गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 540, कुल 600 में से
संदर्भ में पढ़ें५०२ गोपथब्राह्मणे उत्तरभागे प्र० ६। क० ४॥ कण्डिका ४॥ अपेन्द्र प्राचो मघवन्नमित्रानिति, मैत्रावरुणः पुरस्तात् सम्पातानामहरहः शंसति। अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेमेति, अभयस्य रूपमभयमिव हान्विच्छेति, ब्रह्मणा ते ब्रह्मयुजा युन- ज्मीति, ब्राह्मणाच्छंस्येतामहरहः शंसति युक्तवतीं युक्त इवाह्यहीनोऽहीनस्य रूप- मुरुं नो लोकमनुनेषीति, अच्छावाको अहरहः शंसति। अनुनेषीत्येत इवाह्यही- नोऽहीनस्य रूपं नेषीति सत्रायणरूपम्। ओकःसारी हैवैषामिन्द्रो भवति, यथा गौः प्रज्ञातं गोष्ठं, यथा ऋषभं वासितायाः, एवं हैवैषामिन्द्रो यज्ञमागच्छति।¹ न शुनं हुवेम यथाहीनस्य परिदध्यात्। क्षत्रियो ह राष्ट्राच्च्यवते, यो हैव परो भवति, तमभिह्वयति ॥ ४ ॥ कण्डिका ४॥ अहीन यज्ञ में विशेष मन्त्रों का प्रयोग। अपेन्द्र प्राचो मघवन्नमित्रान्—इति मैत्रावरुणः सम्पातानां पुरस्तात् अहरहः शंसति) अपेन्द्र प्राचो मघवन् अमित्रान्—......अथर्व० २०। १२५। १, हे महाधनी इन्द्र ! पूर्व वाले बैरियों को दूर [हटा] यह मन्त्र मैत्रावरुण सम्पात सूक्तों के पहिले दिन दिन बोलता है। (अपापाचो अभिभूते नुद- स्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम, इति अभयस्य रूपम्, अभयम् इव हि अन्विच्छ इति) अप अपाचः अभिभूते ···· [उसी मन्त्र के शेष तीन पाद, अर्थ नीचे देखो] यह [वाक्य] अभय का रूप है, अभय को ही तू ढूंढ़। (ब्रह्मणा ते ब्रह्मयुजा युनज्मि इति ब्राह्मणाच्छंसी एतां युक्तवतीम् अहरहः शंसति, युक्तः इव हि अहीनः, अहीनस्य रूपम्) ब्रह्मणा ते ब्रह्मयुजा युनज्मि—अथर्व० २०। ८६। १—इस युक्तवती [युनज्मि इस पद में युज, संयुक्त करना धातु के अर्थ वाली ऋचा] को ब्राह्मणाच्छंसी दिन दिन बोलता है युक्त [मिला हुआ, यज्ञ के दिनों से मिला हुआ] ही अहीन [बहुत दिनों वाला यज्ञ] है, [इसलिये यह मन्त्र] अहीन का रूप है। (उरुं नो लोकम् अनुनेषि, इति अच्छावाकः अहरहः शंसति) उरुं नो लोकम् अनुनेषि—अथर्व० ४—(अप) दूरे (प्राचः) प्र+अञ्चतेः क्विन्, शस् । पूर्वदेशे वर्तमानान् (मघवन्) महाधनिन् (अमित्रान्) पीडकान् वैरिणः (अपाचः) पश्चिमदेशे वर्तमानान् (अभिभूते) हे अभिभवितः (नुदस्व) प्रेरय (उदीचः) उत्तरदेशे वर्तमानान् (अधराचः) दक्षिणदिशि वर्तमानान् (उरौ) विस्तीर्णे (शर्मन्) शर्मणि। शरणे (मदेम) हृष्येम (इव) एव (अन्विच्छ) अन्वेषणेन प्राप्नुहि (ब्रह्मणा) अन्नेन (ते) तुभ्यम् (ब्रह्मयुजा) धनस्य संयोजको संग्राहकौ (युनज्मि) संयोजयामि (युक्तवतीम्) युनज्मि इति श्रवणाद् युजि धात्वर्थ- वतीम् (युक्तः) अह्नां परस्परसम्बन्धवान् (नः) अस्मान् (लोकम्) स्थानम् १. पु. सं. “आगच्छन्ति”· इति पाठः ॥ सम्पा० ॥