गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
DevanagariHindipublished286 पृष्ठ
पृष्ठ 3, कुल 286 में से
संदर्भ में पढ़ेंपृष्ठ 3
भूमिका।
———܀❖܀——— गदनिग्रहकर्ताऽयं सोढलवैद्यो गुर्जरदेशनिवासी, रायेकवालब्राह्मणो नन्दनतनयः, वैद्यनन्दनपुत्रः, वत्सगोत्रोत्पन्नश्चेति तेन स्वविरचिते गुणसंग्रहापरपर्याये सोढ- लनिघण्टुनाम्नि ग्रन्थे प्रोक्तादात्मवृत्तान्तात् प्रतीयते । स चायं सोढलवैद्यः क- स्मिन् समये समजनीत्येतन्निर्णेंतुं न किंचिदपि साधनमुपलब्धमस्माभिः । सोढ- लविरचितो गदनिग्रहव्यतिरिक्तो गुणसंग्रहापरपर्यायः सोढलनिघण्टुरिति प्रसि- द्धोऽन्योऽपि ग्रन्थः समुपलभ्यते । तत्र धन्वन्तरिनिघण्टुराजनिघण्टुप्रभृतिष्वनु- क्तानां प्रायो गुर्जरदेशप्रसिद्धानामेकशतद्रव्याणां नामानि सगुणान्यधिकान्युक्तानि । यद्यपि चिकित्साविषयकाश्चक्रदत्तवङ्गसेनरत्नाकरप्रभृतयो बहवो ग्रन्था मुद्रितास्तथापि भूरिप्रयोगवत्वात्, सरलत्वाच्चायमेव सर्वानतिशेते । ग्रन्थेऽस्मिन् प्रयोग-कायचिकित्सा-शालाक्य-शल्य-भूततन्त्र-बालतन्त्र-विषतन्त्र-रसायन- वाजीकरण-पञ्चकर्माधिकाराख्या दश खण्डाः सन्ति । तत्र प्रथमे प्रयोगखण्डे घृततैलचूर्णगुटीलेहासवाख्याः षडधिकारा विद्यन्ते । तेषु षट्स्वधिकारेषु पञ्चाशी- त्यधिकपञ्चशतमिताः प्रत्यक्षफलप्रदाश्चिकित्सायां नित्योपयोगिनश्च प्रयोगरत्ना उक्ताः । अत्रोक्तप्रयोगेषु बहवः प्रयोगा मुद्रितेषु चिकित्साग्रन्थेष्वनुक्ताः । अतोऽयं खण्डो वैद्यानां चिकित्सायामतीवोपयुक्तो भविष्यतीति पृथगेवायं प्रसिद्दी- कृतः । ग्रन्थस्यास्य आदर्शपुस्तकद्वयमुपलब्धं; एकं अस्मत्परमसुहृदां स्वर्गवासिनां वैद्यमुरारजीशर्मणां,अपरं च बुन्दीनगरनिवासिनां राजवैद्यानां श्रीप्रसादशर्मणाम् । प्रथमोपलब्धपुस्तकापेक्षया द्वितीयेऽनन्तरमुपलब्धे पुस्तके यः पाठ अधिक उप- लब्धः स परिशिष्टे संनिवेशितः । घृततैलचूर्णगुटीलेहासवानां परिभाषाः सोढलेना- नुक्ता अप्यस्माभिर्ग्रन्थान्ते संनिवेशिताः । ग्रन्थस्यास्य शुद्धीकरणी यथामति कृतो यत्नः । तथापि भ्रमप्रमादादिवशाज्जातं स्खलनं क्वाप्युपलभ्येत चेत्सुधीभिः संशोधनीयं क्षन्तव्यश्चाहं, सफलीकर्तव्यश्च ममायं प्रयासो ग्रन्थस्यास्य पठन- पाठनपर्यालोचनादिनेति ॥ $\left.{l} सं. १९६८ कार्तिकशुक्ल ११. कोट होलीचकला मुंबई. \right}$ \qquad\qquad \textbf{यादवशर्मा,}
१. रायकवालब्राह्मणानां वसतिः सांप्रतं गुर्जरदेश एवोपलभ्यते । २. यथा — “वत्सगोत्रान्वयस्तत्र वैद्यनन्दननन्दनः । शिष्यः संघद्यालोश्च रायकवालवंशजः ॥ सोढलाख्यो भिषक् भानुपादपङ्कजषड्पदः । चकोरेमं चिकित्सायां समग्रं गुणसंग्र- हम्—” इति ॥