द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 27, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १८ शालयो मधुराः शीता लघुपाका बलप्रदाः । पित्तघ्नाल्पानिलकफाः स्निग्धबद्धाल्पवर्चसः ॥११॥ कथं प्रतिक्षेपणीयः । अथवा तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्त्तव्यम् । यतो यदम्लपाकं चरके ब्रूते तत् सुश्रुतेन वीर्य्योष्णमिति कृत्वा समाधीयते । अनेन न कश्चित् द्रव्यगुणे विरोधः । यत्तु सुश्रुते अम्लपाकनिरासार्थं दूषणमुच्यते । पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तद- नभ्युपगमादेव निरस्तमिति । विपाकगुणानाह कटुरित्यादि ॥ १० ॥ सम्प्रति द्रव्याणां गुणे वक्तव्ये द्रव्येषु चान्नस्य प्राधान्यात् अन्नेषु च शूकधान्यानां शूकधान्येषु च शालीनाम् । अतः प्रथमं तेषां सामान्यगुणानाह शालय इत्यादि । अत्र शालिशब्देन हैमन्तिकं धान्यमुच्यते । यत्तु अकण्डितशुक्लत्वेन शालित्वमुच्यते ॥ तद्ग्रैष्मिकेषु षष्टिकादिषु शारदेषु व्रीहिषु च गतत्वात् सकलशाल्यव्यापकत्वाच्च न युक्तम् । लघु शीघ्रं पाको येषां ते लघुपाका लघुगुणयोगात् शीघ्रपाका इत्यर्थः । तन्त्रान्तरे- ऽप्युक्तम् । अन्नपानविधावुक्तं यद्द्रव्ये गुरुलाघवम् । अग्निना तद्विजानीयात् पचनेन चिराचिरम् ॥ इति । न तु लघुगुणयुक्तः पाको येषामित्यर्थः । यतस्तादृशः पाकः कटुरेव भवति । तथा सति स्निग्धत्वं बलावहत्वञ्चानुप- पन्नं स्यात् । नन्वेवं बद्धाल्पवर्चस्त्वं मधुरपाके चानुपपन्नम् । यदुक्तम् । स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः । इति । नैष दोषः । शालीनां मधुरपाकित्वेऽपि बद्धाल्पवर्चस्त्वं