भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 231, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 231

गोपथब्राह्मणे पूर्वभागे प्र० ४। क० १० ॥ १६३ देवता भवन्ति एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति । १२ । अथ यद् दशममहरुपयन्ति संवत्सरमेव तद् देवं देवतां यजन्ते संवत्सरो देवो देवता भवति संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति । १३ । अथ यन्महाव्रतमुपयन्ति प्रजापतिमेव तद् देवं देवतां यजन्ते प्रजापतिर्देवो देवता भवति प्रजापतेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति । १४ । अथ यदुदयनीयमति- रात्रमुपयन्ति स्वर्गमेव तल्लोकं देवं देवतां यजन्ते स्वर्गो लोको देवो देवता भवति स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति । १५ । तद् वा एतत्संवत्सरस्य जन्म, स य एवमेतत्संवत्सरस्य जन्म वेदाप्नोति संवत्सरं स्वर्गे लोके प्रतिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद संवत्सरेण सात्मा सलोको भूत्वा देवाँ अप्येतीति ब्राह्मणम् ॥ १० ॥ कण्डिका १० ॥ प्रायणीय अतिरात्र आदि पन्द्रह प्रकार के यज्ञ और उनके फल और संवत्सर का जन्म ॥ ( अथ यत् प्रायणीयम् अतिरात्रम् उपयन्ति तत् अहोरात्रौ एव देवो देवते यजतः अहोरात्रौ देवो देवते भवतः अहोरात्रयो। देवयोः सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब प्रायणीय अतिरात्र [ यज्ञ क० ६ ] को स्वीकार करते हैं तब दिन और रात ही दोनों देव देवता पूजे जाते हैं, दिन और रात दोनों देव देवता [ मुख्य विषय ] होते हैं, दिन और रात दोनों देवों के सहयोग और सहवास को वे पाते हैं, जो इसको स्वीकार करते हैं । १ । ( अथ यत् चतुर्विशम् अहः उपयन्ति तत् अर्द्ध- मासान् एव देवान् देवतां यजन्ते, अर्द्धमासाः देवाः देवताः भवन्ति, अर्द्धमासानां देवानां सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब चतुर्विंश अहः [ यज्ञ ] को स्वीकार करते हैं, तब आधे-आधे महीनों देवों देवता को ही पूजते हैं, आधे-आधे महीने देव देवता होते हैं, आधे-आधे महीनों देवों के सहयोग और सहवास वे पाते हैं जो इसको स्वीकार करते हैं । २ । ( अथ यत् अभिप्लवम् उपयन्ति तत् ब्रह्माणम् एव देवं देवतां यजन्ते, ब्रह्मा देवः देवता भवति ब्रह्मणः देवस्य सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब अभिप्लव को स्वीकार करते हैं, तब ब्रह्मा ही देव देवता को पूजते हैं, ब्रह्मा देव देवता होता है, ब्रह्मा देव का सहयोग और सहवास वे पाते हैं जो इसे स्वीकार करते हैं । ३ । ( अथ यत् पृष्ठ्यम् उपयन्ति तत् क्षत्रम् एव देवं देवतां यजन्ते क्षत्रं देवः देवता भवति, क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब पृष्ठ्य यज्ञ को स्वीकार करते हैं, तब क्षत्रिय ही देव देवता को पूजते हैं, क्षत्रिय देव देवता होता है, क्षत्रिय देव का सहयोग और सहवास वे पाते हैं जो इसे स्वीकार करते हैं । ४ । ( अथ यत् अभिजितम् उपयन्ति तत् अग्निम् एव देवं देवतां यजन्ते अग्निः देवः देवता भवति अग्नेः देवस्य सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब अभिजित् यज्ञ को स्वीकार करते हैं, तब अग्नि ही देव देवता को पूजते हैं, अग्नि देव १०—( यजतः ) पूज्येते । अन्यद् व्याख्यातम् क० ८, ६. ।। १३