण्डवर्मा सुखसे रहने लगा। दारुवर्मा ममेरे भाई तथा अपने बड़े भाईकी आज्ञाओंका उल्लंघन करके परस्त्री अपहरण तथा परद्र- व्याहरण करता हुआ उपद्रव मचाने लगा । कामदेवके समान सुन्दर आपपर अनुरक्ता मुझे ज्ञातकर वह एक दिन मेरे साथ बलात्कार करनेका यत्न करने लगा-कन्यारमणके पापका उसे ध्यानतक नहीं है । वह इस भयंकर पापको करनेपर उतारू होकर व्यभिचार करना चाहता है । उसी चिन्तासे मैं त्रस्त हूँ ।
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७३ ( १८ ) तस्या मनोगतम्, रागोद्रेकं मन्मनोरथसिद्धयन्तरायं च निश- म्य बाष्पपूर्णलोचनां तामाश्वास्य दारुवर्मणो मरणोपायं च विचार्य वल्लभा- मवोचम्-'तरुणि, भवदभिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपायः कश्चि- न्मया चिन्त्यते । यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति । तदाकार- संपदाशाभृङ्खलितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं निर्जित्य तया एकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय कुशली निर्गमिष्यति, तेन चक्रवाकसंशायाकारपयोधरा विवाहनीयेति सिद्धेनैके- नावादीति पुरजनस्य पुरतो भवदीयैः सत्यवाक्यैर्जनैरसकृत्कथनीयम् ।
( १८ ) तस्या बालचन्द्रिकायाः । मनोगतं अभिलाषम्। रागोद्रेकमनुरागातिरे- कम् । मम मनोरथस्य सिद्धेरन्तरायं विघ्नंसर्वमेतन्निशम्येत्यस्य कर्म । बाष्पेति-साश्रु- नयनामित्यर्थः । आश्वास्य सान्त्वयित्वा । वल्लभां प्रियां बालचन्द्रिकामिति यावत् । भवत्यास्तव अभिलाषिणमाकाङ्क्षिणम् । दुष्टंहृदयं यस्य तं दुर्जनमित्यर्थः। एनं दारुवर्माणम् । मृदुः कोमलः । अधिष्ठाय आविश्य आक्रम्येत्यर्थः । तदाकारेति तस्या बालचन्द्रिकायाः आकारसम्पदः सुन्दराकृतेराशया शृङ्खलितं बद्धं हृदयं यस्य सः । तद्रूपाकृष्टचित्त इत्यर्थः । सम्बन्धयोग्यः अनुरूपः । साहसिकः साहसं कर्तुं समर्थः । रतिमन्दिरे सुरतगृहे । निर्जित्य विजित्य । एकया एकमात्रया सख्या सहचर्या समे- तया युक्तया । संलापामृतसुखं आलापजनितानन्दम् । कुशली अक्षतशरीरः । तेन तादृशेन पुरुषेण । चक्रवाकस्य संशयः सन्देहो यस्मिन् तादृश आकारः स्वरूपं ययो- स्तादृशौ पयोधरौ कुचौ यस्याः सा । विवाहनीया परिणेया । इति इत्थम् । पुरज- नस्य पुरतः-नागरिकान् प्रति । भवदीयैः भवत्पक्षीयैः । सत्यवाक्यैः प्रामाणिकैः ।
( १८ ) उस अंगनाके मनोगत भावोंको जानकर तथा अपने ऊपर उसका प्रगाढ़ानुराग ज्ञातकर एवं अपने मनोरथमें दारुवर्माको विघ्नभूत जानकर मैंने उस दारुवर्माको मार डालने- की युक्ति सोची और अपनी वल्लभाको आश्वासन देकर कहा—हे तरुणि ! तुम्हें बलात् चाहने वाले उस दुष्ट दारुवर्माकी हत्याके लिए मैं कोई सरल उपाय सोच रहा हूं । अब तुम आज जाकर लोगोंसे यह कह दो कि मुझे सिद्ध तपस्वीने बताया है कि बालचन्द्रिका के ऊपर कोई प्रेत रहता है । उसके लावण्य पर मुग्ध होकर जो कोई साहसी पुरुष उसके साथ रमणकी इच्छा रखता हो उसे चाहिये कि वह अपनी योग्यताका परिचय उसके रतिमन्दिर में जाकर देवे । रतिमन्दिरमें प्रेतको जीतकर तथा सखीके साथ बैठी हुई उस सुन्दरीके साथ वार्तालाप करके जो कुशलतासे निवृत्त होकर आवेगा उसीके साथ चक्रवाकके समान स्तन- धारिणी बालचन्द्रिकाका विवाह होगा । अनेक बार नगरमें इस बातकी प्रसिद्धि कर देनी