भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 9, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 9

द्रव्यगुणाः । प्रायः पृच्छन्ति यवेशांस्तद्द्रव्यगुणसंग्रहः । धारणस्मरणोन्मुखो यथा स्याल्लिख्यते तथा ॥ १ ॥ दशाननादितिमिरपरिभूतमिदं जगत् । प्रससाद यतस्तस्मै कस्मैचिन्महसे नमः ॥ काणादसांख्यायुर्वेदतन्त्राणां पारदृश्वनः । तातस्यानन्तसेनस्य वन्दे चरणपङ्कजम् ॥ महदादिनिकायोऽयं यस्याः प्रादुरभूत् किल । सतीं गुणमयीं भक्त्या भैरवीं जननीं भजे ॥ रचितश्चक्रदत्तेन यो द्रव्यगुणसंग्रहः । श्रीमतो शिवदासेन तस्य व्याख्याभिधीयते ॥ नोक्ताश्चक्रेण ये द्रव्यगुणा विस्तरभीरुणा । तेऽपि प्रसङ्गतो लेख्याः शिष्यव्युत्पत्तये मया ॥ अनिवद्धस्यापि इष्टदेवतानमस्कारस्य विघ्नवारणसमर्थत्वात् तन्निवन्धनं ग्रन्थगौरवमात्रमावहतीति कृतमपि नमस्कारं ग्रन्थादौ अनिवध्य शिष्यप्रवृत्त्यङ्गतया अभिधेयसम्बन्धप्रयोजना- न्येव तावदाह प्राय इत्यादि। द्रव्यगुणसंग्रह इति यद्यपि मधुरादिरसानां तथा छायातमसोश्च अद्रव्यभूतयोरपि गुणा अत्र वाच्यास्तथापि द्रव्यपदं कविषि गच्छन्तीति न्यायेन समर्थ- नीयम् । किं वा द्रव्याणि गुणाश्च द्रव्यगुणास्तेषां संग्रहः संक्षेपेण तद्धर्मप्रतिपादकं वचनम् । अस्मिन् पक्षेऽपि छायातमसोर्द्रव्यत्वं