भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 355, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 355

गोपथब्राह्मणे उत्तरभागे प्र० २। क० ६॥ ३१७ जावश्विनावध्वर्यू, तस्मादध्वर्यू घर्मं संभरतस्तं संभृत्योचतुः, ब्रह्मन् घर्मेण प्रचरिष्यामः, होतर्घर्ममभिष्टुहि, उद्गातः सामानि गायेति । प्रचरत घर्मेमि- त्यनुजानाति । ब्रह्मप्रसूता हि प्रचरन्ति, ब्रह्म हेदं प्रसवानामीशे, सवितृप्रसूततायै घर्मं तपामि, ब्रह्म जज्ञानमियमिष्टक्येति राष्ट्रचेत्वग्न इति । घर्मं ताप्यमानमुपासीत, शस्त्रवदर्धर्चश आहावप्रतिगरवजं रूपसमृद्धाभिः । एतद्वै यज्ञस्य समृद्धं यद्रूपसमृ- द्धम् । यत् कर्म क्रियमाणमृग्यजुर्वाभिवदति, स्वस्ति तस्य यज्ञस्य पारमश्नुते य एवं वेद । वेदमियुनं वा एतत् यद् घर्मः, तस्मादन्तर्घाय' प्रचरन्त्यन्तर्हिता वै मिथुनं चरन्तीति । १ । तदेतदेव मिथुनमित्याचक्षते । २ । तस्य यो घर्मः तच्छिश्नं, यौ शफौ, तावाण्ड्यौ, य उपयमनी२, ते श्रोणिकपाले, यत्पयः, तद्रेतः, तदग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजन३नाय । ३ । सोऽग्निदेवयोनिरुच्छृङ्गमयो यजुर्मयः साममयो ब्रह्ममयोऽमृतमय आहुतिमयः सर्वेन्द्रियः सम्पन्नो यजमान ऊर्ध्वः स्वर्गं लोक- मेति । ४ । तदाहुः, न प्रथमयज्ञे प्रवर्ग्यं कुर्वीत, अनुपनामका ह वा एनमुत्तरे यज्ञक्रतवो भवन्तीति । कामन्तु योनूचानः श्रोत्रियः स्यात्, तस्य प्रवृञ्ज्यात् आत्मा वै स यज्ञस्येति विज्ञायते, अपशिरसा ह वा एष यज्ञेन यजते, योऽप्रवर्ग्येण यजते । शिरो ह वा एतद्यज्ञस्य, यत् प्रवर्ग्यः । तस्मात् प्रवर्ग्यवतैव याजयेन्नाप्रव- र्ग्येण । तदप्येषाभ्यनूक्ता, चत्वारि शृङ्गेति ॥ ५॥ कण्डिका ६॥ यज्ञ, घर्म और प्रवर्ग्य का वर्णन ॥ (यज्ञः वै देवेभ्यः उदक्रामत् अहं वः अन्नं न भविष्यामि इति ) यज्ञ देवताओं से निकल भागा—मैं तुम्हारा अन्न नहीं होऊँगा। (न इति देवाः अब्रुवन्, नः अन्नम् एव भविष्यसि इति ) यह नहीं-देवता बोले-तू हमारा अन्न ही होगा । (तं देवाः विमेथिरे) उसको देवताओं ने मारा । ( सः विहृतः एभ्यः न प्रबभूव ) वह मारा हुआ इनके लिये [अन्न बनने को] न समर्थ हुआ । ( ते देवाः ह ऊचुः, इत्थं विहृतः नः वै अलं न भविष्यति, हन्त इमं सम्भराम इति ) वे देवता बोले—इस प्रकार से मारा हुआ यह हमारे लिये पर्याप्त न होगा, अच्छा ! इसे हम मिलकर धारण करें। तं संजभ्रुः ) उसे उन्होंने मिलकर पकड़ा। (तं संभृत्य ऊचुः अश्विनौ इमं भिषज्यनम् इति ) उसे मिलकर धारण करके वे बोले—हे दोनों अश्विनो ! इसकी औषध करो। (अश्विनौ वै देवानां भिषजौ अश्विनौ अध्वर्यू तस्मात् अध्वर्यू घर्मं सम्भरतः ) दोनों अश्वी [ प्राण और अपान ] ही देवों [ इन्द्रियों ] के दो वैद्य ६—(उदक्रामत्) उत्क्रान्तवान् (विमेथिरे) विविधं हिंसितवन्तः (विहृतः) विविधं ताडितः (अलम्) पर्याप्तम् (सम्भराम) ऐ० ब्रा० १ । १८ । सम्यग् धराम । पोषयाम । (संजभ्रुः) हस्य भः । सजह्रुः । एकीभूय गृहीतवन्तः (ऊचुः)— १. पू. सं. “अन्तर्धा हि" इति पाठः ॥ २. पू. सं. 'उपयमनीके' इति पाठः ॥ ३. बृहदारण्यक ६ । २ । १३ तथा छान्दोग्य ५ । ८ । १-२ में वर्णित यज्ञ क. विभिन्न उपमाओं के अनुरूप यहाँ भी विभिन्न रूपक वर्णित हुए हैं ॥ सम्पा० ॥