भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 255, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 255

गोपथब्राह्मणे पूर्वभागे प्र० ५ । क० ४ ॥ २१७ और अभिप्लव कह दिये हैं । ( यो अर्वाञ्चौ प्राणौ तौ गवायूषी ) जो नीचे वाले दो प्राण [ पायु और उपस्थ ] हैं वे दो गवायूषी यज्ञ हैं । ( अङ्गानि दशरात्रः, मुखं महाव्रतम् ) [ शेष ] अङ्ग दशरात्र और मुख महाव्रत यज्ञ है । ( तस्य हस्तौ एव उदय- नीयः अतिरात्रः ) उस [ मनुष्य के ] दोनों हाथ ही उदयनीय अतिरात्र यज्ञ हैं । ( हस्ता- भ्यां हि उद्यन्ति यः एवं वेद ) वह दोनों हाथों से चढ़ता है, जो ऐसा जानता है । ( सः वै एषः संवत्सरः ) सो वही संवत्सर यज्ञ है ॥ ३ ॥ भावार्थः मनुष्य शरीर के अवयवों को जानकर उन्हें पुष्ट रक्खे ॥ ३ ॥ कण्डिका ४ ॥ पुरुषो वाव संवत्सरः तस्य प्राण एव प्रायणीयोऽतिरात्रः प्राणेन हि प्रयन्ति वागारम्भणीयमहर्यद्यदारभते वागारभते १ वाचैव तदारभते । तस्यायमेव दक्षिणः पाणिरभिप्लवस्तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयं सवनं गायत्र्या आयतने तस्मादियमस्यै लघिष्ठा । १ । तस्येदं प्रातः सवनमिदं माध्यन्दिनं सवन- मिदं तृतीयसवनं त्रिष्टुभ आयतने तस्मादियमस्यै वरिष्ठा । २ । तस्येदं प्रातः सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनं जगत्या आयतने तस्मादियमनयोर्व- रिष्ठा । ३ । तस्येदं प्रातःसवनमिदं माध्यन्दिन सवनमिदं तृतीयसवनं पङ्क्त्या आयतने पृथुरिव वै पङ्क्तिस्तस्मादियमासां प्रतिष्ठा । ४ । तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनं विराज आयतनेऽन्नं वै श्रीः विराडन्नाद्यस्य श्रियोऽवरुद्ध्यै तस्मादियमासां वरिष्ठा । ५ । तस्येदं प्रातः सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनमतिच्छन्दसाम् आयतनेऽतिच्छन्दो वै छन्दसामायतनं तस्मा- दिदं प्रतिष्ठं फलकम् । ६ । तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीय- सवनं संतः संतोभिप्लवः संत आत्मा पृष्ठ्यः प्लवतीवाभिप्लवस्तिष्ठतीव पृष्ठ्यः प्लवत इव होवमङ्गैस्तिष्ठतीवात्मना । ७ । तस्यायमेव दक्षिणः कर्णोऽभिजित् । तस्य यद् दक्षिणमक्षणः शुक्लं स प्रथमस्वरसामा यत् कृष्णं स द्वितीयो यन्मण्डलं स तृतीयो नासिके विषुवान् , मण्डलमेव प्रथमोऽर्वाक् स्वरसामा यत् कृष्णं स द्वितीयो यत् शुक्लं स तृतीयस्तस्यायं सव्यः कर्णो विश्वजिदुक्तौ पृष्ठ्याभिप्लवौ यावर्वाञ्चौ प्राणौ ते गवायूषी अङ्गानि दशरात्रो मुखं महाव्रतं तस्योदान एवोद- यनीयोऽतिरात्र उदानेन ह्युद्यन्ति य एवं वेद स वा एष संवत्सरः ॥ ४ ॥ अवयवविशेषाः ( अण्वीभिः ) सूक्ष्माभिर्नाडीभिः ( उरः ) उरु² एव ( आन्तरे ) अन्तर-अण् । आभ्यन्तरे ( उत्तापानि ) तप्तानि आन्त्राणि ( अन्याः ) अन्ये ( अनूकम् ) मूत्रवस्तिः ( अर्वाञ्चौ ) अधोगतौ । पायूपस्थे ( उद्यन्ति ) उच्चैर्गच्छन्ति ॥ १. पू. सं. आरम्भेत इति पाठः ॥ २. कण्डिका में उरुस् शब्द भी छाती के अर्थ में है, जो कि अपपाठ है । तदनुसार भाष्यकार ने 'उरु एव' लिखा है । यह अयुक्त है । उरः की सिद्धि ऋ गतौ धातु से अर्त्तेरुरच्च ( उ. ४।१६५ ) से असुन् करके जाननी चाहिये ॥ सम्पा० ॥

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य) · पृष्ठ 255, कुल 600 में से · BharatKosha