भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 190, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 190

१५२ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० ११ ॥ कण्डिका ११ ॥ अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छेद् गोतम इति, पृच्छ प्राचीनयोग्येति । किन्देवत्यं ते गवीडायां १, किन्देवत्यमुपहूतायां २, किन्देवत्य- मुपसृष्टायां ३, किन्देवत्यं वत्समुन्नीयमानं ४, किन्देवत्यं वत्समुन्नीतम् ५, किन्दे- वत्यं दुह्यमानं ६, किन्देवत्यं दुग्धं ७, किन्देवत्यं प्रक्रम्यमाणं ८, किन्देवत्यं ह्रिय- माणं ९, किन्देवत्यमधिधिश्रियमाणं १०, किन्देवत्यमधिश्रितं ११, किन्देवत्यमभ्य- ज्वाल्यमानं १२, किन्देवत्यमभ्यवज्वालितं १३, किन्देवत्यं समुद्वान्तं १४, किन्दे- वत्यं त्रिष्यन्नं १५, किन्देवत्यमद्भिः प्रत्यनीतं १६, किन्देवत्यमुद्वास्यमानं १७, किन्देवत्यमुद्वासितं १८, किन्देवत्यमुन्नीयमानं १९, किन्देवत्यमुन्नीतम् २०, किन्दे- वत्यं प्रक्रम्यमाणं २१, किन्देवत्यं ह्रियमाणं २२, किन्देवत्यमुपसाद्यमानं २३, किन्दे- वत्यमुपसादितं २४, किन्देवत्या समित् २५, किन्देवत्यां प्रथमामाहुतिमहौषीः २६, किन्देवत्यं गार्हपत्यमवेक्षिष्ठाः २७, किन्देवत्योत्तराहुतिः २८, किन्देवत्यं हुत्वा स्रुचं त्रिरुदञ्चमुदनैषीः २९, किन्देवत्यं बर्हिषि स्रुचन्निधायोन्मृज्योत्तरतः पाणी निरमा१क्षीः ३०, किन्देवत्यं द्वितीयमुन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधामकार्षीः ३१, किन्देवत्यं प्रथमं प्राशीः ३२, किन्देवत्यं द्वितीय ३३, किन्दे- वत्यमन्ततः सर्वमेवाप्राशीः ३४, किन्देवत्यमप्रक्षालितयोदकं स्रुचा न्यनैषीः ३५, किन्देवत्यं प्रक्षालितया ३६, किन्देवत्यमपरेणाहवनीयमुदकं स्रुचा न्यनैषीः ३७, किन्देवत्यं स्रुवं स्रुवञ्च प्रत्यताप्सीः ३८, किन्देवत्यं रात्रौ स्रुग्दण्डमवा२मार्क्षीः ३९, किन्देवत्यं प्रातरुदमा३र्क्षीरित्थेत्तच्चेद्ध्वेत्थ ४०, गोतम हुतं, यदि४ न वेत्थाहतं त इति ब्राह्मणम् ॥ ११ ॥ कण्डिका ११ ॥ प्राचीनयोग्य मुनि के उद्दालक से अग्निहोत्र विषयक चालीस प्रश्न ॥ ( अथ ह प्राचीनयोग्यः आजगाम ) फिर प्राचीनयोग्य [ सनातन वेदों में समर्थ मुनि विशेष ] आया । ( अग्निहोत्रं भवन्तं पृच्छेत् गोतम इति ) [ उसने कहा ] अग्निहोत्र को आपसे यह पूंछेगा, हे गोतम ! ( पृच्छ प्राचीनयोग्य इति ) [ उद्दालक ने कहा—क० ६ ] पूंछ, हे प्राचीनयोग्य । [ प्राचीनयोग्य बोला ] ( किंदेवत्यं ते इडायां गवि १ ) तेरी इडा [ पाने योग्य ] गो [ यज्ञ के लिये दूध देने वाली कामधेनु ] में कौन देवता वाला कर्म है १, ( किंदेवत्यम् उपहूतायाम् २ ) उस बुलायी हुई में कौन देवता वाला कर्म है २, ( किंदेवत्यम् उपसृष्टायाम् ३ ) उस पास आयी हुई में कौन देवता ११—(प्राचीनयोग्यः) प्राचीनेषु सनातनेषु वेदेषु योग्यः समर्थः । मुनिविशेषः (किन्देवत्यम्) किम्+देवता—यत् । किंदेवताविषयकं कर्म (गवि) यज्ञार्थं दुग्धदात्र्यां १. पू० सं० "निर्माक्षीः" इति पाठः ॥ २. पू० सं० अवमार्क्षीः इति पाठः ॥ ३. पू० स० उन्मार्क्षीः इति पाठः ॥ ४. पू० सं० 'चेद्यद्यु न' इति पाठः । जर्मनसंस्करणे यद्यु न इति पाठः, अस्माभिः 'यदि न' संशोधितः ॥ सम्पा० ॥