भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 352, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 352

३१४ गोपथब्राह्मणे उत्तरभागे प्र० २ । क० ५ कल्पब्राह्मणानामप्रयोगाद् यथोक्तानां वा दक्षिणानामप्रदानाद्धीनाद्वातिरिक्ताद्धो- त्पाताद् भूतेषु प्रायश्चित्तव्यतिक्रमादिति । इत्येतद्वै सर्वं ब्रह्मण्यर्पितं ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनातिरिक्ताङ्गः अप्रमत्तो यज्ञं रक्षति, तस्य प्रमादाद्यदि वाप्यसान्निध्याद्यथा भिन्ना नौरगाधे महत्युदके सम्प्लवेत्, मत्स्यकच्छपशिशुमारनक्रमकरपुण्डरीकझषरजसपिशाचानां भागधेयं भवति, एवमादीनां चान्येषां विनष्टोपजीविनाम् । एवं खल्वपि यज्ञश्छिन्नभिन्नोऽपध्वस्त उत्पाताद्भुतो बहुलोऽयज्ञैरसंस्कृतोऽसुरगन्धर्वयक्षराक्षसपिशाचानां भागधेयं भवति, एवमादीनां चान्येषां विनष्टोपजीविनाम् । तदपि श्लोकाः, छिन्नभिन्नोपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्त्तद्रविणं गृह्ययजमानस्यावापतत् ॥ १ ॥ ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ २ ॥ दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसाम्भागो ब्रह्मवेदादसंस्कृतः ॥ ३ ॥ चतुष्पात् सकलो यज्ञश्चातुर्हौत्रविनिर्मितः । चतुर्विधैः स्थितो मन्त्रैर्ऋत्विग्भिर्वेदपारगैः ॥ ४ ॥ प्रायश्चित्तैरनुध्यानैरनुज्ञानानुमन्त्रणैः । होमैश्च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेत् ॥ इति । ५ ॥ तस्माद् यजमानो भृग्वङ्गिरोविदमेव तत्र ब्रह्माणं वृणीयात् । स हि यज्ञ- न्तारयतीति ब्राह्मणम् ॥ ५ ॥ कण्डिका ५ ॥ यज्ञ में दोषों को ब्रह्मा ही ठीक कर सकता है ॥ ( मखः इति एतत् यज्ञनामधेयम्, छिद्रप्रतिषेधसामर्थ्यात् ) मख यह यज्ञ का नाम है, [ क्योंकि उसमें ] छिद्र [ दोष ] के निषेध का सामर्थ्य है। ( खम् इति छिद्रम् उक्तम्, तस्य प्रतिषेधः मा इति, यज्ञं छिद्रं मा करिष्यति इति ) ख-यह शब्द छिद्र कहा जाता है, उसका निषेध-मा यह पद है, यज्ञ को वह [ ब्रह्मा ] छिद्र वाला [ दूषित ] न करेगा, यह [ तात्पर्य ] है। ( छिद्रः यज्ञः हि भिन्नः उदधिः इव विस्रवति ) क्योंकि छिद्र वाला यज्ञ फूटे हुये जलाशय के समान बह जाता है। ( तत् वै खलु छिद्रं भवति, ऋत्विग्यजमानविमानात् वा एषां व्यपेक्षया अपि वा, मन्त्रकल्पब्राह्मणानाम् ५-( मखः ) मख गतौ--घः, यद्वा मा निषेधे + खनु विदारणे-डः, ह्रस्व- त्वम् । अच्छिद्रः । यज्ञः ( छिद्रम् ) छिद्र--अर्शआद्यच् । छिद्रयुक्तम् । दूषितम् ( उदधिः ) जलाशयः ( विमानात् ) अपमानात् ( व्यपेक्षया ) अनिच्छया ( कल्पः ) कर्मपद्धतिः । संस्कारविधिः ( उत्पातात् ) भूकम्पाद्युपद्रवात् ( अप्रमत्तः ) प्रमा-