गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 342, कुल 600 में से
संदर्भ में पढ़ें३०४ गोपथब्राह्मणे उत्तरभागे प्र० २ । क० १ भावार्थः—देश और काल का विचार करके संसार के पदार्थों से उपकार लेकर मनुष्य उन्नति करें ॥ २६ ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड्राधि- ष्ठितबड़ोदेपुरीगतश्रावणमासदक्षिणापरीक्षायाम् ऋक्सामार्थववेदभाष्येषु लब्ध- दक्षिणेन श्री पण्डित-क्षेमकरणदासत्रिवेदिना अथर्ववेदभाष्यकारेण कृते गोपथब्राह्मणभाष्य उत्तरभागे प्रथमः प्रपाठकः समाप्तः ॥ अयं प्रपाठकः प्रयागनगरे कार्त्तिकमासे शुक्लपक्षे द्वादश्यां तिथौ १९८० [ अशीत्युत्तरैकोनविंशतिशतके ] विक्रमीये संवत्सरे सुसमाप्तिमगात् । मुद्रितम्—भाद्रकृष्णा ८ संवत् १९८१ वि० ता० २२ अगस्त सन् १९२४ ई० ॥ अथ द्वितीयः प्रपाठकः । कण्डिका १ ॥ ओम् । माधूंसीयन्ति वा आहिताग्नेरग्नयः, त एनमेवाग्रेऽभिध्यायन्ति यजमानं, य एतमैन्द्राग्नं पशुं षष्ठे षष्ठे मासे आलभंते, तेनैवेन्द्राग्निभ्यां ग्रसित- मात्मानं निरवदयत । आयुष्काम आलभेत, प्राणापानौ वा इन्द्राग्नी, प्राणापाना- वेवात्मनि धत्ते, आयुष्मान् भवति । प्रजाकाम आलभेत, प्राणापानौ वा इन्द्राग्नी, प्राणापानौ प्रजा अनु प्रजायन्ते. प्रजावान् भवति । पशुकाम आलभेत, प्राणापानौ वा इन्द्राग्नी, प्राणापानौ पशवोऽनु प्रजायन्ते, पशुमान् भवति । यामं शुकं हरितमालभेत शठं वायःकामः, एता नाम यः१ पितृलोके स्यामित्येतेन ह वै यमो- ऽमुष्मिंल्लोक आध्नोत्, पितृलोक एवाध्नोति । त्वाष्ट्रं वडवमालभेत प्रजाकामः, प्रजापतिर्वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनमन्वाविन्दत्, स त्वाष्ट्रं वडव- मपश्यत्, त्वष्टा हि रूपाणां प्रजनयिता, तेन प्रजा असृजन्, तेन मिथुनमविन्दत् । प्रजावान् मिथुनवान् भवति, य एवं वेद, यश्चैवं विद्वानेतमालभते, योनीन् वा एष काम्यान् पशूनालभते, योनीष्ट्वैन्द्राग्नेन काम्यं पशुमालभन्त इष्ट्वालम्भः समृद्ध्यै ॥ १ ॥ १. “वा यः कामयेत अनामयः” इति पाठान्तरम् ॥ सम्पा० ॥