भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 136, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 136

६८ गोपथब्राह्मणे पूर्वभागे प्र० २ । क० १० ॥ उसका [ अनुभव ] ( पार्थिवः ) पृथिवी [ के विषय ] में आसक्त पुरुष ( न ) नहीं ( अश्नाति ' भोगता है ॥ कण्डिका १० ॥ विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसकोऽनू- चान आस, स ह स्वेनातिमानेन मानुषं वित्तं नेयाय, तं मातोवाच, त एवैतद- न्नमवोचंस्त इममेषु कुरुपञ्चालेषु अङ्गमगधेषु काशिकौशल्येषु शाल्वमत्स्येषु शवसोशीनरेषु उदीच्येष्वन्नमदन्तीत्यथ वयं तवैवातिमानेनानाद्यास्मो वत्स वाहनमन्विच्छेति स मान्धातुर्यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतमा- जगाम, स सदोऽनुप्रविश्यर्त्विजश्च यजमानञ्चामन्त्रयामास, तद्यथाः प्राच्यो नद्यो वहन्ति याश्च दक्षिणाच्यो याश्च प्रतीच्यो याश्च उदीच्यस्ताः सर्वाः पृथङ्नाम- धेया इत्याचक्षते, तासां समुद्रमभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्याच- क्षते, एवमिमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिष- त्काः सेतिहासाः सान्वाख्याताः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास्तेषां यज्ञमभिपद्यमानानां छिद्यते नाम- धेयं यज्ञ इत्येवाचक्षते ॥ १० ॥ कण्डिका १० ॥ काबन्धि की मान्धाता के यज्ञ में यज्ञविषयक वार्त्ता ॥ ( विचारी ह वै काबन्धिः आथर्वणस्य कबन्धस्य पुत्रः मेधावी मीमांसकः अनूचानः आस ) तत्त्व निर्णय करने वाला काबन्धि, आथर्वण [ निश्चल ब्रह्मज्ञान में श्रद्धा वाले ] कबन्ध [ ब्रह्म में संयम करने वाले ऋषि ] का पुत्र अटल बुद्धि वाला, मीमांसा शास्त्र जानने वाला, साङ्गोपाङ्ग वेद पढ़ा हुआ था । ( सः ह स्वेन अतिमानेन मानुषं वित्तं न इयाय ) उसने अपने अति घमण्ड से मनुष्य योग्य धन न पाया । ( तं माता उवाच-ते एव एतत् अन्नम् अवोचन् ) उससे माता बोली-उन्होंने ही इस अन्न के विषय में कहा है । ( ते इमम् = इदम् अन्नम् एषु कुरुपञ्चालेषु अङ्गमगधेषु काशिकौशल्येषु शाल्वमत्स्येषु शवसोशीनरेषु उदीच्येषु अदन्ति इति ) वे लोग इस अन्न को इन कुरुपञ्चालों में, अङ्गमगधों में, काशिकौशलों में शाल्वमत्स्यों में शवस उशीनरों में, उत्तरदेशवासियों में खाते हैं । ( अथ वयं तव एव अतिमानेन

१०--( विचारी ) तत्त्वनिर्णोता ( काबन्धिः ) अत इञ् ( पा० ४ । १ । ९५ ) कबन्ध-इञ् । कबन्धपुत्रः । ऋषिविशेषः ( कबन्धस्य ) के ब्रह्मणि बन्धः संयमो यस्य तस्य । ऋषिविशेषस्य ( आथर्वणस्य ) निश्चलब्रह्मज्ञाननिष्ठस्य ( मीमांसकः ) मीमांसाशास्त्रनिपुणः ( अनूचानः ) उपेयिवाननाश्वाननूचानश्च ( पा० ३ । २ । १०९ ) अनु+वच परिभाषणे-कानच् । साङ्गवेदविचक्षणः ( वित्तम् ) धनम् (इयाय) इण् गतौ-लिट् । प्राग ( उदीच्येषु ) , द्युप्रागपागुदक्प्रतीचो यत् ( पा० ४ । २ । १०१ )

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य) · पृष्ठ 136, कुल 600 में से · BharatKosha