गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 223, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ७ ॥ १८५ कण्डिका ७ ॥ श्रद्धाया वै देवा दीक्षणीयान्निरमिमत १, अदितेः प्रायणीयां २, सोमात् क्रयं ३, विष्णोरातिथ्यम् ४, आदित्यात् प्रवर्ग्यं ५, स्वधाया उपसदो ६, अग्नीषोमाभ्या- मौपवसथ्यमहः ७, प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकं ८, वसुभ्यः प्रातः सवनं ६, रुद्रेभ्यो माध्यन्दिनं सवनम् १०, आदित्येभ्यस्तृतीयसवनं ११, वरुणादवभृथम् १२, अदितेरुदयनीयां १३, मित्रावरुणाभ्यामनूबन्ध्यां १४, त्वष्टुस्त्वाष्ट्रं १५, देवी- भ्यो दिविकाभ्यो देवता हवींषि १६, कामाद् दशातिरात्रं १७, स्वर्गलोकादुद्व- सानीयां १८, तद्वा एतदग्निष्टोमस्य जन्म स य एवमेतदग्निष्टोमस्य जन्म वेदाग्नि- ष्टोमेन १सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥ कण्डिका ७ ॥ अग्निष्टोम, और अठारह प्रकार के यज्ञों के देवी देवता ॥ ( श्रद्धायाः वै देवाः दीक्षणीयां निरमिमत ) श्रद्धा [ ईश्वर और वेद में विश्वास ] से ही विद्वानों ने दीक्षणीया [ दीक्षा योग्य इष्टि ] को बनाया है १. ( अदितेः प्रायणी- याम् ) अदिति [ अखण्ड वेदवाणी ] से प्रायणीया [ पाने योग्य इष्टि ] को २, ( सोमात् क्रयम् ) सोम [ ऐश्वर्य ] से क्रय [ मोल लेने के यज्ञ ] को ३, ( विष्णोः आतिथ्यम् ) विष्णु [व्यापक परमेश्वर ] से आतिथ्य [ अतिथिसत्कार ] को ४, ( आदित्यात् प्रवर्ग्यम् ) सूर्य से प्रवर्ग्य [ होमाग्नि ] को ५, ( स्वधायाः उपसदः ) स्वधा [ अन्न ] से उपसद [ पास बैठने ] को ६, ( अग्नीषोमाभ्याम् औपवसथ्यम् अहः ) अग्नि और सोम [ जल ] से उपवसथ [ ग्राम ] सम्बन्ध वाले दिन [ यज्ञ ] को ७, ( प्रातर्यावद्भ्यः देवे- भ्यः प्रातरनुवाकम् ) प्रातःकाल चलने वाले देवों से प्रातरनुवाक [ यज्ञ ] को ८, ( वसु- भ्यः प्रातः सवनम् ) वसुओं [ अग्नि, पृथिवी, वायु, अन्तरिक्ष आदित्य, प्रकाश, चन्द्रमा, और नक्षत्र - ८ वसुओं ] से प्रातःसवन [ यज्ञ ] को ६, ( रुद्रेभ्यः माध्यन्दिनं सवनम् ) रुद्रों [ प्राण, अपान, व्यान, समान, उदान, नाग, कूर्म, कृकल, देवदत्त, धनंजय, इन दश प्राणों और ग्यारहवें जीवात्मा ] से माध्यन्दिन सवन को १०, ( आदित्येभ्यः तृतीय- सवनम् ) आदित्यों [ बारह महीनों ] से तृतीय सवन को ११, ( वरुणाद् अवभृथम् ) वरुण [ उत्तम जल ] से अवभृथ [ यज्ञान्त स्नान ] को १२, ( अदितेः [ = दितेः ] उदयनीयाम् ) अदिति अर्थात् दिति से [ दोषनाशक शक्ति से—यहाँ अदिति पद दिति के ७ ( दीक्षणीयाम् ) दीक्ष मौण्ड्येऽथोपनयननियमव्रत'देशेषु—अनीयर् । दीक्षायोग्यामिष्टिम् (निरमिमत ) निर्मितवन्तः ( अदितेः ) कृत्यल्युटो बहुलम् ( पा० ३ । ३ । ११३ ) दीङ् क्षये, दो अवखण्डने, दाप् लवने वा—क्तिन् । दतिस्य- तिमास्थामिति किति (पा० ७ । ४ । ४० ) इति इत्वम् । दीङ् पक्षे ह्रस्वत्वं, नञ् समासः । अदितिः पृथिवी—निघ० १ । १ । वाक्—निघ० १ । ११ । अदीना देवमाता —निरु० ४ । २२ । अदीनायाः वेदवाण्याः । ( प्रायणीयाम् ) प्रापणीयामिष्टिम् ( प्रातर्यावद्भ्यः ) आर्षो दकारः । प्रातर्याविभ्यः । प्रातर्गच्छद्भ्यः ( वसुभ्यः ) अष्टवसुभ्यः ( रुद्रेभ्यः ) एकादशप्राणेभ्यः (वरुणात् ) वरणीयात् श्रेष्ठात् जलात् १. पू. सं. 'स आत्मा' इति पाठः ॥ सम्पा० ॥