भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 11, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 11

[द्रव्यगुणाः। ३]

न्यसे तदपि नोपपद्यते। तेजोवाय्वाकाशानां नोरसत्वात् रसं प्रति कारणत्वानुपपत्तेः। अत्राहूः। यदि आप्य एव रसस्तथापि उत्तरोत्तरभूतेषु पूर्वपूर्वभूतगुणानुप्रवेशात् रसवत्त्वं पृथिव्यामप्यु- पपद्यते। अतएवोक्तम्। 'विष्टं ह्यपरं परेण' इति। अस्यार्थः। अपरं पूर्वं भूतं परेण भूतेनानुप्रविष्टम्। तेन शब्दगुणस्याकाशस्य वायौ अनुप्रवेशात् वायोरपि शब्दवत्त्वम्। स्पर्शगुणत्वञ्च स्वत एव। एवं वायोस्तेजसि अनुप्रवेशात् तेजः शब्दस्पर्शरूपगुणम्। तेजसोऽपि जलेऽनुप्रवेशात् जलं शब्दस्पर्शरूपरसगुणम्। एवं जलस्य च पृथिव्यामनुप्रवेशात् पृथिवी च शब्दस्पर्शरूपरसगन्ध- गुणा इति ज्ञेयम्। कतिधा पुरुषीयेऽप्युक्तम्। महाभूतानि खं वायुरग्निरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः॥ तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे। पूर्वः पूर्वगुणश्चैव क्रमशॊ गुणिषु स्मृतः॥ अस्यार्थः। तेषां खादीनां मध्ये पूर्वः खरूप एकगुणः शब्दै- कगुण इत्यर्थः। परे परे उत्तरोत्तरं गुणवृद्धिरित्यर्थः। यथा खमेकगुणं वायुर्द्विगुणः अग्निस्त्रिगुण इत्यादि। ननु गुणवृद्धिमा- त्रमित्युक्तम्। एतावता एकगुणत्वद्विगुणत्वादिनियमो न ज्ञायते को वा गुणः कुत्र भूते इत्यत आह पूर्व इत्यादि। खादिषु गुणिषु क्रमशॊ यथासंख्यं पूर्वी गुणः शब्दादिर्वर्त्तते। यथा खे शब्दः वायौ स्पर्श इत्यादि। गन्धस्तु यद्यप्युत्तरः गुणान्तराभावात् पूर्वी न भवति तथापि छत्रियो गच्छन्तीति न्यायेन अपूर्वस्यापि पूर्वत्वं समर्थनीयम्। न केवलं पूर्वी गुणो वर्त्तते किन्तु पूर्व- गुणश्च पूर्वस्य भूतस्यापि यो गुणः सोऽप्युत्तरभूते वर्त्तत इत्याह पूर्वगुणश्चेति। तेन वायौ स्पर्शो नैसर्गिकः पूर्वस्य आकाशस्य यो गुणः शब्दः सोऽपि वायौ इति द्विगुणत्वम्। एवमग्नौ रूपं