गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 218, कुल 600 में से
संदर्भ में पढ़ें१८० गोपथब्राह्मणे पूर्वभागे प्र० ४ । क० २ ॥ लब्धदक्षिणेन श्री पण्डितक्षेमकरणदासत्रिवेदिना अथर्ववेदभाष्यकारेण कृते गोपथब्राह्मणभाष्ये पूर्वभागे तृतीयः प्रपाठकः समाप्तः ॥ अयं प्रपाठकः प्रयागनगरे भाद्रपदमासे कृष्णैकादश्यां तिथौ १६८० [ अशीत्यु- त्तरैकोनविंशतिशतके ] विक्रमीये संवत्सरे सुसमाप्तिमगात् । मुद्रितम्—आषाढ शुक्ला १२ संवत् १६८१ वि० ता० १३ जुलाई सन् १९२४ ई० ॥ अथ चतुर्थः प्रपाठकः कण्डिका १ ॥ ओम् अयं वै यज्ञो योऽयं पवते, तमेत १ईप्सन्ति ये संवत्सराय दीक्षन्ते । तेषां गृहपतिः प्रथमो दीक्षतेऽयं वै लोको गृहपतिरस्मिन् वा इदं सर्वं लोके प्रतिष्ठितं गृहपता उ एव सर्वे सत्रिणः प्रतिष्ठिताः प्रतिष्ठाया एवैनं तत् प्रतिष्ठित्यै दीक्षन्ते ॥ १ ॥ कण्डिका १ ॥ गृहपति की दीक्षा ॥ ( ओम् अयं वै यज्ञः यः अयं पवते ) ओं, यही यज्ञ है जो यह चलता है ( तम् एते ईप्सन्ति ये संवत्सराय दीक्षन्ते ) उस [ यज्ञ ] को वे पाना चाहते हैं जो संवत्सर के लिये दीक्षा लेते हैं । ( तेषां गृहपतिः प्रथमः दीक्षते ) उन [ लोगों ] में पहिले गृहपति दीक्षा पाता है । ( अयं वै लोकः गृहपतिः ) यही लोक संसार गृहपति है । ( अस्मिन् लोके वै इदं सर्वं प्रतिष्ठितं गृहपतौ उ एव सर्वे सत्रिणः प्रतिष्ठिताः ) इस लोक में ही सब [ सत्तामात्र ] ठहरा हुआ है, गृहपति में भी सब यज्ञ कराने वाले ठहरे हुये हैं । ( तत् प्रतिष्ठायाः एव प्रतिष्ठित्यै एनं दीक्षन्ते ) इसलिये प्रतिष्ठा [ गौरव ] के ही ठहराव के लिये [ गृहपति ] को दीक्षा देते हैं ॥ १ ॥ भावार्थः - यज्ञ में गृहपति इसलिये पहिले दीक्षा लेता है कि वह ज्येष्ठाश्रमी है— देखो मनु अ० ३ श्लो० ७५ ॥ कण्डिका २ ॥ अथ ब्रह्माणं दीक्षयति, चन्द्रमा वै ब्रह्माऽधिदैवं, मनोऽध्यात्मं, मनसैव तदोषधीः सन्दधाति, तद्या ओषधीर्वेद् स एव ब्रह्मोषधीस्तदनेन लोकेन सन्दधाति, तस्मादे- तावन्तरेणान्यो न दीक्षेत, स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकमोषधिभिर्व्यापा- दयेदुच्छ्रोषुका ह स्युस्तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ २ ॥ १--( पवते ) गतिकर्मा—निघ० २ । १४ । संचरति ( ईप्सन्ति ) प्राप्तुमिच्छन्ति ( दीक्षन्ते ) दीक्षां प्राप्नुवन्ति ( प्रतिष्ठितम् ) प्रतीत्या स्थितम् ( सत्रिणः ) याजकाः ( प्रतिष्ठायाः ) गौरवस्य ( प्रतिष्ठित्यै ) स्थिरतायै ॥ १. पू. सं. इंसंति इति पाठः ॥