द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 21, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १२ स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः । पाकोऽम्लः सृष्टविण्मूत्रः पित्तकृत् शुक्रनुल्लघुः ॥१० अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः । इत्यादिना उक्ता अनुसन्धेयाः । तेषामन्तेऽवसाने पुनर्जाठ- राग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक इत्यर्थः । इह केचिदाचक्षते प्रतिरसं पाकः अम्लोऽम्लस्य मधुरो मधुरस्य लवणो लवणस्य कटुकः कटुकस्य तिक्तस्तिक्तस्य कषायः कषायस्य इति षडेव विपाकाः । किमत्र प्रमाणमिति चेदुच्यते । यथा क्षीरमतिपच्यमानमपि मधुरमेव स्यात् । यथा वा शालियवादय उप्ताः प्ररूढाः फलिताश्च शाल्यादिस्वरूपा एव भवन्ति । तथा मधुरादयोऽपि निष्ठापाकेऽपि मधुरादि- स्वरूपा एव भवितुमर्हन्तीति । उक्तञ्च उप्ताः षष्टिकमाषाद्या बाह्यपकाश्च षड्रसाः । यान्ति नान्यत्वमित्येवं पाकः प्रतिरसं भवेत् ॥ इति । अन्येतु ब्रुवते रसा द्विविधा बलवन्तोऽबलवन्तश्च । बल- वत्त्वञ्च व्यक्तत्वेन मात्राबाहुल्येन वा अबलवत्त्वं पुनरेतद्विपर्य्य- येण । तत्र अल्पतया अबलवन्तो रसा बलवतां रसमायान्तीति । तेन निष्ठापाकेन बलवता रसेन दुर्बलरसाभिभवान्न रसप्रतिनिय- मेन मधुरस्य मधुर एव पाकोऽम्लस्य चाम्ल एवेत्यादि प्रतिनिय- माभावात् अनवस्थितः पाक इति । अनियतत्वपक्षेऽपि षट्क- त्वमेव कदाचित् कस्यचित् सम्भवादिति । बह्वोऽभिभवन्त्यल्पान् वह्निर्मिश्रीकृता रसाः । तेनानिश्चितमेवैके पाकमाहुर्मनीषिणः ॥ इति । अन्ये तु वातादिभ्यो दोषेभ्य एव त्रीन् पाकान् २