भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 368, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 368

३३० गोपथब्राह्मणे उत्तरभागे प्र० ३ । क० ११ ॥ भावार्थः—यजमान ब्रह्मा की सम्मति से यज्ञ के सब अङ्गों को यथाविधि पूरा करके संसार में समृद्ध होवे ॥ १० ॥ विशेषः—सङ्केतित मन्त्र अर्थ सहित लिखा जाता है— देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृह्णाम्यग्नीषोमाभ्यां जुष्टं गृह्णामि—यजु० १ । १० [ हे यज्ञ ] ( देवस्य ) सब जगत् के प्रकाशक, ( सवितुः ) सब जगत् के उत्पादक परमेश्वर के ( प्रसवे ) उत्पन्न किये हुये संसार में ( अश्विनोः ) सूर्य और चन्द्रमा के ( बाहुभ्याम् ) बल और वीर्य से तथा ( पूष्णः ) पुष्टि करने वाले प्राण के ( हस्ताभ्याम् ) ग्रहण और त्याग से ( अग्नये ) अग्नि विद्या की सिद्धि के लिये ( जुष्टम् ) सेवा किये गये ( त्वा ) तुझको ( गृह्णामि ) स्वीकार करता हूं । ( अग्नीषोमाभ्याम् ) अग्नि और जल की विद्या करके ( जुष्टम् ) सेवा किये [ तुझ ] को ( गृह्णामि ) स्वीकार करता हूं ॥ कण्डिका ११ ॥ देवाश्च ह वा असुराश्चास्पर्धन्त, ते देवाः समात्रदेवा यज्ञे कुर्वाणा आसन्, यदेव देवा अकुर्वत, तदसुरा अकुर्वत, ते न व्यावृत्तमगच्छन् । ते देवा अब्रुवन्, नयतेमं यज्ञं तिर उपर्य्यसुरेभ्यस्तमस्यामहै इति । तमेताभिराच्छाद्योदक्रा१मन्, यजूंषि यज्ञे समिधः स्वाहेति । तन्तिर उपर्य्यसुरेभ्यो यज्ञमतन्वत, तमेषां यज्ञमसुराणाम् न्ववायन्, ततो न देवा अभवन्, परासुराः। स य एवं विद्वांस्तिर उपर्य्यसुरेभ्यो यज्ञं तनुते, भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति । एतैरेव जुहुयात्स वृतयज्ञे चतुर्भिश्चतुर्भिरन्वाख्याये२ पुरस्तात् प्रातरनुवाकस्य जुहुयात्, एतावान् वै यज्ञः यावानेष यज्ञस्तं वृङ्क्ते, स यज्ञो भवति, अयज्ञ इतरः । एतैरेव जुहुयात्, पुरस्ताद् द्वादशाहस्य । एष ह वै प्रत्यक्षं द्वादशाहः, तमेव आलभ्य एतैरेव जुहुयात्, पुरस्ताद् दीक्षायाः । एषा ह वै प्रत्यक्षं दीक्षा, तामेवालभ्यैतैरेवातिथ्यम- भिमृशेत्, यज्ञेन यज्ञमयजन्त देवा इति ॥ ११ ॥ कण्डिका ११ ॥ देवताओं ने यज्ञ द्वारा असुरों पर विजय पाया ॥ ( देवाः च ह वै असुराः च अस्पर्धन्त ) देवता [ विद्वान् लोग ] और असुर [ अविद्वान् ] लड़ने लगे । ( ते समौ अदेवाः देवाः यज्ञे कुर्वाणाः आसन् यत् एव देवाः अकुर्वत, तत् असुराः अकुर्वंत, ते न व्यावृत्तम् अगच्छन् ) वे समान विजय चाहने वाले असुर एवं देवता यज्ञ में कर्म करते हुये थे, जो ही [ यज्ञ कर्म ] देवता करते थे, वह [ यज्ञ कर्म ] असुर करते थे, उससे वे [ असुर ] रुकावट को प्राप्त न हुये । ( ते देवाः अब्रुवन्, इमं यज्ञं तिरः नयत असुरेश्यः, उपरि तम् अस्यामहै इति ) वे देवता [ आपस में ] बोले—इस १ —-( देवाः ) विद्वांसः ( असुराः ) अविद्वांसः ( व्यावृत्तम् ) निवारणम् ( तिरः ) तिरोधाय । आच्छाद्य ( उपरि ) उपरि सन्तः ( अस्यामहै ) असु क्षेपणे— १. पू. सं. 'उदक्रामन्ति' इति पाठः ॥ २. पू. सं. "अन्वाख्यानं" इति पाठः ॥ सम्पा० ॥