गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 355, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० २। क० ६॥ ३१७ जावश्विनावध्वर्यू, तस्मादध्वर्यू घर्मं संभरतस्तं संभृत्योचतुः, ब्रह्मन् घर्मेण प्रचरिष्यामः, होतर्घर्ममभिष्टुहि, उद्गातः सामानि गायेति । प्रचरत घर्मेमि- त्यनुजानाति । ब्रह्मप्रसूता हि प्रचरन्ति, ब्रह्म हेदं प्रसवानामीशे, सवितृप्रसूततायै घर्मं तपामि, ब्रह्म जज्ञानमियमिष्टक्येति राष्ट्रचेत्वग्न इति । घर्मं ताप्यमानमुपासीत, शस्त्रवदर्धर्चश आहावप्रतिगरवजं रूपसमृद्धाभिः । एतद्वै यज्ञस्य समृद्धं यद्रूपसमृ- द्धम् । यत् कर्म क्रियमाणमृग्यजुर्वाभिवदति, स्वस्ति तस्य यज्ञस्य पारमश्नुते य एवं वेद । वेदमियुनं वा एतत् यद् घर्मः, तस्मादन्तर्घाय' प्रचरन्त्यन्तर्हिता वै मिथुनं चरन्तीति । १ । तदेतदेव मिथुनमित्याचक्षते । २ । तस्य यो घर्मः तच्छिश्नं, यौ शफौ, तावाण्ड्यौ, य उपयमनी२, ते श्रोणिकपाले, यत्पयः, तद्रेतः, तदग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजन३नाय । ३ । सोऽग्निदेवयोनिरुच्छृङ्गमयो यजुर्मयः साममयो ब्रह्ममयोऽमृतमय आहुतिमयः सर्वेन्द्रियः सम्पन्नो यजमान ऊर्ध्वः स्वर्गं लोक- मेति । ४ । तदाहुः, न प्रथमयज्ञे प्रवर्ग्यं कुर्वीत, अनुपनामका ह वा एनमुत्तरे यज्ञक्रतवो भवन्तीति । कामन्तु योनूचानः श्रोत्रियः स्यात्, तस्य प्रवृञ्ज्यात् आत्मा वै स यज्ञस्येति विज्ञायते, अपशिरसा ह वा एष यज्ञेन यजते, योऽप्रवर्ग्येण यजते । शिरो ह वा एतद्यज्ञस्य, यत् प्रवर्ग्यः । तस्मात् प्रवर्ग्यवतैव याजयेन्नाप्रव- र्ग्येण । तदप्येषाभ्यनूक्ता, चत्वारि शृङ्गेति ॥ ५॥ कण्डिका ६॥ यज्ञ, घर्म और प्रवर्ग्य का वर्णन ॥ (यज्ञः वै देवेभ्यः उदक्रामत् अहं वः अन्नं न भविष्यामि इति ) यज्ञ देवताओं से निकल भागा—मैं तुम्हारा अन्न नहीं होऊँगा। (न इति देवाः अब्रुवन्, नः अन्नम् एव भविष्यसि इति ) यह नहीं-देवता बोले-तू हमारा अन्न ही होगा । (तं देवाः विमेथिरे) उसको देवताओं ने मारा । ( सः विहृतः एभ्यः न प्रबभूव ) वह मारा हुआ इनके लिये [अन्न बनने को] न समर्थ हुआ । ( ते देवाः ह ऊचुः, इत्थं विहृतः नः वै अलं न भविष्यति, हन्त इमं सम्भराम इति ) वे देवता बोले—इस प्रकार से मारा हुआ यह हमारे लिये पर्याप्त न होगा, अच्छा ! इसे हम मिलकर धारण करें। तं संजभ्रुः ) उसे उन्होंने मिलकर पकड़ा। (तं संभृत्य ऊचुः अश्विनौ इमं भिषज्यनम् इति ) उसे मिलकर धारण करके वे बोले—हे दोनों अश्विनो ! इसकी औषध करो। (अश्विनौ वै देवानां भिषजौ अश्विनौ अध्वर्यू तस्मात् अध्वर्यू घर्मं सम्भरतः ) दोनों अश्वी [ प्राण और अपान ] ही देवों [ इन्द्रियों ] के दो वैद्य ६—(उदक्रामत्) उत्क्रान्तवान् (विमेथिरे) विविधं हिंसितवन्तः (विहृतः) विविधं ताडितः (अलम्) पर्याप्तम् (सम्भराम) ऐ० ब्रा० १ । १८ । सम्यग् धराम । पोषयाम । (संजभ्रुः) हस्य भः । सजह्रुः । एकीभूय गृहीतवन्तः (ऊचुः)— १. पू. सं. “अन्तर्धा हि" इति पाठः ॥ २. पू. सं. 'उपयमनीके' इति पाठः ॥ ३. बृहदारण्यक ६ । २ । १३ तथा छान्दोग्य ५ । ८ । १-२ में वर्णित यज्ञ क. विभिन्न उपमाओं के अनुरूप यहाँ भी विभिन्न रूपक वर्णित हुए हैं ॥ सम्पा० ॥